54126: दक्षिणेर्मा लुब्धयोगे

Padacheda: दक्षिणेर्मा | S | 1 | 1 |

लुब्धयोगे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The form दक्षिणेर्मन् is an irregularly formed बहुव्रीहि समास when used in conjunction with a hunter.

Vasu English Translation

The form दक्षिणेर्मन् is an irregularly formed बहुव्रीहि समास when used in conjunction with a hunter. The word लुब्ध means व्याध or a fowler, a hunter. Thus दक्षिणमीर्ममस्य = दक्षिणेर्मा मृगः ‘a stag wounded by the hunter on the right flank’. But in the following verse:- बाली हेमाब्जमाली गुणनिधिरिषुणानिर्मितो दक्षिणेर्मा, it denotes merely hunting. The word ईर्मम् means ‘a wound’. Why do we say ‘in reference to a hunter’? Observe दक्षिणेर्मम् शकटम् ॥

Kashika

दक्षिणेर्मेति कृतसमासान्तो निपात्यते बहुव्रीहौ समासे लुब्धयोगे। लुब्धो व्याधः। दक्षिणमीर्ममस्य दक्षिणेर्मा मृगः। ईर्मं व्रणमुच्यते। दक्षिणमङ्गं व्रणितमस्य व्याधेनेत्यर्थः। लुब्धयोग इति किम् ? दक्षिणेर्मं शकटम्॥

Siddhanta Kaumudi

दक्षिणे ईर्मं व्रणं यस्य दक्षिणेर्मा मृगः । व्याधेन कृतव्रण इत्यर्थः ॥

Balamanorama

दक्षिणेर्मा लुब्धयोगे - दक्षिणेर्मा । लुब्धो-व्याधः, तद्योगे ‘दक्षिणेरमा’ इत्यनिच्प्रत्ययः, बहुव्रीहिश्च निपात्यते । दक्षिणे ईर्मं यस्येति विग्रहः । ईर्ममित्यस्य व्याख्यानंव्रण॑मिति व्यधिकरणत्वेऽपि बहुव्रीहिर्निपातनात् । अनिचियस्येति चे॑त्यकारलोपेदक्षिणेर्मे॑ति रूपम् । लुब्धशब्दं विवृण्वन्नाह-व्याधेनेति । रोगादिना व्रणे तु दक्षिणेर्म इत्येवेति भावः ।

Tattvabodhini

दक्षिणेर्मा लुब्धयोगे - दक्षिणर्मा । लुब्धो — व्याधः । तद्योगादेवेर्मनिष्पात्ताविगं निपातनं नान्यदेत्यर्थस्तदेतदाह -व्याधेनेति ।वाली हेमाब्दमाली गुणनिधिरिषुणा निर्मितो दक्षिणेर्मा॑इति प्रयोगस्त्वौपचारिक इति कथंचिन्नेयः ।

Padamanjari

लुब्धो वयाध इति। कवयस्तु हिंसामात्रे प्रयुञ्जते -‘बालीहेमाब्जमाली गुणनिधिरिषुणा निर्मितो दक्षिणेर्मा’ इति यथा। व्रणितमिति। व्रणशब्दादितच्।’व्रम गात्रविचूर्णने’ इत्यस्माद्वा चौरादिकणिजन्ताक्तः ॥

Prakriyasarvasvam

व्याधसम्बन्धे सति दक्षिणेर्मेति स्यात् । दक्षिणे भागे व्याधकृतमीर्मं व्रणमस्येति दक्षिणेर्मा मृगः । ‘बाली हेमाब्जमाली गुणनिधिरिषुणा निर्मितो दक्षिणेर्मा’ इति हिंसकमात्रयोगेऽस्तीति हरः ।

Sutra Prayogas

  • दक्षिणेर्मा (भट्टिकाव्यम्): दक्षिणेर्मा लुब्धयोगे इत्यनिच्।