54122: नित्यमसिच् प्रजामेधयोः

Padacheda: नित्यम् | S | 1 | 1 |

असिच् | S | 1 | 1 |

प्रजामेधयोः | S | 6 | 2 |

Sutrartha


Vasu English Summary

The affix असिच् (अस्) comes invariably after 1. प्रजा and 2. मेधा final in a बहुव्रीहि समास when the above particles 1. नञ् 2. दुस् and 3. सु precede them.

Vasu English Translation

The affix असिच् (अस्) comes invariably after 1. प्रजा and 2. मेधा final in a बहुव्रीहि समास when the above particles 1. नञ् 2. दुस् and 3. सु precede them. Thus अविद्यमाना प्रजाऽस्य = अप्रजस् nom. s. अप्रजा, so also दुष्प्रजा, सुप्रजा, अमेधा, दुर्मेधा, सुमेधा ॥ The word “invariably” (नित्य) shows that the anuvritti of the word “optionally” of the last sutra does not run here. The word nitya also indicates that the affix ach comes after praja and medha even when preceded by other words. As:

श्रोत्रियस्येव ते राजन्मन्दकस्याल्पमेधसः अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी ॥

Kashika

नञ्दुस्सुभ्य इत्येव। नञ् दुस् सु इत्येतेभ्यः परौ यौ प्रजामेधाशब्दौ तदन्तात् बहुव्रीहेर्नित्यमसिच् प्रत्ययो भवति समासान्तः। अविद्यमाना प्रजास्य अप्रजाः। दुष्प्रजाः। सुप्रजाः। अविद्यमाना मेधास्य अमेधाः। दुर्मधाः। सुमेधाः। नित्यग्रहणं किम् ? यावता पूर्वसूत्रेऽन्यतरस्यांग्रहणं नैव स्वर्यते? एवं तर्हि नित्यग्रहणादन्यत्रापि भवतीति सूच्यते।

श्रोत्रियस्येव ते राजन् मन्दकस्याल्पमेधसः।

अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी ॥

Siddhanta Kaumudi

नञ्दुः सुभ्य इत्येव । अप्रजाः । दुष्प्रजाः । सुप्रजाः । अमेधाः । दुर्मेधाः । सुमेधाः ॥

Balamanorama

नित्यमसिच् प्रजामेधयोः - नित्यमसिच् । नञ्दुःसुभ्य इत्येवेति । पूर्वसूत्रादनुवर्तत इति भावः । एतेभ्यः पराभ्यां प्रजामेधाशब्दाभ्यां नित्यमसिच्समासान्त स्यात्, स तद्धित इत्यर्थः । असिचस्चकार इत् । इकार उच्चारणार्थः ।अन्यतरस्या॑मित्यनुवृत्तिनिवृत्त्यर्थं नित्यग्रहणम् । अस्वरितत्वादेव तदनुवृत्त्यभावे सिद्धे स्पष्टार्थमिति तत्त्वम् । अप्रजा इति । अविद्यमाना प्रजा यस्येति विग्रहः ।नञोऽस्त्यर्थाना॑मिति समासः । असिचियस्येति चे॑त्यकारलोपादप्रजस्शब्दात्सुबुत्पत्तिः । सौ तुअत्वसन्तस्ये॑ति दीर्घः ।हळ्ङ्या॑बिति सुलोपः । यद्यप्यकारं विना सिचि विहितेऽपि सिद्धमिदन्तथापि सिच्यभत्वेन आकारलोपाऽभावादप्रजास्शब्दात्सुबुत्पत्तौ, प्रथमैकवचने ‘अप्रजा’ इति रूपसिद्धावपि अप्रजासाविति न स्यात् । किंतु अप्रजासावित्यादि स्यात् । तस्मादकारोच्चारमं भत्वसंपादनार्थमावश्यकम् । दुष्प्रजा इति । दुर्गता प्रजा यस्येति विग्रहः ।प्रादिभ्यो धातुजस्ये॑ति समासः । असिजादि पूर्ववत् । अमेधा इत्यादि.अविद्यमानां मेधा यस्येति विग्रहः । असिजादि पूर्ववत् । केचित्तु नित्यग्रहणमन्यतो विदानार्थं तेनाल्पमेधस इत्यादि सिध्यतीत्यप्याहुः ।

Tattvabodhini

नित्यमसिच् प्रजामेधयोः - नित्यमसिच् । अकारोच्चारणं भत्वसम्पादनार्थम्, ते नसुप्रजसावित्यादौयस्येति चे॑ त्यकारलोपः सिध्यति । अस्वरितत्वादेव अन्यतरस्याङ्ग्रहणा ननुवृत्तिसिद्धौ नित्यग्रहणमन्यतो विधानार्थम् । तेनअल्पमेधस॑इति सिध्यतीति वृत्तिकारादयः ।

Padamanjari

असेवायं न विहितः, सकास्येत्संज्ञा मा भूदिति। एवं तर्हीत्यादि। भाष्ये एतन्नाश्रितम्। चित्करणम् - दुःप्रजाः, दुर्मेधा इत्यत्रान्तोदातार्थम्। अन्यत्र’नञ्सुभ्याम्’ इत्येव सिद्धम् ॥

Nyaas

एवं तर्हि नित्यग्रहणेनान्यत्रापि सूच्यते इति। ग्रन्ताधिक्यादर्थाधिक्यं भवतीति कृत्वा। असिचश्चित्करणं दुष्प्रजाः, दुर्मेधा इत्यन्तोदात्तत्वं यथा स्यात्? अप्रजाः, इत्यादौ तु नार्थश्चित्करणेन; नञ्सुभ्याम् (6.2.172) इत्यनेनैवोत्तरपदान्तोदात्तत्वस्य सिद्धत्वात्॥

Prakriyasarvasvam

नञ्दुःसुभ्योऽनयोर्नित्यमसिच् स्यात् । अप्रजाः । दुष्प्रजाः । सुप्रजाः । अमेधाः । दुर्मेधाः । सुमेधाः । ‘अन्यत्राप्यस्तीति वृत्त्युक्त्या ‘मन्दालपाभ्यां च मेधायाः (स० ५-४-१४४) इति भोजवर्द्धमानोक्त्या च मन्दमेधाः । अल्पमेधाः ॥

Sutra Prayogas

  • सुप्रजसि (रघुवंशम्): नित्यमसिच्प्रजामेधयोः इत्यसिच्प्रत्ययः।

  • सुमेधसा (किरातार्जुनीयम्): नित्यमसिच्प्रजामेधयोः इत्यसिच्प्रत्ययः।