53024: इदमस्थमुः¶
Padacheda: इदमः | S | 5 | 1 |
थमुः | S | 1 | 1 |
Sutrartha¶
‘इदम्’ सर्वनामशब्दात् प्रकारवचने अभिधेये स्वार्थे थमु-प्रत्ययः विधीयते ।
‘इदम्’ इति सर्वनामसंज्ञकः शब्दः । अस्मात् शब्दात् ‘प्रकारवचने’ वाच्ये प्रकारवचने थाल् (5.3.23) इत्यनेन स्वार्थे थाल्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण ‘थमु’ इति प्रत्ययः उच्यते । अस्मिन् प्रत्यये उकारः उच्चारणार्थः अस्ति, अतः प्रक्रियायाम् तस्य लोपः विधीयते ; प्रयोगे ‘थम्’ इत्येव दृश्यते । प्रक्रिया इयम् - अनेन प्रकारेण इत्येव = अनेन + थमु [विवक्षया अत्र तृतीयान्तात् प्रत्ययः भवति ।] → अनेन + थम् [उकारस्य लोपः] → इदम् + थम् [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → इत् + थम् [एतेतौ रथोः (5.3.4) इति इदम्-शब्दस्य थकारादौ प्रत्यये परे इत् -आदेशः] → इद् + थम् [थम्-प्रत्यये परे अङ्गस्य स्वादिष्वसर्वनामस्थाने (1.4.17) इति पदसंज्ञा । पदसंज्ञायां सत्याम् झलां जशोऽन्ते (8.2.39) इति जश्त्वे तकारस्य दकारः] → इत् + थम् [खरि च (8.4.55) इति चर्त्वे तकारः] → इत्थम् । एतादृशम् ‘अनेन प्रकारेण’ इत्यस्मिन् अर्थे ‘इत्थम्’ इति शब्दः सिद्ध्यति । तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अस्य अव्ययसंज्ञा अपि जायते । अत्र एकम् वार्त्तिकम् ज्ञेयम् - <! थमुप्रत्ययः पुनरेतद उपसङ्ख्येयः!> । इत्युक्ते, वर्तमानसूत्रेण पाठितः थमु-प्रत्ययः ‘एतद्’ शब्दात् अपि विधीयते । यथा - एतेन प्रकारेण इत्येव = एतद् + थम् [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → इत् + थम् [एतदोऽन् (5.3.5) इत्यस्य योगविभागेन एतद्-शब्दात् थकारादौ प्रत्यये परे तस्य इत्-आदेशः] → इद् + थम् [थम्-प्रत्यये परे अङ्गस्य स्वादिष्वसर्वनामस्थाने (1.4.17) इति पदसंज्ञा । पदसंज्ञायां सत्याम् झलां जशोऽन्ते (8.2.39) इति जश्त्वे तकारस्य दकारः] → इत् + थम् [खरि च (8.4.55) इति चर्त्वे तकारः] → इत्थम् । विशेषः - अस्मिन् सूत्रे ‘थमु’ इति प्रत्यये मकारोत्तरः उकारः उच्चारणार्थः अस्ति । यद्यप्यत्र उकारः न पाठ्यते, तथापि ‘थम्’ इति स्थिते मकारस्य हलन्त्यम् (1.3.3) इत्यनेन इत्संज्ञा नैव भवितुमर्हति, यतः विभक्तिप्रत्ययस्य अन्ते विद्यमानस्य मकारस्य इत्संज्ञा न विभक्तौ तुस्माः (1.3.4) इत्यनेन निषिध्यते । अतः वस्तुतः अस्मिन् सूत्रे मकारोत्तरस्य अकारस्य न किमपि प्रयोजनम् ; केवलम् ‘थम्’ इत्येव उच्येत चेदपि साधु एव । एवं सत्यपि आचार्यः अत्र मकारात् अनन्तरमुकारं स्थापयति । अयमुकारः अस्य ज्ञापकम् , यत् न विभक्तौ तुस्माः (1.3.4) इत्यनेन निर्दिष्टः इत्संज्ञानिषेधः अनित्यः अस्ति - इत्युक्ते, केषुचन स्थलेषु अयम् न विधीयते । एतत् अनित्यत्वम् एव कारणम् यत् किमोऽत् (5.3.12) इत्यत्र पाठिते ‘अत्’ प्रत्यये तकारस्य इत्संज्ञानिषेधः न भवति ।
Vasu English Summary¶
After इदम् comes the affix थमु (थम्) in the same sense of a kind or manner of being.
Vasu English Translation¶
After इदम् comes the affix थमु (थम्) in the same sense of a kind or manner of being. This debars थाल्; thus : अनेन प्रकारेण = इत्थम् (5.3.4) ‘in this manner’. The उ in थमु protects the म् from becoming इत् (See (1.3.4)).
Kashika¶
इदंशब्दात् प्रकारवचने थमुः प्रत्ययो भवति। थालोऽपवादः। अनेन प्रकारेण इत्थम्। उकारो मकारपरित्राणार्थः॥
Siddhanta Kaumudi¶
थालोऽपवादः ।<!एतदोऽपि वाच्यः !> (वार्तिकम्) ॥ अनेन एतेन वा प्रकरेण इत्थम् ॥
Laghu Siddhanta Kaumudi¶
थालोऽपवादः। एतदोऽपि वाच्यः (वार्त्तिकम्)। अनेन एतेन वा प्रकारेण इत्थम्॥
Balamanorama¶
इदमस्थमुः - इदमस्थमुः । इदंशब्दात्प्रकारवृत्तेस्थमुप्रत्ययः स्यादित्यर्थः । प्रत्यये उकार उच्चारणार्थः । मकारस्य उपदेशेऽन्त्यत्वाऽभावान्नेत्त्वम् । यद्यपि ‘न विभक्तौ’ इति निषेधादेव मस्येत्त्वं न भवति, ततापि तदनित्यत्वज्ञापनार्थं मकारोच्चारणमित्याहुः । इत्थमिति ।एतेतौ रथो॑रिति प्रकृतेरिदम इदादेशः । एतच्छब्दात्थमुप्रत्यये तु ‘एतद’ इति योगविभागादिदादेशः ।
Prakriyasarvasvam¶
इदमेः प्रकारे थमुः स्यात् । थे परे इदादेशः । इत्थम् ॥
Vartika¶
एतदो वाच्यः ।
Sutra Prayogas¶
इत्थं (कुमारसम्भवम्): इदमस्थमुः इति थमुप्रत्ययः।
इत्थं (शिशुपालवधम्): इदमस्थमुः इति थमुप्रत्ययः।
तपोधनैरित्थमभाषिषाताम् (भट्टिकाव्यम्): इदमस्थमुः अनेनोक्तप्रकारेण।