54130: ऊर्ध्वाद्विभाषा¶
Padacheda: ऊर्ध्वाद् | S | 5 | 1 |
विभाषा | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The substitution of ज्ञु for जानु when the word ऊर्धव precedes it.
Vasu English Translation¶
The substitution of ज्ञु for जानु when the word ऊर्धव precedes it. Thus ऊर्ध्वे जानुनी अस्य = ऊर्ध्वजानुः or ऊर्ध्वज्ञुः ॥
Kashika¶
ऊर्ध्वशब्दादुत्तरस्य जानुशब्दस्य विभाषा ज्ञुरित्ययमादेशो भवति। ऊर्ध्वे जानुनी अस्य ऊर्ध्वजानुः, ऊर्ध्वज्ञुः॥
Siddhanta Kaumudi¶
ऊर्ध्वज्ञुः । ऊर्ध्वजानुः ॥
Balamanorama¶
ऊर्ध्वाद्विभाषा - ऊध्र्वाद्विभाषा । ऊध्र्वशब्दात् परो यो जानुशब्दस्तस्य ज्ञुरादेशो वा स्यात्, बहुव्रीहावित्यर्थः । ऊध्र्वज्ञुरिति । ऊर्ध्वे जानुनी यस्येति विग्रहः ।
Padamanjari¶
ङ्त्किरणादन्त्यादेशत्वम्, अकारादित्वं च निश्चित्याऽऽहानङदेशो भवतीति। कुण्डोध्नीति।’बहुव्रीहेरूधसो ङीष्’ , ठल्लोपोऽनःऽ। अनङ्विधानमुतरार्थम्, इह तु नकारादेशेनापि सिद्धम् ॥
Prakriyasarvasvam¶
ऊर्ध्वज्ञुः, ऊर्ध्वजानुः ॥