54135: गन्धस्येदुत्पूतिसुसुरभिभ्यः¶
Padacheda: गन्धस्य | S | 6 | 1 |
इत् | S | 1 | 1 |
उत्पूतिसुसुरभिभ्यः | S | 5 | 3 |
Sutrartha¶
Vasu English Summary¶
For the final of गन्ध is substituted इ when preceded by 1. उत् 2. पूति 3. सु and 4. सुरभि in a बहुव्रीहि समास ।
Vasu English Translation¶
For the final of गन्ध is substituted इ when preceded by 1. उत् 2. पूति 3. सु and 4. सुरभि in a बहुव्रीहि समास । Thus the अ of गन्ध is replaced by इ, as उद्गन्धिः, पूतिगन्धिः, सुगन्धिः, सुरभिगन्धिः ॥ Why after these only? See तीव्रगन्धा वातः ॥
Vart:- The word गन्ध is a material noun as गन्धान् पिनष्टि, and an adjective as चन्दनगन्धः ‘having the scent of sandal’. The rule of substitution applies when it is used as an attribute. Therefore, not here, शोभना गन्धा अस्य = सुगन्ध आपणिकः “a shop-keeper having many sweet perfumes for sale”.
Bhashya¶
गन्धस्येदुत्पूतिसुसुरभिभ्यः (2412) (5944 उपसंख्यानवार्तिकम्॥ 2 ॥) - गन्धस्येत्त्वे तदेकान्तग्रहणम् - (भाष्यम्) गन्धस्येत्त्वे तदेकान्तग्रहणं कर्तव्यम्। इह मा भूत् - शोभना गन्धा अस्य सुगन्ध आपणिक इति॥ अथानुलिप्ते कथं भवितव्यम्? यदि तावद्यदनुगतं तदभिसमीक्षितम् सुगन्धिः इति भवितव्यम्। अथ यत्प्रविशीर्णम् सुगन्धः इति भवितव्यम्॥
Kashika¶
उत् पूति सु सुरभि इत्येतेभ्यः परस्य गन्धशब्दस्य इकारादेशो भवति समासान्तो बहुव्रीहौ समासे। तकार उच्चारणार्थः। उद्गतो गन्धोऽस्य उद्गन्धिः। पूतिगन्धिः। सुगन्धिः। सुरभिगन्धिः। एतेभ्य इति किम् ? तीव्रगन्धो वातः॥ गन्धस्येत्वे तदेकान्तग्रहणम्॥ तेन शोभनो गन्धोऽस्य सुगन्ध आपणिकः॥
Siddhanta Kaumudi¶
एभ्यो गन्धस्येकारोऽन्तादेशः स्यात् । उद्गन्धिः । पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः ।<!गन्धस्येत्त्वे तदेकान्तग्रहणम् !> (वार्तिकम्) ॥ एकान्तः एकदेश इव अविभागेन लक्ष्यमाणः इत्यर्थः । सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः । नेह शोभना गन्धाः द्रव्याण्यस्य सुगन्ध आपणिकः ॥
Balamanorama¶
गन्धस्येदुत्पूतिसुसुरभिभ्यः - गन्धस्येदुत् । ‘गन्धस्य-इत्’ इति च्छेदः । एभ्य इति । उत्-पूति-सु-सुरभि-एतेभ्यः इत्यर्थः । इकारोऽन्तादेश इति । पूर्वोत्तरसाहचर्यादिकार आदेश एवेति भावः । समासान्ताधिकारात्आदेः परस्ये॑ति न भवति । उद्नन्धिरिति । उद्गतो गन्धो यस्येति विग्रहः । पूतिगन्धिरिति । पूतिशब्दोऽसुरबौ । पूर्तिर्गन्धो यस्येति विग्रहः । सुगन्धिरिति । शोभनो गन्धो यस्येति विग्रहः । पूतिगन्धिरिति । पूतिशब्दोऽसुरभौ । पूर्तिर्गन्धो यस्येति विग्रहः । सर्वत्रवायु॑रिति विशेष्यम् । तदेकान्तेति । तस्य =विशेष्यभूतद्रव्यस्य, एकान्तः=एकदेश इव प्रतीयमान इत्यर्थः । अत्र गन्धस्य गुणस्य द्रव्यैकदेशत्वं न युज्यत इत्याशङ्क्य एकान्तशब्द एकदेशवदविभक्ते लाक्षणिक इत्याह — एकान्त एकदेश इवेति । सुगन्धि पुष्पं सलिलं चेति । अत्र गन्धस्य पुष्पात्सलिलाच्च द्रव्यात्पृथगलक्ष्यमाणत्वादिति भावः । सु शोभना इति । ‘सु’ इत्यस्य व्याख्यानं-शोभना इति । गन्धा इति । गन्धवन्त इत्यर्थः ।गुणवचनेभ्यो मतुपो लुगिष्टः॑ इति लुक् । द्रव्याणीति । चन्दनादीनीत्यर्थः । ‘गन्धा’ इत्यस्य विशेष्यमेतत् । गन्धशब्दस्य नपुंसकद्रव्यविशेषणत्वेऽपि नियतलिङ्गत्वात्पुंस्त्व#ं युज्यते ।गन्धस्तु सौरभे नृत्ये गन्धके गर्वलेशयोः । स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः॑ इति कोशात् । गन्ध आपण इति । अत्र गन्धशब्दवाच्यानां चन्दनादिद्रव्याणां विशेष्यभूतापणापेक्षया पृथग् लक्ष्यमाणत्वादित्त्वं नेति भावः ।
Tattvabodhini¶
गन्धस्येदुत्पूतिसुसुरभिभ्यः - गन्धस्येत् । तकार उच्चारणार्थ इत्याशयेनाह -इकारोऽन्तादेश इति ।आदेः परस्ये॑तीह न भवति,समासान्ताः॑इत्यधिकारात् । अत्र केचिदाहुः — इकारस्य प्रत्ययत्वेऽपि न क्षतिः,यस्येति[चे॑ति] लोपेनोद्गन्धिरित्यादिरूपसिद्धेः । न चतित्स्वरित॑मित्यन्तस्वरितत्वापत्तिर्न शङ्क्या, तकारस्योच्चारणार्थत्वाभ्युपगमात् । नापि षष्ठीनिर्देशादादेशत्वमेव न प्रत्ययत्वमिति वाच्यं,गापोष्ट॑गित्यादिप्रत्ययविधिष्वपि षष्ठीदर्शनादीति । गन्धस्येत्वे तदेकान्तग्रहणम् । अविभागेनेति । एवं च गुणवाचिन एव ग्रहणं, न तु द्रव्यवाचिन इति फलितोऽर्थः । द्रव्याणीति । अस्ति च गन्धशब्दो द्रव्यवचनः,वहति जलमियं पिनष्टि गन्धा॑निति प्रयोगात्,गन्धस्तु सौरबे नृत्ये गन्धके गर्वलेशयोः । स एव द्वव्यवचनो बहुत्वे पुंसि च स्मृतः॑ इति कोशाच्च । केचित्तु -॒गन्धस्येत्वे॑इति वार्तिके तदेकान्तशब्देन स्वाभाविकत्वं विवक्षितं, तेनागन्तुकस्य नेत्याहुः । तथा च भट्टिः -॒आघ्रायिवान् गन्धवहः सुगन्धः॑इति । व्याख्यातं च जयमङ्गलायां — ॒गन्धस्ये॑त्यादिनेकारः समासान्तो न,गन्धस्येत्वे तदेकान्तग्रहण॑मिति वचनात् । सुगन्ध आपणिक इति यथेति । अतएवभग्नबालसहकारसुगन्धौ॑इत्यादीनां प्रमादिकत्वं दुर्घटवृत्तिकृतोक्तम् ।
Padamanjari¶
इकारादेशो भवतीति। षष्ठीनिर्द्देशादादेशत्वावसायः। प्रकरणभेदाय चादेशत्वं व्यवस्थाप्यते, न त्वस्मिन्प्रत्ययेऽपि कश्चिद्दोषः। गन्धशब्दोऽयमस्ति द्रव्यवचनः - वहति जलमियम्, पिनष्टि गन्धानियमिति, अस्ति च गुणवचनः - चन्दनस्य गन्ध इति, तत्र गुणवाचिनो ग्रहणार्थमाहगन्धस्येत्वं इति। रूपादिसमुदायःउद्रव्यम्, तस्य गन्धलक्षणो गुण एकान्त एकदेशो भवति, ऊपादिव्यतिरिक्तमवयवि द्रव्यमिति तु पक्षे एकान्त इवैकान्तः; तत्स्थस्योपलम्भात्। सुगन्ध आपणिक इति। आपणे नियुक्त आपणिकः; प्राग्वहतीयष्ठक्। भवार्थे वा अध्यात्मादित्वाट्ठक्। अथ वायौ कथं सुगन्धिः, दुगन्धिरिति, न ह्ययं गन्धो वायोर्गुणः? मा भूतस्य गुणः, तेन तावदविभागापन्नो लक्ष्यते, एतावदेव च तदेकान्तत्वं विवक्षितम्, न तद्गुणत्वम्। एवं च कृत्वा कुङ्कुमाद्यनुलेपनमपि यदा देवदतादेरविभागपन्नं भवति तदेत्वं भवत्येव - सुगन्धिर्देअवदत इति, सर्वथा द्रव्यवचननिवृत्तिः ॥
Nyaas¶
इका आदेशो भवति इति। कथं पुनज्र्ञायते - आदेशोऽयं न प्रत्यय इति? गन्धस्य इति षष्ठआ निर्देशात्। यदि हि प्रत्ययः स्यात्? असन्दिग्धार्थं गन्धात् इति पञ्चम्या निर्देशं कुर्यात्, षष्ठआ तु निर्देशः। तस्मादादेशोऽयमिति विज्ञायते। गन्धस्येत्त्वे इत्यादि। गन्धो द्विविधः। गुणो गन्धः, सोऽन्यपदार्थस्यैकान्तो न भवति। यस्तु शोभनो गन्दोऽस्येति सुगन्ध आपणिक इति तत्र द्रव्यगन्धो गन्धशब्देनोच्यते, तच्चापणिकस्यैकदेशो भवति। तत्र गुणगन्धे यथा स्यात्, द्रव्यगन्धे मा भूदित्येवमर्थं गन्धस्येत्त्वे विधेये तदेकान्तग्रहणं कर्तव्यम्। तदित्यनेन बहुव्रीह्रर्थः सामर्थ्यान्निर्दिश्यते। तस्यैकान्त एकदेशो वा धर्मोऽवयवस्तदेकान्तः संगृह्रते। येन तदेकान्तग्रहणं कर्तव्यम्। एतदुक्तं भवति - तादृशं व्याख्यानं कर्तव्यं येनेत्त्वविधाविह गन्धोऽन्यपदार्थस्यैकदेशात्? तत आश्रयितव्य इति। तत्रेदं व्याख्यानम् - वा संज्ञायाम् (5.4.133) इत्यतो वाग्रहममनुवर्तते, सा च व्यवस्थितविभाषा। तेन यत्र गन्धोऽन्यपदार्थस्यैकदेशभूतस्तत्रैवेत्त्वं भवति, नान्यत्रेति। अथ वा - अस्त्ययं गन्धशब्दो द्रव्यवचनः - गन्धान्? विक्रीणीत इति। अस्ति गुणवचनो यथा - गन्धवती पृथिवी। तत्र गुणवचनस्येदं ग्रहणम्, न द्रव्यवचनस्य। तस्माद्द्रव्यवचनो बहवचनान्त एव द्रव्ये वर्तते - गन्धान विक्रीणीते, गन्धाः पण्यमस्येति। इह गन्धस्येत्यकवचनेनैव निर्देशः। तस्मादवसीयते - गुणवचनस्येदं ग्रहणमिति। गुणवचनस्य तु ग्रहणे तत्र गुणो गन्धोऽन्यपदार्थस्यैकदेशो भवति, तेन तदेकान्तभूतस्यैव गन्धस्येत्त्वं भवति॥
Prakriyasarvasvam¶
एभ्यो गन्धस्यान्तादेश इत् स्यात् । उद्गन्धिर्माला । पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः । आगन्तुकस्य गन्धस्य न । सुगन्धं वासः । ‘आगन्तोऽर्वेति भोजः । तेन सुगन्धि वास इत्यपि । दुर्गन्धिः कायः इति इद् दुर्लभ इति वामनः । ‘उपमानाच्च’ (५-४-१३७) इति चकारात् साध्य इति भावः ॥
Vartika¶
गन्धस्येत्त्वे तदेकान्तग्रहणम् ।
Sutra Prayogas¶
गजदानसुगन्धिना (रघुवंशम्): गन्धस्येदुत्पूतिसुसुरभिभ्यः इति इकारादेशः समासान्तः।
मदोद्गारसुगन्धिषु (रघुवंशम्): गन्धस्येदुत्पूतिसुसुरभिभ्यः इति इकारः समासान्तः।
सुरभिगन्धिषु (रघुवंशम्): गन्धस्य इत्यादिना इकारः।
सुगन्धि (रघुवंशम्): गन्धस्येदुत्पूतिसुसुरिभिभ्यः इत्यादिना इकारः समासान्तः।
विजृम्भणोद्गन्धिषु (रघुवंशम्): गन्धस्येदुत्पूतिसुसुरभिभ्यः इति समासान्त इकारादेशः।
पद्मसुगन्धिना (कुमारसम्भवम्): गन्धस्येत् इति इकारः।
आर्द्रकेसरसुगन्धि (कुमारसम्भवम्): गन्धस्येदुत्पूतिससुरभिभ्यः इत्यनेनेकारः ।
ककुभविकाससुगन्धिना (किरातार्जुनीयम्): गन्धस्येदुत्पूतिसुसुरभिभ्यः इति गन्धशब्दस्य इकारः (इत्वम्)।
सुगन्धिताम् (शिशुपालवधम्): गन्धस्येत् इति इकारः।
कस्तूरिकामृगविमर्दसुगन्धिः (शिशुपालवधम्): गन्धस्येत् इति सूत्रेण विहितस्य इत्वस्य गन्धस्येत्वे तदेकान्तग्रहणं कर्तव्यम् इति वार्त्तिकेन निषेधशङ्का कृता।