53036: दक्षिणादाच्¶
Padacheda: दक्षिणात् | S | 5 | 1 |
आच् | S | 1 | 1 |
Sutrartha¶
‘दक्षिण’ शब्दः यदा ‘दिशा’ उत ‘स्थानम्’ एतेषु अर्थषु प्रयुज्यते, तदा तस्य सप्तम्यन्तात् प्रथमान्तात् च रूपात् ‘आच्’ प्रत्ययः स्वार्थे विधीयते ।
‘दिशा’ तथा ‘देश’ एतयोः अर्थयोः प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः (5.3.27) इत्यनेन सप्तम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण ‘अस्ताति’ प्रत्यये प्राप्ते तस्य अपवादस्वरूपेण वर्तमानसूत्रेण ‘दक्षिण’ शब्दात् अस्मिन्नेव अर्थे ‘आच्’ इति प्रत्ययः भवति । यथा - दक्षिणस्याम् दिशि / दक्षिणे देशे / दक्षिणा दिक् / दक्षिणः देशः = दक्षिण + आच् [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → दक्षिण + आ [चकारः उच्चारणार्थः, विशेषणार्थश्च । तस्य लोपः भवति ।] → दक्षिण् + आ [यस्येति च (6.4.148) इति अकारलोपः] → दक्षिणा एतादृशं निर्मितः ‘दक्षिणा’ शब्दः तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञकः अस्ति । यथा - दक्षिणा वसति / दक्षिणा तत्र । ज्ञातव्यम् - 1. वस्तुतस्तु अस्मिन् सूत्रे ‘दिक्-देश-कालेषु’ इति सम्पूर्णः शब्दः अनुवर्तते, परन्तु ‘दक्षिण’ शब्दः ‘काल’ अस्मिन् अर्थे न प्रयुज्यते, अतः तस्य उदाहरणानि न लभन्ते । 2. पूर्वसूत्रात् ‘सप्तमीपञ्चमीप्रथमाभ्यः’ इत्यस्य अनुवृत्त्यां प्राप्तायाम् वर्तमानसूत्रे ‘अपञ्चम्याः’ इति निर्देशेन अत्र केवलम् सप्तम्यन्तात् प्रथमान्तात् च रूपात् अत्र प्रत्ययविधानम् भवति । 3. अत्र पाठिते ‘आच्’ प्रत्यये चकारस्य ‘इत्संज्ञा’ न भवति, यतः चकारस्य इत्संज्ञायाः किमपि प्रयोजनमत्र न विद्यते । सामान्यरूपेण चित्-प्रत्यये कृते समुदायस्य तद्धितस्य (6.1.164) इत्यनेन अन्तोदात्तत्वं विधीयते । परन्तु ‘आच्’ प्रत्ययस्य आकारः आद्युदात्तश्च (1.3.3) इत्यनेनैव उदात्तत्वं प्राप्नोति, अतः ‘आच्’ इत्यत्र चकारस्य स्वरनिर्देशार्थम् न किञ्चित् प्रयोजनम् । अत्र चकारस्य ग्रहणम् ‘आच्’ इति प्रत्ययस्य अनेभ्यः ‘आ’ प्रत्ययेभ्यः भिन्नरूपेण ग्रहणार्थमस्ति । अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते (2.3.29) इति सूत्रम् ‘आच्’ प्रत्ययस्य विषये विधानम् करोति, अनेष्याम् ‘आ’ प्रत्ययानाम् विषये न (यथा - पश्च पश्चा च च्छन्दसि (5.3.33) इत्यत्र पाठितः ‘आ’ प्रत्ययः उत ‘आ’ इति उपसर्गः - एतयोः ग्रहणं अत्र न इष्यते) । अतः पाणिनिः अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते (2.3.29) इत्यत्र ‘आच्’ इति विशिष्टम् निर्देशं कर्तुम् इच्छति, तदर्थमेव चकारस्य ग्रहणम् वर्तमानसूत्रे कृतमस्ति । 4. एतेषु एव सन्दर्भेषु ‘दक्षिण’ शब्दात् दक्षिणोत्तराभ्यामतसुच् (5.3.28) इत्यनेन ‘अतसुच्’ प्रत्ययः, तथा उत्तराधरदक्षिणादातिः (5.3.34) इत्यनेन ‘आति’ प्रत्ययः अपि भवति ।
Vasu English Summary¶
The affix आच् (आ) comes after the word दक्षिण in the sense of अस्ताति , but not as a substitute of the Ablative -5th case.
Vasu English Translation¶
The affix आच् (आ) comes after the word दक्षिण in the sense of अस्ताति , but not as a substitute of the Ablative -5th case. The word अदूर of the last sutra is not read into this: though the word अपञ्चम्याः governs it. Thus दक्षिणा वसति or रमणीयम्, but दक्षिणत आगतः ॥ The च् in आच् is not for the sake of accent (6.1.163) for the simple affix आ would be udatta by the general rule (3.1.3). The च् serves the purpose of differentiating this आ from other affixes in Sutra (2.3.29).
Bhashya¶
दक्षिणादाच् (2194) (आच्प्रत्ययाधिकरणम्) (चकारप्रयोजनभाष्यम्) किमर्थश्चकारः? स्वरार्थः, चितोऽन्त उदात्तो भवतीति अन्तोदात्तत्वं यथा स्यात्॥ (प्रयोजनाक्षेपभाष्यम्) नैतदस्ति प्रयोजनम्। एकाजयं, तत्र नार्थः स्वरार्थेन चकारेणानुबन्धेन। प्रत्ययस्वरेणैव सिद्धम्॥ (सिद्धान्तिनः समाधानभाष्यम्) विशेषणार्थस्तर्हि। क्व विशेषणार्थेनार्थः? अन्यारादितरर्तेदिक्शब्दाञ्ञ्चूत्तरपदाजाहियुक्ते 2.3.39॥
Kashika¶
अदूर इति न स्वर्यते॥ अपञ्चम्या इति वर्तते। दक्षिणशब्दादाच् प्रत्ययो भवत्यस्तातेरर्थे। दक्षिणा वसति। दक्षिणा रमणीयम्। अपञ्चम्या इत्येव — दक्षिणत आगतः। चकारो विशेषणार्थः, अञ्चूत्तरपदाजाहियुक्ते (२.३.२९) इति॥
Siddhanta Kaumudi¶
अस्तातेर्विषये । दक्षिणा वसति । अपञ्चम्या इत्येव । दक्षिणादागतः ॥
Balamanorama¶
दक्षिणादाच् - तद्युक्तात् । संदिष्टार्थया दूतवाचा यत्प्रयुक्तं कर्म तदभिधायिनः कर्मन्शब्दात्स्वार्थे अण्णित्यर्थः । कर्मैव कार्मणमिति ।अ॑न्निति प्रकृतिभावान्न टिलोपः । दूतवाक्यं श्रुत्वा तथैव यत्क्रियते कर्म तत्कार्मणमुच्यते । तदाह — वाचिकं श्रुत्वेति ।
Tattvabodhini¶
दक्षिणादाच् - वाचिकमिति ।स्वार्थिकाःस क्वचिल्लिङ्गमतिवर्तन्ते॑इति नपुंसकत्वम् ।
Padamanjari¶
चकारो विशेषणार्थ इति। अन्यथा वाक्यस्मरणयोर्य आकारोऽननुबन्धकस्तेनापि योगे पञ्चमी स्यात्। अथाप्यञ्चूतरपदेनाहिना च साहचर्यादतसर्थस्याकारस्य ग्रहणं स्यात्, तथापि पश्चाशब्द आकारान्तो निपातित हति तेनापि योगे पञ्चमी स्यात्। छान्दसः पश्चाशब्दः, दृष्टानुविधिश्च्छन्दसि भवति? असन्देहार्थं तर्हि, ठञ्चूतरपदाहियुक्तेऽ इति ह्युच्यमाने आकारप्रश्लेषो व्याख्यातव्यः स्यात्। ठञ्चूतरपदाह्यायुक्तेऽ इति सूत्रं करिष्यते, तस्माक्षैणासीत्यत्र’स्वरितो वानुदाते’ पदादौऽ इति विधिर्मा भूदिति चकारस्य प्रयोजनं वाच्यम् ॥
Nyaas¶
तद्युक्तात्। संदिष्टार्थया दूतवाचा यत्प्रयुक्तं कर्म तदभिधायिनः कर्मन्शब्दात्स्वार्थे अण्णित्यर्थः। कर्मैव कार्मणमिति। `अ`न्निति प्रकृतिभावान्न टिलोपः। दूतवाक्यं श्रुत्वा तथैव यत्क्रियते कर्म तत्कार्मणमुच्यते। तदाह - वाचिकं श्रुत्वेति।
Prakriyasarvasvam¶
अस्मादेनब्विषय आच् स्यात् । दक्षिणा वसति ।।