53028: दक्षिणोत्तराभ्यामतसुच्¶
Padacheda: दक्षिण-उत्तराभ्याम् | S | 5 | 2 |
अतसुच् | S | 1 | 1 |
Sutrartha¶
‘दक्षिण’ तथा ‘उत्तर’ एतौ शब्दौ यदा ‘दिशा’, ‘स्थान’ उत ‘काल’ एतेषु अर्थषु प्रयुज्येते, तदा तयोः सप्तम्यन्तेभ्यः, पञ्चम्यन्तेभ्यः तथा च प्रथमान्तेभ्यः रूपेभ्यः ‘अतसुच्’ इति प्रत्ययः स्वार्थे विधीयते ।
‘दिशा’, ‘देश’, तथा ‘काल’ इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः (5.3.27) इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण ‘अस्ताति’ प्रत्यये प्राप्ते तस्य अपवादस्वरूपेण ‘दक्षिण’ तथा ‘उत्तर’ एताभ्याम् शब्दाभ्याम् वर्तमानसूत्रेण ‘अतसुच्’ प्रत्ययः विधीयते । अस्मिन् प्रत्यये चकारः इत्संज्ञकः अस्ति, उकारः उच्चारणार्थः अस्ति, अतः द्वयोः अपि लोपः भवति ; ‘अतस्’ इत्येव अवशिष्यते । उदाहरणे एते - 1. दक्षिणस्याम् दिशि / दक्षिणे देशे / दक्षिणस्याः दिशः / दक्षिणात् देशात् / दक्षिणा दिक् / दक्षिणः देशः = दक्षिणायाम् / दक्षिणे / दक्षिणस्याः / दक्षिणात् + अतस् → दक्षिण + अतस् [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → दक्षिण् + अतस् [यस्येति च (6.4.148) इति अकारलोपः] → दक्षिणतः [सकारस्य रेफः, विसर्गः] विशेषः - ‘दक्षिण’ शब्दः ‘काल’ अस्मिन् अर्थे न प्रयुज्यते, अतः तस्य उदाहरणानि न लभन्ते । 2. उत्तरस्याम् दिशि / उत्तरे देशे / उत्तरे काले / उत्तरस्याः दिशः / उत्तरात् देशात् / उत्तरात् कालात् / उत्तरा दिक् / उत्तरः देशः / उत्तरः कालः = उत्तरस्याम् / उत्तरे / उत्तरस्याः / उत्तरात् / उत्तरा / उत्तरः + अतस् → उत्तर + अतस् [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → उत्तर् + अतस् [यस्येति च (6.4.148) इति अकारलोपः] → उत्तरतः [सकारस्य रेफः, विसर्गः] अनेन सूत्रेण निर्मितयोः ‘दक्षिणतः’ तथा ‘उत्तरतः’ एतयोः द्वयोः अपि शब्दयोः तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञा भवति । ज्ञातव्यम् - अस्मिन् सूत्रे ‘अतसुच्’ इत्यस्य स्थाने ‘तसुच्’ इति प्रत्ययः प्रोच्यते तथापि तादृशमेव रूपम् सिद्ध्येत् । परन्तु षष्ठ्यतसर्थप्रत्ययेन (2.3.30) इत्यस्मिन् सूत्रे विशिष्टरूपेण ‘अतस्’ प्रत्ययस्य ग्रहणमावश्यकम्, अतः अत्र प्रत्यये अकारः स्थापितः अस्ति । यदि अत्र ‘तसुच्’ इत्येव प्रत्ययः उच्येत, तर्हि षष्ठ्यतसर्थप्रत्ययेन (2.3.30) इत्यस्य स्थाने ‘षष्ठीतसर्थप्रत्ययेन’ इति ‘तसर्थ’ एतादृशः उल्लेखः आवश्यकः स्यात् । परन्तु एतादृशः उल्लेखः क्रियते चेत् अन्ये ‘तसर्थाः’ (यथा - तसिल् प्रत्ययः) अप्यत्र निर्दिष्टाः भवेयुः, येषाम् ग्रहणमत्र न इष्यते । अतएव अत्र ‘अतसुच्’ इत्यत्र प्रारम्भे अकारस्य योजनम् कृतमस्ति, येन अस्य प्रत्ययस्य अन्येभ्यः ‘तसर्थेभ्यः’ भिन्नरूपेण विधानम् सम्भवेत् ।
Vasu English Summary¶
The affix अतसुच् (अतस्) comes in the sense of ‘direction’, ‘locality’ or ‘time’ after the words 1. दक्षिण and 2. उत्तर।
Vasu English Translation¶
The affix अतसुच् (अतस्) comes in the sense of ‘direction’, ‘locality’ or ‘time’ after the words 1. दक्षिण and 2. उत्तर। This debars अस्ताति ॥ The word दक्षिणा can never refer to time, so with regard to it direction and locality are only taken. Thus दक्षिणतो वसति, दक्षिणत आगतः, दक्षिणतोरमणीयम् ॥ उत्तरतोवसति, उत्तरत आगतः, उत्तरतोरमणीयम् ॥ The अ of अतस् is for the sake of differentiating this affix from तस् in sutras like (2.3.30).
Bhashya¶
दक्षिणोत्तराभ्यामतसुच् (2186) (अतसुच्प्रत्ययाधिकरणम्) (न्यासाक्षेपभाष्यम्) किमर्थमतसुच् क्रियते, न तसुजेव क्रियेत? तत्रायमप्यर्थः - स्वरार्थश्चकारो न कर्तव्यो भवति, प्रत्ययस्वरेणैव सिद्धम्। का रूपसिद्धिः - दक्षिणतो ग्रामस्य, उत्तरतो ग्रामस्य? दक्षिणोत्तरशब्दावकारान्तौ तसुशब्दः प्रत्ययः॥ (एकदेशिनः प्रयोजनभाष्यम्) भवेत्सिद्धम् - यदा अकारान्तौ॥ यदा तु खलु आकारान्तौ तदा न सिद्ध्यति॥ (प्रत्याक्षेपभाष्यम्) तदाऽपि सिद्धम्। कथम्? पुंवद्भावेन। कथं पुंवद्भावः? तसिलादिष्वाकृत्वसुचः 6.3.35 इति॥ (प्रत्याक्षेपसमाधानभाष्यम्) न सिध्यति। भाषितपुंस्कस्य पुंवद्भावः, न चैतौ भाषितपुंस्कौ॥ (दक्षिणोत्तराशब्दयोर्भाषितपुंस्कत्वाभावबोधकभाष्यम्) ननु च भोः दक्षिणशब्द उत्तरशब्दश्च पुंसि भाष्येते। समानायामाकृतौ यद्भाषितपुंस्कमित्युच्यते, आकृत्यन्तरे चैतौ भाषितपुंस्कौ - दक्षिणोत्तरेति दिक्शब्दौ, दक्षिण उत्तर इति व्यवस्थाशब्दौ॥ (व्यवस्थावाचित्वेऽपि दिग्वाचकत्वव्यवस्थाभाष्यम्) यदि पुनर्दिक्शब्दा अपि व्यवस्थाशब्दाः स्युः, कथं यानि दिगपदिष्टानि कार्याणि? दिशो यदा व्यवस्थां वक्ष्यन्ति॥ (व्यवस्थावाचित्वेऽतिप्रसङ्गापादकभाष्यम्) यदि तर्हि यो यो दिशि वर्तते स स दिक्शब्दः। रमणीयादिष्वतिप्रसङ्गो भवति - रमणीया दिक्, शोभना दिगिति॥ (अतिप्रसङ्गनिरासभाष्यम्) अथ मतमेतत् - दिशि दृष्टो दिग्दृष्टः, दिग्दृष्टः शब्दो दिक्शब्द इति दिशं यो न व्यभिचरति न रमणीयादिष्वतिप्रसङ्गो भवति। पुंवद्भावस्तु न प्राप्नोति। एवं तर्हि सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्यः - दक्षिणोत्तरपूर्वाणामित्येवमर्थम्॥ (न्यासप्रयोजनभाष्यम्) विशेषणार्थं तर्हि। क्व विशेषणार्थेनार्थः? षष्ठ्यतसर्थप्रत्ययेन 2.3.30 इति। षष्ठी तसर्थप्रत्ययेनेत्युच्यमाने इहापि स्यात् - ततो ग्रामात्, यतो ग्रामादिति॥
Kashika¶
दक्षिणोत्तराभ्यां दिग्देशकालेषु वर्तमानाभ्यां सप्तमीपञ्चमीप्रथमान्ताभ्यां स्वार्थेऽतसुच् प्रत्ययो भवति। अस्तातेरपवादः। दक्षिणाशब्दः काले न संभवतीति दिग्देशवृत्तिः परिगृह्यते। दक्षिणतो वसति। दक्षिणत आगतः। दक्षिणतो रमणीयम्। उत्तरतो वसति। उत्तरत आगतः। उत्तरतो रमणीयम्। अकारो विशेषणार्थः षष्ठ्यतसर्थप्रत्ययेन (२.३.३०) इति॥
Siddhanta Kaumudi¶
अस्तातेरपवादः । दक्षिणतः । उत्तरतः ॥
Balamanorama¶
दक्षिणोत्तराभ्यामतसुच् - दक्षिणोत्तराभ्यां ।दिग्देशकालवृत्तिभ्या॑मिति शेषः । दक्षिणत उत्तरत इति । नच तसुजेव प्रत्ययोऽस्तु, दिग्वर्तित्वे तुसर्वनाम्नो वृत्तिमात्रे॑ इति पुंवत्वेनैव ‘दक्षिणतः’ इत्यादि सिद्धमिति वाच्यं, स्पष्टार्थत्वात् । अत एव भाष्ये अकारः प्रत्याख्यातः । केचित्तु — अकारोच्चारणमन्यतो विधानार्थं, तेन पुरत इति सिद्धमित्याहुःसमानकालीन॑मित्यादिवत् ‘पुरत’ इति प्रामादिकमेवेति बहवः ।
Padamanjari¶
किमर्थमतसुजुच्यते, न तसुजेवोच्येत्, तत्रायमप्यर्थः - स्वरार्थश्चकारो न कर्तेव्यो भवति, प्रत्ययस्वरेणैवक सिद्धम्, का रूपसिद्धिः ? दक्षिणोतरशब्दावकारानेतौ। यदा तर्हि दिशि वर्तमानौ दाबन्तौ भवतस्यदा यस्येतिलोपेन टापो निवृत्तिर्यथा स्यादित्येवमर्थोऽकारः, सिद्धाऽत्र टापो निवृत्तिः, कथम् ?’तसिलादिष्वाकृत्वसुचः’ कैति पुंवद्भावात्। ननु च समानायामाकृतौ भाषितपुंस्कस्य तेन पुंवद्भावः, आकृत्यन्तरे चैतौ भाषितपुंस्कौ, कथम् ? दिशि वर्तमानाः पूर्वादयो निमितान्तरनिपेक्षाः, देशकालयोस्तु व्यवस्थापेक्षाः। कथं तर्हि दिशि वर्तमानानां सर्वनामसंज्ञा भवति, यावता व्यवस्थायामित्युच्यते ? अत्राहुः - यद्यपि दिशि षर्तमानानां व्यवस्था न प्रवृत्तिनिमितम्, वस्तुतस्तु व्यवस्था विद्यते इति भवत्येव संज्ञा। व्यवस्थायामिति हि विषयो निर्द्दिश्यते, न तु प्रवृत्तिनिमितम्। तथा चोतराः कुर्व इत्यत्र निरूढत्वाद्व्यवहारस्य प्रयोक्तृभिरनपेक्ष्यमाणाया अपि वस्तुतो व्यवस्थायाः सद्भावात्सर्वनामसंज्ञाप्रसङ्गेऽसंज्ञायामिति प्रतिषेधः कृत इति। तदेवमाकृतिभेदातसिलादिष्वति पुंवद्भावो न सिद्धयति। एवं तर्हि’सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः’ इति पुंवद्भावो भवि,यति, यथा दक्षिणोतरपूर्वाणामित्यत्र, तस्मान्नार्थोऽकारकरणेन ? इत्यत आह - अकारो विशेषणार्थ इति।’षष्ठी तसर्थप्रत्येन’ इत्युच्यमाने ततो ग्रामादागत इति तसिलापि योगे षष्ठी स्यात् ? ठपपदविभक्तेः कारकविभक्तिर्बलीयसीऽ। इह तर्हि ततो ग्रामादन्य इत्यन्यादियोगे या पञ्चमी, तां बायत्वा षष्ठी स्यात् ?’निरनुबन्धकग्रहणे न सानुबन्धकस्य’ इत्येवं तसिलादियोगे न भविष्यति। यस्तर्हि निरनुबन्धकः’प्रतियोगे पञ्चम्यास्तसिः’ ‘तेनैकदिक्’ ,’तसिश्च’ , तत्र मा भूतर्जुनतः प्रत्यभिमन्युः, सुदामतो विद्यौदिति ॥
Nyaas¶
अकारो विशेषणार्थः इति। यद्यत्राकारो न क्रियते, तदा षष्ठी तसर्थप्रत्ययेन (2.3.30) इति सूत्रं कर्तव्यम्, एवञ्च सति तसिलोऽपि ग्रहणं स्यात्। ततश्च ततो हेतुनेत्यत्रापि तृतीयां बाधित्वा षष्ठी स्यात्। तस्मादकारो विशेषणार्थः कर्तव्यः। अथ यदा दक्षिणोत्तरशब्दौ दिशि वर्तेते, तदा टाप्श्रवणं मा भूदित्येवमर्थोऽकारः कस्मान्न भवति? सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः (वा। 104) इति पुंवद्वचनेनैव टापो निवर्त्तितत्वात्। ननु चासत्यकारे प्रत्ययस्वरेम सिद्धत्वाच्चकारोऽपि नैव कर्तव्यः, तत्र, एकानुबन्धकग्रहणे तु न द्व्यनुबन्धकस्य (व्या। प। 52) इति तसिलो ग्रहणं न भविष्यति? एवमपि प्रतियोगे पञ्चम्यास्तसिः (5.4.44) , तेनैकदिक् (4.3.112) , तसिश्च (4.3.113) इत्यन्यतरग्रहणं स्यात्। तस्माद्विशेषणार्थश्चकारः कर्तव्यः॥
Prakriyasarvasvam¶
अस्तात्यर्थे । दक्षिणतः. उत्तरतः ।।
Sutra Prayogas¶
दक्षिणतः (भट्टिकाव्यम्): दक्षिणोत्तराभ्यामतसुच् इति अतसुच् प्रत्ययः।