54132: धनुषश्च¶
Padacheda: धनुषः | S | 6 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The अनङ् is the substitute of the final of धनुस् in a बहुव्रीहि समास ।
Vasu English Translation¶
The अनङ् is the substitute of the final of धनुस् in a बहुव्रीहि समास । As शार्ङ्गे धनुरस्य = शार्ङ्गधन्वन् nom. s. शार्ङ्गधन्वा ॥ So also गाण्डावधन्वा, पुष्पधन्वा, अधिज्यधन्वा ॥
Kashika¶
धनुःशब्दान्तस्य बहुव्रीहेरनङादेशो भवति समासान्तः। शार्ङ्गं धनुरस्य शार्ङ्गधन्वा। गाण्डीवधन्वा। पुष्पधन्वा। अधिज्यधन्वा॥
Siddhanta Kaumudi¶
धनुरन्तस्य बहुव्रीहेरनङादेशः स्यात् । शार्ङ्गधन्वा ॥
Balamanorama¶
धनुषश्च - धनुषश्च ।ऊधसोऽनङि॑ति पूर्वसूत्रं स्त्रीप्रत्ययादिकारे व्याख्यातं, तस्मादनङित्यनुवर्तते । तदाह — अनङादेश इति । ङित्त्वादन्तादेश इति भावः । द्विधन्वेति । द्वे धनुषी यस्येति विग्रहः । समासे द्विधनुशब्दे सकारस्य अनङादेशः । ङकार इत् । अकार उच्चारणार्थः । उकारस्य यणिति भावः । शाङ्र्गधन्वेति । शृङ्गस्येदं शाङ्र्गं ।तस्येद॑मित्यण्, तत् धनुर्यस्येति विग्रहः । समासे शाङ्र्गधनुःशब्दे सकारस्यानङ्, ङकार इत्, अकार उच्चारणार्थः । उकारस्य यणिति भावः । महिम्नःस्तवेस्वलावण्याशंसाधृतधनुषमि॑ति प्रयोगस्त्वार्षः ।
Nyaas¶
शाङ्गधन्वा इति। अनङि कृते यणादेशः, सर्वनामस्थाने च (6.4.8) इति दीर्घः॥
Prakriyasarvasvam¶
धनुरन्तस्याप्यनङ् । धृतं धनुरनेन धृतधन्वा ॥
Sutra Prayogas¶
धनुः (भट्टिकाव्यम्): अन्न धनु- पश्च इत्यनङ् न भवति ‘समासान्तविधिरनित्यः’ इति ।