54134: जायाया निङ्

Padacheda: जायायाः | S | 6 | 1 |

निङ् | S | 1 | 1 |

Sutrartha


Vasu English Summary

For the final of जाया is substituted निङ् in a बहुव्रीहि समास ।

Vasu English Translation

For the final of जाया is substituted निङ् in a बहुव्रीहि समास । Thus युवतिर्जाया यस्य = युवजानिः (जाया + निङ् = जाय् + निङ् = जा + नि, the य् being elided by (6.1.66). So also वृद्धजानिः ॥ There is punvad-bhava also.

Kashika

जायाशब्दान्तस्य बहुव्रीहेर्निङादेशो भवति। युवतिर्जाया यस्य युवजानिः। वृद्धजानिः॥

Siddhanta Kaumudi

जायान्तस्य बहुव्रीहेर्निङादेशः स्यात् ॥

Nyaas

निङादेशो भवति इति। आदेशत्वमस्य पूर्ववद्? ङित्त्वादेव विज्ञायते। युवजानिः इति। लोपो व्योर्वलि` (6.1.64) इति यलोपः। स्त्रियाः पुंवत् (6.3.33) इति पुंवद्भावः॥

Prakriyasarvasvam

जायान्तस्य निङ् स्यात् । ङित्त्वादातः । लोपो व्योः (६-१-६६) इति यलोपः । रमा जाया अस्य रजानिः ।

Sutra Prayogas

  • अनन्यजानेः (रघुवंशम्): जायाया निङ् इति समासान्तो निङादेशः।