54129: प्रसम्भ्यां जानुनोर्ज्ञुः¶
Padacheda: प्रसम्भ्याम् | S | 5 | 2 |
जानुनोः | S | 6 | 2 |
ज्ञुः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
After the words प्र and सम् there is the substitution of ज्ञु for जानु when forming the बहुव्रीहि समास ।
Vasu English Translation¶
After the words प्र and सम् there is the substitution of ज्ञु for जानु when forming the बहुव्रीहि समास । Thus प्रकृष्टे जानुनी अस्य = प्रज्ञुः, So also संज्ञुः ॥
Kashika¶
प्र सम् इत्येताभ्यामुत्तरस्य जानुशब्दस्य ज्ञुरादेशो भवति समासान्तो बहुव्रीहौ। प्रकृष्टे जानुनी अस्य प्रज्ञुः। संज्ञुः॥
Siddhanta Kaumudi¶
आभ्यां परयोर्जानुशब्दयोर्ज्ञुरादेशः स्याद्बहुव्रीहौ । प्रगते जानुनी यस्य प्रज्ञुः । संज्ञुः ॥
Balamanorama¶
प्रसम्भ्यां जानुनोर्ज्ञुः - प्रसंभ्यां । जानुशब्दयोरिति.॒प्र॑ ‘सम्’ इति पूर्वपदद्वित्वादुत्तरपदभूतजानुशब्दस्यापि द्वित्वं बोध्यम् । ‘जानुन’ इत्युक्ते तुप्रत्ययः, परश्चे॑त्यधिकारात् पञ्चम्यन्तत्वसंभवाज्ज्ञोः प्रत्ययत्वं च सम्भाव्येत । तस्यादेशत्वसिद्धये षष्ठीद्विवचननिर्देशः । तदाह — ज्ञुरादेश इति । प्रज्ञुरिति ।प्रादिभ्यो धातुजस्ये॑ति समासः । संज्ञुरिति । सङ्गते जानुनी यस्येति विग्रहः ।
Tattvabodhini¶
प्रसम्भ्यां जानुनोर्ज्ञुः - प्रसंभ्याम् । जानुशब्दस्यैकत्वेऽप्युपपजनिबन्धनं द्वित्वमाश्रित्य जानुनोरिति द्विचननिर्देशः, तत्फलं तु स्थानषष्ठीत्वस्फुटीकरणम् ।जानुनः॑इत्युक्ते तु किमियं पञ्चमी, प्रत्ययाधिकारात् ज्ञुरपु प्रत्यय इत्येवं सन्देहः स्यात्, तदेततद्ध्वनयन्नाह -जानुशब्दयोर्ज्ञुरादेश इति ।
Padamanjari¶
ज्ञुरित्ययमादेश इति। प्रत्ययस्त्वयं न भवति; षष्ठीद्विवचनेन निर्देशात्। इह हि जानुशब्दस्यैकत्वेऽपि अर्थगतं द्वित्वम्, उपपदनिबन्धनं वा द्वित्वमाश्रित्य जानुनोरिति निर्देश एतदर्थ- क्रियते - स्थानषष्ठीत्वमसन्दिग्धं कथं विज्ञायेतेति। च्छन्दसि तु स्वतन्त्रोऽपि ज्ञुशब्दो दृश्यते - ठुपज्ञुबाधो नभसाऽ,’सदेम वत्सज्ञुं पशुकामस्य’ इति ॥
Nyaas¶
जानुशब्दस्यादेशो भवति इति। कथं पुनज्र्ञायते - आदेशोऽयम्? न प्रत्यम इति? यदि प्रत्ययः स्यात्, जानुनः इत्येकवचनेनैव निर्द्देशं कुर्यात्; षष्ठीद्विवचनेनैव निर्देशः कृतः। तस्मादावेशोऽयं न प्रत्यय इति विज्ञायते। षष्ठीद्विवचनेन निर्देशोऽसन्देहार्थः कृतः - स्थानषष्ठीत्वमसन्दिग्धं यता विज्ञायेतेति। जानुन इत्युच्चमानं सन्देहः स्यात् - किमियं षष्ठी, उत पञ्चमीति॥
Prakriyasarvasvam¶
आभ्यां जानुशब्दस्य बहुव्रीहौ ज्ञुरादेशः स्यात् । प्रगतेऽतिविशिष्टे जानुनी अस्य प्रज्ञुः । संश्लिष्टजानुः संज्ञुः । जानुनोर्द्वित्वाद् ‘जानुनोर्ज्ञु’रिति पाठमाह हरः ॥