Sutras 21 - 40¶
- 53021: अनद्यतने र्हिलन्यतरस्याम्
- 53022: सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः
- 53023: प्रकारवचने थाल्
- 53024: इदमस्थमुः
- 53025: किमश्च
- 53026: था हेतौ च च्छन्दसि
- 53027: दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः
- 53028: दक्षिणोत्तराभ्यामतसुच्
- 53029: विभाषा परावराभ्याम्
- 53030: अञ्चेर्लुक्
- 53031: उपर्युपरिष्टात्
- 53032: पश्चात्
- 53033: पश्च पश्चा च च्छन्दसि
- 53034: उत्तराधरदक्षिणादातिः
- 53035: एनबन्यतरस्यामदूरेऽपञ्चम्याः
- 53036: दक्षिणादाच्
- 53037: आहि च दूरे
- 53038: उत्तराच्च
- 53039: पूर्वाधरावराणामसि पुरधवश्चैषाम्
- 53040: अस्ताति च