53032: पश्चात्

Padacheda: पश्चात् | S | 0 | 0 |

Sutrartha

‘पश्चात्’ इति शब्दः निपात्यते ।

अनेन सूत्रेण ‘पश्चात्’ अस्य शब्दस्य निपातनम् दीयते । ‘दिशा’, ‘देश’, तथा ‘काल’ इत्येतेषु अर्थेषु प्रयुज्यमणस्य ‘अपर’ शब्दस्य प्रथमान्तरूपात्, पञ्चम्यन्तरूपात्, तथा च सप्तम्यन्तरूपात् स्वार्थे ‘आति’ प्रत्ययं कृत्वा अस्य शब्दस्य सिद्धिः दत्ता अस्ति । यथा - अपरा दिक् / अपरस्याः दिशः / अपरस्याम् दिशि / अपरः देशः / अपरस्मात् देशात् / अपरस्मिन् देशे = अपर + आति [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → अपर + आत् [इकारः उच्चारणार्थः, अतः तस्य लोपः भवति ।] → पश्च + आत् [‘अपर’ शब्दस्य ‘पश्च’ आदेशः निपात्यते] → पश्च् + आत् [यस्येति च (6.4.148) इति अकारलोपः] → पश्चात् ज्ञातव्यम् - तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन ‘पश्चात्’ शब्दस्य अव्ययसंज्ञा भवति । अत्र त्रीणि वार्त्तिकानि ज्ञेयानि - 1. <!दिक्पूर्वपदस्य अपरस्य पश्चभावो वक्तव्यः ; आतिश्च प्रत्ययः!> । यदि कस्यचन शब्दस्य पूर्वपदम् कश्चन दिशावाची शब्दः अस्ति, तथा च उत्तरपदम् ‘अपर’ इति शब्दः अस्ति (यथा - उत्तरापर (north-west), दक्षिणापर (south-west)), तर्हि तादृशस्य शब्दस्य विषये अपि सप्तम्यन्तरूपात् / पञ्चम्यन्तरूपात् / प्रथमान्तरूपात् च स्वार्थे ‘आति’ प्रत्ययः, तथा च अङ्गे विद्यमानस्य ‘अपर’ शब्दस्य ‘पश्च’ इति आदेशः भवति । यथा - दक्षिणापरा दिक् / दक्षिणापरस्याः दिशः / दक्षिणापरस्याम् दिशि / दक्षिणापरः देशः / दक्षिणापरस्मात् देशात् / दक्षिणापरस्मिन् देशे = दक्षिणापर + आति → दक्षिणापर + आत् [इकारः उच्चारणार्थः, अतः तस्य लोपः भवति ।] → दक्षिणपश्च + आत् [‘अपर’ शब्दस्य ‘पश्च’ आदेशः निपात्यते] → दक्षिणपश्च् + आत् [यस्येति च (6.4.148) इति अकारलोपः] → दक्षिणपश्चात् एवमेव ‘उत्तरपश्चात्’ इत्यपि शब्दः निपात्यते । एतौ द्वावपि शब्दौ तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञकौ भवतः । 2. <!अर्धोत्तरपदस्य च समासे दिक्पूर्वस्य अपरस्य पश्चभावो वक्तव्यः!> । यदि कस्यचन शब्दस्य पूर्वपदम् कश्चन दिशावाची शब्दः अस्ति, तथा च उत्तरपदम् ‘अपर’ इति शब्दः अस्ति (यथा - उत्तरापर, दक्षिणापर), तर्हि तादृशस्य शब्दस्य ‘अर्ध’ इत्यनेन समासे प्राप्ते प्रक्रियायाम् पूर्वपदे विद्यमानस्य ‘अपर’ इत्यस्य ‘पश्च’ इति आदेशः भवति । यथा - उत्तरापरश्च अर्धश्च = उत्तरापर + अर्ध → उत्तरपश्च + अर्ध [‘अपर’ इत्यस्य ‘पश्च’ आदेशः] → उत्तरपश्चार्ध एवमेव ‘दक्षिणपश्चार्ध’ इत्यपि सिद्ध्यति । 3. <!अर्धे च परतोऽपरस्य पश्चभावो वक्तव्यः!> । ‘अपर’ शब्दस्य ‘अर्ध’ शब्देन समासः क्रियते चेत् ‘अपर’ शब्दस्य ‘पश्च’ इति आदेशः भवति । यथा - अपरश्च अर्धश्च = अपर + अर्ध → पश्च + अर्ध → पश्चार्ध (half of the west side इत्यर्थः ।)

Vasu English Summary

The word पश्चात् is anomalous in the sense of अस्ताति।

Vasu English Translation

The word पश्चात् is anomalous in the sense of अस्ताति। The word is formed by changing अपर into पश्च, and adding the affix आति ॥ As अपरस्यां दिशि वसति = पश्चाद्वसति, आगतः, रमणीयम् &c.

Vart:- So also when अपर is preceded by another word denoting direction, it is changed into pascha and ati is added. As दक्षिणपश्चात् उत्तरपश्चात् ॥

Vart:- So also when अर्ध follows such a compound, apara is changed into pascha; as, दक्षिणपश्चार्धः, उत्तरपश्चार्धः ॥

Vart:- Apara is changed into pascha, when followed by ardha, and not preceded by any other word. As, पश्चार्धः ॥

Bhashya

पश्चात् (2190) (वार्तिकावतरणभाष्यम्) पश्चादिति किं निपात्यते? (5821 सूत्रार्थप्रत्यायकवार्तिकम्॥ 1 ॥) - अपरस्य पश्चभाव आतिश्च प्रत्ययः - (भाष्यम्) अपरस्य पश्चभावो निपात्यते, आतिश्च प्रत्ययः। पश्चात्॥ (5822 उपसंख्यानवार्तिकम्॥ 2 ॥) - दिक्पूर्वपदस्य च - (भाष्यम्) दिक्पूर्वपदस्य चापरस्य पश्चभावो वक्तव्यः, आतिश्च प्रत्ययः। दक्षिणपश्चात्, उत्तरपश्चात्॥ (5823 उपसंख्यानवार्तिकम्॥ 3 ॥) - अर्धोत्तरपदस्य च समासे - (भाष्यम्) अर्धोत्तरपदस्य च समासे अपरस्य पश्चभावो वक्तव्यः। दक्षिणपश्चार्धः, उत्तरपश्चार्धः॥ (5824 उपसंख्यानवार्तिकम्॥ 4 ॥) - अर्धे च - (भाष्यम्) अर्धे च परतोऽपरस्य पश्चभावो वक्तव्यः। पश्चार्धः॥

Kashika

पश्चादित्ययं शब्दो निपात्यतेऽस्तातेरर्थे। अपरस्य पश्चभाव आतिश्च प्रत्ययः। अपरस्यां दिशि वसति पश्चाद् दिशि वसति। पश्चादागतः। पश्चाद् रमणीयम्॥ दिक्पूर्वपदस्यापरस्य पश्चभावो वक्तव्यः, आतिश्च प्रत्ययः॥ दक्षिणपश्चात्। उत्तरपश्चात्॥ अर्धोत्तरपदस्य दिक्पूर्वपदस्य पश्चभावो वक्तव्यः॥ दक्षिणपश्चार्धः। उत्तरपश्चार्धः॥ विनापि पूर्वपदेन पश्चभावो वक्तव्यः॥ पश्चार्धः॥

Siddhanta Kaumudi

अपरस्य पश्चभाव आतिश्च प्रत्ययोऽस्तातेर्विषये ॥

Padamanjari

अपरस्य पश्चभाव इति। केवलस्य लिङ्गविशिष्टस्य च । दिक्पूर्वपदस्य चेति। दिग्वचनः पूर्व पदं यस्य तथोक्तः। दक्षिणपश्चादिति। दक्षिणस्या अपरस्याश्च दिशो यदन्तरालमिति’दिङ्नामान्यन्तराले’ इति बहुव्रीहिः, दक्षिणापरा, तस्यां वसतीत्यातिप्रत्ययः, अपरस्य च पश्चभावः। अर्धोतरपदस्य चेति। अपरस्य चेत्येव। विनापी पूर्वपदेनेति। अपरस्य, अर्धोतरपदस्येति सम्बन्धः ॥

Nyaas

आतिश्च प्रत्ययः इति। अयमप्यस्तातेरपवादः। दक्षिणपश्चादुत्तरपश्चात् इति। दक्षिणापरस्यां दिशि वसतीति दक्षिणपश्चात्? एवमुत्तरपश्चात्। अर्धोत्तरपदस्य च इति अपरस्येति सम्बध्यते। विनापि पूर्वपदेन पश्चभावो वक्तव्यः इति। अपरस्यार्द्धोत्तरपदस्येति प्रकृतेन सम्बन्धनीयम्। अत्र सर्वत्र वक्तव्यशब्दो व्याख्याने दर्तते। तत्रेदं व्याख्यानम् - उत्तरसत्रात्? सिंहावलोकितेन चकारोऽत्रावतिष्ठते, स चानुक्तसमुच्चायार्थः। तेन दिक्पूर्वपदस्यापरशब्दस्य पश्चभाव इत्येवमादिकं कार्यं सिद्धं भवति॥

Prakriyasarvasvam

अपरस्यास्तात्यर्थे पश्चभाव आतिश्च निपात्यते । अपरा दिक् पश्चात् ।<!दिक्पूर्वस्यापि वाच्यम्!> (वा०) दक्षिणपश्चात्, उत्तरपश्चात् । ‘दिक्पूर्वस्य केवलस्य चापरस्यार्धे पश्चभावो वाच्यः’ (वा०) दक्षिणपश्चार्धम्, पश्चार्धम् ।।

Vartika

अपरस्यार्थे पश्चभावो वक्तव्यः ।