Sutras 121 - 140¶
- 54121: नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम्
- 54122: नित्यमसिच् प्रजामेधयोः
- 54123: बहुप्रजाश्छन्दसि
- 54124: धर्मादनिच् केवलात्
- 54125: जम्भा सुहरिततृणसोमेभ्यः
- 54126: दक्षिणेर्मा लुब्धयोगे
- 54127: इच् कर्मव्यतिहारे
- 54128: द्विदण्ड्यादिभ्यश्च
- 54129: प्रसम्भ्यां जानुनोर्ज्ञुः
- 54130: ऊर्ध्वाद्विभाषा
- 54131: ऊधसोऽनङ्
- 54132: धनुषश्च
- 54133: वा संज्ञायाम्
- 54134: जायाया निङ्
- 54135: गन्धस्येदुत्पूतिसुसुरभिभ्यः
- 54136: अल्पाख्यायाम्
- 54137: उपमानाच्च
- 54138: पादस्य लोपोऽहस्त्यादिभ्यः
- 54139: कुम्भपदीषु च
- 54140: संख्यासुपूर्वस्य