53026: था हेतौ च च्छन्दसि

Padacheda: था | S | 1 | 1 |

हेतौ | S | 7 | 1 |

च | S | 0 | 0 |

छन्दसि | S | 7 | 1 |

Sutrartha

‘किम्’ शब्दात् प्रकारवचने उत हेतौ अभिधेये वेदेषु ‘था’ प्रत्ययः कृतः दृश्यते ।

‘किम्’ इति सर्वनामसंज्ञकः शब्दः । अस्मात् शब्दात् ‘था’ प्रत्यये कृते प्राप्यमाणः ‘कथा’ इति शब्दः वेदेषु प्रयुक्तः दृश्यते । अस्य शब्दस्य सिद्ध्यर्थ वर्तमानसूत्रस्य निर्माणम् कृतमस्ति । ‘किम्’ इत्यस्मात् शब्दात् स्वार्थे ‘केन हेतुना’ उत ‘केन प्रकारेण’ एतयोः सन्दर्भयोः अयम् ‘था’ प्रत्ययः वेदेषु प्रयुक्तः दृश्यते । क्रमेण पश्यामः - 1. हेतुः - हेतुः इत्युक्ते कारणम् / प्रयोजनम् । ‘केन हेतुना’ (= केन कारणेन) इति अभिधेये ‘केन’ इत्यस्मात् तृतीयान्तात् स्वार्थे ‘था’ प्रत्ययं कृत्वा ‘कथा’ इति शब्दः सिद्ध्यति । अयम् शब्दः वेदेषु ‘केन हेतुना’ इत्यस्मिन् अर्थे प्रयुक्तः दृश्यते । यथा - ऋग्वेदे 10.146.1 - क॒था ग्रामं॒ न पृ॑च्छसि॒ न त्वा॒ भीरि॑व विन्दती३ँ । अत्र ‘केन हेतुना ग्रामं न पृच्छसि’ (Why do you not decorate the city - इत्याशयः) । 2. प्रकारवचनम् - ‘केन प्रकारेण’ इति अभिधेये अपि ‘केन’ इत्यस्मात् तृतीयान्तात् स्वार्थे ‘था’ प्रत्ययं कृत्वा ‘कथा’ इति शब्दः सिद्ध्यति । अयम् शब्दः वेदेषु ‘केन प्रकारेण’ इत्यस्मिन्नेव अर्थे प्रयुक्तः दृश्यते । यथा - ऋग्वेदे 4.3.5 - क॒था ह॒ तद्वरु॑णाय॒ त्वम॑ग्ने क॒था दि॒वे ग॑र्हसे॒ कन्न॒ आग॑: । क॒था मि॒त्राय॑ मी॒ळ्हुषे॑ पृथि॒व्यै ब्रव॒: कद॑र्य॒म्णे कद्भगा॑य ॥ अत्र ‘कथा’ शब्दः त्रिवारं प्रयुक्तः अस्ति । सर्वत्र अस्य अर्थः ‘केन प्रकारेण’ इत्येव वर्तते । ज्ञातव्यम् - पञ्चमाध्यायस्य प्रथमपादस्य प्रथमसूत्रात् प्रारब्धः प्राग्दिशीयः विभक्त्यधिकारः अत्र समाप्यते ।

Vasu English Summary

The affix था comes in the sense of ‘cause’ after the word किम् in the छन्दस् (Vedas).

Vasu English Translation

The affix था comes in the sense of ‘cause’ after the word किम् in the छन्दस् (Vedas). The word प्रकार वचने is read into the sutra by force of च ॥ Thus कथा ‘wherefore? why? for what reason?’, कथा ‘how’. The former is an example of हेतु ‘reason or cause’, the second of प्रकार ‘manner’. As in the following sentences : कथा ग्रामं न पृच्छसि = केन हेतुना ग्रामं न पृच्छसि ॥ कथा देवा आसन् पुराविदः ॥

Here end the affixes having the designation of Vibhakti.

Kashika

किंशब्दाद् हेतौ वर्तमानात् था प्रत्ययो भवति, चकारात् प्रकारवचने छन्दसि विषये। हेतौ तावत् — क॒था ग्रामं॒ न पृ॑च्छसि॒ (ऋ० १०.१४६.१)। केन हेतुना न पृच्छसीत्यर्थः। प्रकारवचने — कथा देवा आसन् पुराविदः। विभक्तिसंज्ञायाः पूर्णोऽवधिः॥

Siddhanta Kaumudi

किमस्था स्याद्धेतौ प्रकारे च । कथा ग्रामं न पृच्छसि (क॒था ग्रामं॒ न पृ॑च्छसि) । कथा दाशेम (क॒था दा॑शेम) ॥

Prakriyasarvasvam

किमो हेतौ प्रकारे च था स्यात् । ‘किमः कः’ (७-२-१०३) इति कादेशः । कथा ग्रामं न पृच्छसि । कस्मान्न पृच्छसीत्यर्थः । प्रकारे तु कथामहे ।