54137: उपमानाच्च

Padacheda: उपमानात् | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The इ is substituted for the final अ of गन्ध at the end of a बहुव्रीहि समास when preceded by a word denoting a thing with which it is compared.

Vasu English Translation

The इ is substituted for the final अ of गन्ध at the end of a बहुव्रीहि समास when preceded by a word denoting a thing with which it is compared. As पद्मस्येव गन्धोऽस्य = पद्मगन्धिः, उत्पलगन्धिः करीषगन्धिः ॥

Kashika

उपमानात् परो यो गन्धशब्दस्तस्येकारादेशो भवति समासान्तो बहुव्रीहौ समासे। पद्मस्येव गन्धोऽस्य पद्मगन्धिः। उत्पलगन्धिः। करीषगन्धिः॥

Siddhanta Kaumudi

पद्मस्येव गन्धोऽस्य पद्मगन्धि ॥

Balamanorama

उपमानाच्च - उपमानाच्च । उपमानवाचिपूर्वपदात्परस्यापि गन्धशब्दस्य इकारोऽन्तादेशः स्याद्बहुव्रीहावित्यर्थः । पद्मस्येवेति । फलितार्थकथनमिदम् । पद्मगन्ध इव गन्धो यस्येति विग्रहः । पद्मपदं पद्मसंबन्धिगन्धसदृशो लाक्षणिकम् ।सप्तम्युपमानपूर्वपदस्ये॑ति समासः ।

Prakriyasarvasvam

उपमानात् परस्य गन्धस्येत् स्यात् । पद्मस्येव गन्धोऽस्येति पद्मगन्धि । भोजमते वा । पद्मगन्धः ॥

Sutra Prayogas

  • मदगन्धिभिः (रघुवंशम्): उपमानाच्च इति इकारः समासान्तः।

  • उच्छ्वसत्कमलगन्धये (कुमारसम्भवम्): उपमानाच्च इतीकारः।