54140: संख्यासुपूर्वस्य¶
Padacheda: सङ्ख्यासुपूर्वस्य | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
The final अ of पाद is elided also when a numeral or the word सु precedes it in a बहुव्रीहि समास ।
Vasu English Translation¶
The final अ of पाद is elided also when a numeral or the word सु precedes it in a बहुव्रीहि समास । Thus द्वौ पादावस्य = द्विपात्, त्रिपात्, so also शोभनौ पादावस्य = सुपात् ॥
Kashika¶
संख्यापूर्वस्य सुपूर्वस्य च बहुव्रीहेः पादशब्दान्तस्य लोपो भवति समासान्तः। द्वौ पादावस्य द्विपात्। त्रिपात्। शोभनौ पादावस्य सुपात्॥
Siddhanta Kaumudi¶
पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ । द्विपात् । सुपात् ॥
Laghu Siddhanta Kaumudi¶
पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ। द्विपात्। सुपात्॥
Balamanorama¶
संख्यासुपूर्वस्य - सङ्ख्यासुपूर्वस्य । शेषपूरणेन सूत्रं व्याचष्टे — पादस्येति । उपमानात्परत्वाऽभावादप्राप्तौ वचनम् । द्विपादिति । द्वौ पादावस्येति विग्रहः । सुपादिति । शोभनौ पादावस्येति विग्रहः ।
Nyaas¶
अनुपमानार्थमिदम्॥
Prakriyasarvasvam¶
पादस्यान्तलोपः स्यात् । द्विपात् । सुपात् ॥
Sutra Prayogas¶
त्रिपादिव (रघुवंशम्): संख्यासुपूर्वस्य इत्यकारलोपः समासान्तः।
सु-पाद् (भट्टिकाव्यम्): सङ्ख्यासुपूर्वस्य इति पादान्तलोपः।