54139: कुम्भपदीषु च

Padacheda: कुम्भपदीषु | S | 7 | 3 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The words कुम्भपदी etc. have been formed by the similar elision of the अ of पाद।

Vasu English Translation

The words कुम्भपदी etc. have been formed by the similar elision of the अ of पाद। The forms कुंभपदी &c, are formed by eliding the final अ of पाद, and then substituting पद् for पात् before the feminine affix ई by (4.4.130). This substitution takes place only before the feminine affix ङीप्, and no where else, as कुम्भपदी, शतपदी ॥ Those words in the list, the first members of which denote an object of comparison or a numeral, would have elided अ by (5.4.138) or (5.4.140). In their case, this sutra teaches the invariable affixing of ङीप् to such words; so that the optional rule (4.1.8) does not apply to them.

1 कुम्भपदी, 2 एकपदी, 3 जालपदी, 4 शूलपदी, 5 मुनिपदि, 6 गुणपदी, 7 शतपदी, 8 सूत्रपदी, 9 गोधापदी, 10 कलशीपदी, 11 विपदी, 12 तृणपदी, 13 द्विपदी, 14 त्रिपदी, 15 षट्पदी, 16 दासीपदी 17 शितिपदी 18 विष्णुपदी , 19 सुपदी, 20 निष्पदी, 21 आर्द्रपदी, 22 कुणिपदी, (कृणपदी), 23 कृष्णपदी, 24 शुचिपदी, 25 द्रोणपदी, (द्रोणीपदी), 26 द्रुपदी, 27 सूकरपदी, 28 शकृत्पदी, 29 अष्टापदी, 30 स्थूणापदी, (स्थूलपदी), 31 अपदी, 32 सूचीपदी, 33 मालापदी, 34 गोपदी, 35 घृतपदी, 36 सूपपदी, 37 पञ्चपदी, 38 अर्वपदी, 39 स्तनपदी, 40 कलहंसपदी, 41 विषपदी ॥

Kashika

कुम्भपदीप्रभृतयः कृतपादलोपाः समुदाया एव पठ्यन्ते। तत्रैवं सूत्रं ज्ञेयम्। पादस्य लोपो भवति कुम्भपद्यादिविषये, यथा कुम्भपद्यादयः सिध्यन्ति। समुदायपाठस्य च प्रयोजनं विषयनियमः — स्त्रियामेव, तत्र ङीप्प्रत्यय एव, नान्यदा। कुम्भपदी। शतपदी। यच्चेहोपमानपूर्वं संख्यापूर्वं च पठ्यते, तस्य सिद्धे लोपे नित्यङीबर्थं वचनम्। पादोऽन्यतरस्याम् (४.१.८) इति विकल्पो न भवति॥ कुम्भपदी। शतपदी। अष्टापदी। जालपदी। एकपदी। मालापदी। मुनिपदी। गोधापदी। गोपदी। कलशीपदी। घृतपदी। दासीपदी। निष्पदी। आर्द्रपदी। कुणपदी। कृष्णपदी। द्रोणपदी। द्रुपदी। शकृत्पदी। सूपपदी। पञ्चपदी। अर्वपदी। स्तनपदी। कुम्भपद्यादिः॥

Siddhanta Kaumudi

कुम्भपद्यादिषु पादस्य लोपो ङीप् च निपात्यते स्त्रियाम् ॥ पादः पत् (SK414) ॥ कुम्भपदी । स्त्रियाम् किम् । कुम्भपादः ॥

Balamanorama

कुम्भपदीषु च - कुम्भपदीषु च । कुम्भपदीष्विति बहुवचननिर्देशाद्गणपाठाच्च कुम्भपद्यादिग्रहणमिति भावः । ङीप् चेति ।पादोऽन्यतरस्या॑मिति विकल्पापवाद इति । भावः । स्त्रियामिति । कुम्भपद्यादीनां स्त्रीलिङ्गानामेव गणे पाठादिति भावः । कुम्भपदीति । कुम्भस्येव पादावस्येति विग्रहः ।पदास्य लोपोऽहस्त्यादिभ्यः॑ इति लोपे सिद्धे तदनुवादेन नित्यं ङीबर्थं वचनम् ।

Tattvabodhini

कुम्भपदीषु च - कुम्भपदीषु च । बहुवचननिर्देशाद्गणपाठसामर्थ्याच्चाद्य्र्थावगतिरित्यभिप्रेत्याह — कुम्भपद्यादिष्विति । इह गणे — कुम्भपदी एकपदी जानपदीत्येवं समुदाया एव पठन्ते, तस्य च प्रयोजनं विषयविशेषपरिग्रह इत्याशयेनाह -स्त्रियामिति । यच्चेहोपमानपूर्वं संख्यापूर्वं च पठते तस्य सिद्धे लोपे नित्यङीबर्थं वचनं तेनपादोऽन्यतरस्या॑मिति विकल्पा न भवति ।

Padamanjari

बहुवचननिर्द्देशात्प्रभृत्यर्थोऽवगम्यत इत्याह - कुम्भपदीप्रमृतय इति। समुदाया एव निपात्यन्त इति। कथं तर्हि सूत्रे भूतविभक्तया सप्तम्या निर्द्देशः? इत्यत आह - तत्रेति। विषयग्रहणेन सूत्रे विषयसप्तमीति दर्शयति - यथा कुम्भपद्यादयः सिद्ध्यन्तीति। यतदोर्नित्यसम्बन्धात्पूर्वत्र तथा लोपो भवतीत्यर्थो ग्राह्यः। किमर्थं पुनः समुदाया एव निपात्यन्ते, न कुम्भादीनेव गणे पठित्वा तेभ्यः परस्य पादशब्दस्य लोपो विधीयेत ? तत्राह - समुदायपाठस्य चेति। विषयनियममेव दर्शयति - स्त्रियामेवेति। अत्र च स्त्रियामपि ङीप्प्रत्यय एव।’पादो’ न्तरस्याम्ऽ इति यदा ङीब्विषयभूतस्तदैवेत्यर्थः। यच्चेत्यादि। उपमानपूर्वपदम्-कुम्भपदी, जालपदीत्यादि; संख्यापूर्वपदमेकपदी, शतपदीति। अष्टापदीति पठ।ल्ते, तत्र निपातनाद्दीर्घत्वम्, ठष्टनः संज्ञायाम्ऽ इति वाऽऽकारः ॥

Nyaas

कुम्भपदीप्रभृतयः कृतपादलोपाः समुदाया एव पठन्ते इति। यद्येवम्, कथमिदं नेतव्यम्? इत्याह - तत्रैवम् इत्यादि। तत्र तेषु कुम्भपदीप्रभृतिषु कृतपादलोपेषु पठितेष्वेवं व्याख्येयमित्यर्थः। कुम्भपद्यादिविषयेय यथा कुम्भपद्यादयः सम्भवन्तीति। किमर्थं पुनः समुदाया एव पठन्ते, न कुम्भपदादीन्? शब्दान्? प्रातिपदिकेषु पठित्वा तेभ्यः परस्य पादशब्दस्य लोपो विधीयेत? इत्याह - समुदायपाठस्य च इत्यादि। यदि कुम्भादिभ्यः परस्य पादस्य स लोप उच्येत, कृतपादलोपाः समुदाया एव न पठएरन् इति नियमो न लभ्येत। ततस्त्रिष्वपि लिङ्गेषु स्युः, स्त्रियामेव चेष्यन्ते। समुदायपाठे सति स्त्रियां ङीप्प्रत्यय एव विषयभूते भवति। नान्यदा इति। कुम्भपदी इति। पादोऽन्यतरस्याम् (4.1.8) इति ङीपि विषयभूते पादस्य लोपः ततो ङीप्, तस्मिन्? पादः पत् (6.4.130) इति पद्भावः। यच्चेहोपमानपूर्वम् इति - कुम्भपदी, जालपदीत्येवमादि। संख्यापूर्वपदञ्च इति - एकपदी शतपदीत्येवमादि। तस्य सिद्धे इति। उपमानपूर्वस्य पूर्वेणैव सिद्धे संख्यापूर्वस्य तूत्तरेण। अष्टापदी इत्यस्मिन्? पठते। तत्र निपातनं दीर्घत्वार्थम्। अष्टनः संज्ञायाम् (6.3.125) इति वा॥

Prakriyasarvasvam

कुम्भपद्यादिषु स्त्रियां पादस्यान्तलोपो नित्यं ङीप् च निपात्यते । ङीपि भत्वात् पद्भावः । ‘कुम्भजालैकशतसूत्रस्थणामुनिशित्यार्द्रगोधाकलशीदासीभ्यः (स० ५-४-१६५) । ‘विष्णुकृष्णगुणद्रोणीशकृत्सूकरशुचिसूचिविनञ्निदृष्टाभ्यश्च’ (स० ५-४-१६६) । कुम्भवत् पादोऽस्याः कुम्भपदी । विष्णोः पादोस्याः कारणत्वेनास्तीति विष्णुपदी । कृष्णपादोऽस्याः प्राप्यत्वेनास्तीति कृष्णपदी व्याख्या । विपदी । अपदी । निष्पदी । अष्टापदी । ‘अष्टाभ्य’ (७-१-२१) इति निर्देशात् दीर्घः ॥