54133: वा संज्ञायाम्¶
Padacheda: वा | S | 0 | 0 |
संज्ञायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The substitution of अनङ् does not optionally take place when the बहुव्रीहि समास is a name.
Vasu English Translation¶
The substitution of अनङ् does not optionally take place when the बहुव्रीहि समास is a name. This declares an option, where the last sutra had made the substitution compulsory. As शतधनुः or शतधन्वा, दृढधनुः or दृढधन्वा ॥
Kashika¶
धनुःशब्दान्ताद् बहुव्रीहेरनङादेशो वा भवति संज्ञायां विषये। पूर्वेण नित्यः प्राप्तो विकल्प्यते। शतधनुः, शतधन्वा। दृढधनुः, दृढधन्वा॥
Siddhanta Kaumudi¶
शतधन्वा । शतधनुः ॥
Balamanorama¶
वा संज्ञायाम् - वा शंज्ञायां । ‘धनुषश्च’ इत्युक्तोऽनङ् संज्ञायां वा स्यादित्यर्थः । शतधन्वेति । शतधन्वा नाम राजविशेषः स्यमन्तकोपाक्याने प्रसिद्ध । जायाया निङ् । आदेश इति ।प्रत्ययः, परश्चे॑त्यधिकारस्थत्वेऽपि ङित्त्वादन्तादेशोऽयमिति भावः ।
Tattvabodhini¶
वा संज्ञायाम् - शार्ङ्ग्धन्वेति । कथं तर्हिस्वलालण्याशंसाधृतधनुषमह्नाय तृणव॑दिति पुष्पदन्तप्रयोग इति चेदत्राहुः -समासान्तविधेरनित्यत्वान्नत्रानुपपत्तिः । अनीयत्वे प्रमाणं त्वंआआदिगणे राजन्शब्दपाठः । स हिप्रतेरंआदयस्तत्पुरुषे॑इत्यन्तोदात्तार्थः ।राजाहःसखी॑ति टचो नित्यत्वे तु किं तेनेति ।
Prakriyasarvasvam¶
शतधन्वा, शतधनुः । ‘धृतधनुषि धैर्यशालिनी’त्याद्यसंज्ञात्वादयुक्तमिति वामनः ॥
Sutra Prayogas¶
क्षेमधन्वानम् (रघुवंशम्): वा संज्ञायाम् इत्यनङादेशः।
पुष्पधन्वा (कुमारसम्भवम्): वा संज्ञायाम् इत्यनङ् ।
पुष्पधन्वा (कुमारसम्भवम्): वा संज्ञायाम् इत्यनङादेशः।
गाण्डीवधन्वनः (किरातार्जुनीयम्): वा संज्ञायाम् इत्यनङादेशः।
पुष्पधनुषो (शिशुपालवधम्): वा संज्ञायाम् इति विकल्पान्नानङादेशः।