53029: विभाषा परावराभ्याम्

Padacheda: विभाषा | S | 1 | 1 |

पर-अवराभ्याम् | S | 5 | 2 |

Sutrartha

‘पर’ तथा ‘अवर’ एतौ शब्दौ यदा ‘दिशा’, ‘स्थान’ उत ‘काल’ एतेषु अर्थेषु प्रयुज्यन्ते, तदा तयोः सप्तम्यन्तेभ्यः, पञ्चम्यन्तेभ्यः तथा च प्रथमान्तेभ्यः रूपेभ्यः विकल्पेन ‘अतसुच्’ प्रत्ययः भवति । पक्षे औत्सर्गिकः अस्ताति-प्रत्ययः अपि विधीयते ।

‘दिशा’, ‘देश’, तथा ‘काल’ इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः (5.3.27) इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण ‘अस्ताति’ प्रत्यये प्राप्ते तस्य अपवादस्वरूपेण ‘पर’ (= other) तथा ‘अवर’ (= posterior) एताभ्याम् शब्दाभ्याम् वर्तमानसूत्रेण ‘अतसुच्’ प्रत्ययः विकल्पेन विधीयते । पक्षे औत्सर्गिकः ‘अस्ताति’प्रत्ययः अपि भवति । यथा - 1. परास्याम् दिशि / परस्मिन् देशे / परस्मिन् काले / परस्याः दिशः / परस्मात् देशात् / परस्मात् कालात् / परा दिक् / परः देशः / परः कालः = परास्याम् / परस्मिन् / परस्याः / परस्मात् / परा / परः + अतसुच् → परास्याम् / परस्मिन् / परस्याः / परस्मात् / परा / परः + अतस् [चकारस्य इत्संज्ञा, लोपः । उकारः उच्चारणार्थः, तस्यापि लोपः भवति ।] → पर + अतस् [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → पर् + अतस् [यस्येति च (6.4.148) इति अकारलोपः] → परतः [सकारस्य रेफः, विसर्गः] एवमेव ‘अवर’ शब्दात् इमामेव प्रक्रियां कृत्वा ‘अवरतः’ इति शब्दः सिद्ध्यति । पक्षे ‘अस्ताति’ प्रत्यये परे अपि समाना एव प्रक्रिया भवति, येन ‘परस्तात्’ तथा ‘अवरस्तात्’ एतौ शब्दौ सिद्ध्यतः । ‘परतः’, ‘अवरतः’, ‘परस्तात्’ तथा ‘अवरस्तात्’ एतेषां सर्वेषाम् तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञा भवति ।

Vasu English Summary

The affix अतसुच् (अतस्) comes in the sense of अस्ताति (अस्तात्) after 1. पर and 2. अवर।

Vasu English Translation

The affix अतसुच् (अतस्) comes in the sense of अस्ताति (अस्तात्) after 1. पर and 2. अवर। Thus परतः or परस्तात् or अवरस्तात् or अवरतो वसति, आगतः or रमणीयम् ॥

Kashika

परावरशब्दाभ्यां विभाषातसुच् प्रत्ययो भवत्यस्तातेरर्थे। परतो वसति। परत आगतः। परतो रमणीयम्। परस्ताद् वसति। परस्तादागतः। परस्ताद् रमणीयम्। अवरतो वसति। अवरत आगतः। अवरतो रमणीयम्। अवस्ताद् वसति। अवस्ताद् आगतः। अवस्ताद् रमणीयम्॥

Siddhanta Kaumudi

परतः । अवरतः । परस्तात् । अवरस्तात् ॥

Balamanorama

विभाषा परावराभ्याम् - विभाषा ।अतसु॑जिति शेषः । पक्षे अस्तातिः ।

Prakriyasarvasvam

आभ्यामतसुज्वा । परतः, अवरतः । परस्तात्, अवरस्तात् ।।