53027: दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः

Padacheda: दिक्शब्देभ्यः | S | 5 | 3 |

सप्तमी-पञ्चमी-प्रथमाभ्यः | S | 5 | 3 |

दिग्-देश-कालेषु | S | 7 | 3 |

अस्तातिः | S | 1 | 1 |

Sutrartha

दिशावाचकाः शब्दाः यदा ‘दिशा’, ‘स्थान’ उत ‘काल’ एतेषु अर्थेषु प्रयुज्यन्ते, तदा तेषाम् सप्तम्यन्तेभ्यः, पञ्चम्यन्तेभ्यः तथा च प्रथमान्तेभ्यः रूपेभ्यः ‘अस्ताति’ इति प्रत्ययः स्वार्थे विधीयते ।

अनेन सूत्रेण ‘दिशावाचकेभ्यः’ शब्देभ्यः ‘अस्ताति’ इति प्रत्ययः पाठ्यते । यद्यपि दिशावाचकाः शब्दाः प्रायः ‘दिशा’ इत्यस्मिन्नेव अर्थे प्रयुज्यते, तथापि एते शब्दाः भाषायाम् ‘स्थान’ तथा ‘काल’ एतयोः अर्थयोः अपि प्रयुक्ताः दृश्यन्ते । यथा, ‘पूर्व’ इति दिशावाचकः शब्दः ‘पूर्वदेशः’ / पूर्वकालः’ एतादृशमपि प्रयुज्यते । एतेषु एव अर्थेषु प्रयुज्यमाणाः ये दिशावाचकाः शब्दाः, तेषाम् सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे ‘अस्ताति’प्रत्ययविधानमत्र उक्तमस्ति । ‘अस्ताति’ इत्यत्र तकारोत्तरः इकारः उच्चारणार्थः अस्ति, प्रयोगे तु ‘अस्तात्’ इत्येव दृश्यते । हलन्त्यम् (1.3.3) इत्यनेन तकारस्य इत्संज्ञा मा भूत् इति स्पष्टीकर्तुमत्र इकारः स्थापितः अस्ति । कानिचन उदाहरणानि पश्यामः - 1. ‘पूर्व’ (= east direction) इति दिशावाचकः शब्दः । अयम् शब्दः ‘देशः’ अस्मिन् अर्थे (= पूर्वः देशः) तथा ‘कालः’ अस्मिन् अर्थे (= गतः कालः) एतयोः अन्ययोः अर्थयोः अपि भाषायाम् प्रयुज्यते । अतः एतेषु त्रिषु अपि अर्थेषु वर्तमानसूत्रेण ‘पूर्व’ शब्दात् ‘अस्ताति’ प्रत्ययः भवति । प्रक्रिया इयम् - पूर्वस्याम् दिशि / पूर्वस्मिन् देशे / पूर्वस्मिन् काले / पूर्वस्याः दिशः / पूर्वस्मात् देशात् / पूर्वस्मात् कालात् / पूर्वा दिक् / पूर्वः देशः / पूर्वः कालः पूर्वस्याम् / पूर्वस्मिन् / पूर्वस्याः / पूर्वस्मात् / पूर्वा / पूर्वः + अस्ताति = पूर्व + अस्तात् [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] →> पुर् + अस्तात् [अस्ताति च (5.3.40) इत्यनेन ‘पूर्व’ इत्यस्य ‘पुर्’ इति आदेशः] → पुरस्तात् अनेन प्रकारेण निर्मितः ‘पुरस्तात्’ शब्दः उपरिनिर्दिष्टेषु नवसु अपि अर्थेषु प्रयुज्यते । यथा - अ) ‘अव पुरस्तात्’ - ‘पूर्वस्याः दिशः मम रक्षणम् करोतु’ इत्याशयः । आ) ‘पुरस्ताद्वसति स्म’ - पूर्वस्मिन् काले वसति स्म’ इत्याशयः । इ) अयम् पुरस्तात् - ‘अयम् पूर्वः देशः’ इत्यर्थः । एवमेव - 2. अधरस्याम् दिशि / अधरस्मिन् देशे / अधरस्मिन् काले / अधरस्याः दिशः / अधरस्मात् देशात् / अधरस्मात् कालात् / अधरा दिक् / अधरः देशः / अधरः कालः → अधर + अस्ताति [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → अध् + अस्तात् [अस्ताति च (5.3.40) इत्यनेन ‘अधर’ इत्यस्य ‘अध्’ आदेशः] → अधस्तात् 3. अवरस्याम् दिशि / अवरस्मिन् देशे / अवरस्मिन् काले / अवरस्याः दिशः / अवरस्मात् देशात् / अवरस्मात् कालात् / अवरा दिक् / अवरः देशः / अवरः कालः → अवर + अस्ताति [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → अव् + अस्तात् [अस्ताति च (5.3.40) इत्यनेन ‘अवर’ इत्यस्य ‘अव्’ आदेशः] → अवस्तात् अनेन सूत्रेण निर्मिताः ‘अस्ताति’प्रत्ययान्तशब्दाः तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञकाः भवन्ति । विशेषः - स्त्रीप्रत्ययान्तशब्देभ्यः अस्ताति-प्रत्यये कृते प्रातिपदिकस्य <!सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्यः !> इत्यनेन पुंवद्भावः भवति, अतः प्रक्रिया पुंलिङ्गशब्दवदेव जायते । यथा - पूर्वा + अस्ताति → पूर्व + अस्ताति → पुरस्तात् । ज्ञातव्यम् - 1. भिन्नेभ्यः दिशावाचकेभ्यः शब्देभ्यः वर्तमानसूत्रेण विहितस्य ‘अस्ताति’ प्रत्ययस्य अपवादरूपेण अन्ये प्रत्ययाः अग्रिमेषु सूत्रेषु पाठिताः सन्ति । 2. अस्मिन् सूत्रे उक्ताः ‘दिशा’, ‘देशः’ तथा ‘कालः’ एते अर्थाः प्रकृत्यर्थाः सन्ति, न हि प्रत्ययार्थाः । प्रत्ययविधानम् तु स्वार्थे एव भवति । 3. यद्यपि अस्मिन् सूत्रे तिस्रः विभक्तयः त्रयः च प्रकृत्यर्थाः दीयन्ते, तथाप्यत्र ‘यथासङ्ख्यत्वम्’ न इष्यते इति स्मर्तव्यम् ।

Vasu English Summary

The affix अस्ताति (अस्तात्) comes after the words of ‘direction’, ‘locality’ or ‘time’ ending in the Locative -7th case, Ablative -5th case, Nominative 1st-Case, without a change of sense.

Vasu English Translation

The affix अस्ताति (अस्तात्) comes after the words of ‘direction’, ‘locality’ or ‘time’ ending in the Locative -7th case, Ablative -5th case, Nominative 1st-Case, without a change of sense. The word दिक् शब्दाः means ‘words denoting directions’. Thus पुरस्तात्, has all these three significations in the following sentences, पुरस्तादवसति ‘he lives eastward’. पुरस्तादागतः ‘he came from east’ पुरस्ताद् रमणीयम् ‘It was delightful previously’. Similarly with अधस्तात् ॥

Why do we say ‘after words of direction’? Observe ऐन्द्र्यां दिशि वसति ॥ Why do we say ‘ending in the locative, ablative and nominative’? Observe पूर्वम् ग्रामं गतः ॥ Why do we say when the sense is ‘a direction’, ‘a locality’ or ‘a time’? Observe पूर्वस्मिन् गुरौ वसति ‘he lives in the presence of the guru’.

This affix is a स्वार्थिक affix, like the affixes taught previously. The words denoting direction must be primitive words of direction; and not derivative words like ऐन्द्री &c. which also denote direction. The rule of यथासंख्य does not apply here.

Bhashya

दिक्शब्देभ्यः सप्तमीपञ्ञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः (2185) (अस्तातिप्रत्ययाधिकरणम्) (अतिव्याप्त्याशङ्काभाष्यम्) इह कस्मान्न भवति - पूर्वस्मिन् देशे वसतीति? (अतिव्याप्तिनिरासभाष्यम्) नैष देशः, देशविशेषणमेतत्॥

Kashika

दिशां शब्दा दिक्शब्दाः। तेभ्यो दिक्शब्देभ्यो दिग्देशकालेषु वर्तमानेभ्यः सप्तमीपञ्चमीप्रथमान्तेभ्योऽस्तातिः प्रत्ययो भवति स्वार्थे। यथासंख्यमत्र नेष्यते। पुरस्ताद् वसति। पुरस्तादागतः। पुरस्ताद् रमणीयम्। अधस्ताद् वसति। अधस्तादागतः। अधस्ताद् रमणीयम्। दिक्शब्देभ्य इति किम् ? ऐन्द्र्यां दिशि वसति। सप्तमीपञ्चमीप्रथमाभ्य इति किम्? पूर्वं ग्रामं गतः। दिग्देशकालेष्विति किम् ? पूर्वस्मिन् गुरौ वसति। इकारस्तकारपरित्राणार्थः॥

Siddhanta Kaumudi

सप्तम्याद्यन्तेभ्यो दिशिरूढेभ्यो दिद्गेशकालवृत्तिभ्यः स्वार्थेऽस्तीतिः प्रत्ययः स्यात् ॥

Balamanorama

दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः - अथ प्रागिवीयप्रकरणमारभ्यते — दिक्छब्देभ्यः । सप्तम्याद्यन्तेभ्य इति । सप्तमीपञ्चमीप्रथमान्तेभ्य इत्यर्थः । रूढेभ्य इति । शब्दग्रहणलभ्यमिदम् । अस्तातिप्रत्यये इकार उच्चारणार्थः । तकारान्तः प्रत्ययः ।सङ्ख्याया विधार्थे धे॑ति सूत्रपर्यन्तमिदं सूत्रमस्तातिवर्जनमनुवर्तते । अत्र विभक्तीनां दिगादीनां च न यथासङ्ख्यं, व्याख्यानात् ।

Tattvabodhini

दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः - दिग्देशकालेष्विति । यतासङ्ख्यमत्र नेष्यते, अस्वरितत्वात् ।

Padamanjari

सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः ॥ दिशां शब्दाः दिक्शब्दाः, षष्ठीसमासः। दिशां ये वाचकास्ते दिवशब्दा इति। दिशां ये वाचकत्वेन दृष्टाः, त इह दिक्शब्दा विवक्षिता इति, न तु दिशमभिदधाना एवेत्यर्थः। तेभ्य इति। यद्यपि पूर्वादिशब्दा दिशि वर्तमानाष्टाबन्ताः, देशकालयोस्तु प्रकृत्यन्ता इति रूपभेदः, तथापि टापः स्वार्थिकत्वाद्वाचकरूपे भेदाभावात् त एव दिक्शब्दा देशकालयोर्वर्तन्त इति वाचोयुक्तेर्नास्ति विरोधः। ये त्वर्थभेदं मन्यन्ते, तेषां सादृश्यनिबन्धनस्तेभ्य इति व्यपदेशः। कथं पुनर्द्दिक्शब्दा देशकालयोर्वर्तन्ते ? स्वभावाकत्। पूर्वादयो हि दिशामिव देशकालयोरपि स्वभावादेव वाचकाः। कथं तर्हि त्रिषु वर्तमाना दिशैकया व्यपदिश्यन्ते-दिस्शब्देभ्य इति? को दोषः; अन्वयेन ह्ययं व्यपदेशः, न तु दिशामेव ये शब्दाः-इत्यवधारणेन। अथ देशकालयोरन्यतरेण कस्मान्न व्यपदिश्यन्ते ? शिंशपाचोद्यमेतत्। किं च, दिशां निर्द्देशे लाघवं भवति। दिक्शब्दस्योपलक्षणत्वात्पुनर्दिग्ग्रहणम्, अन्यथा देशकालवृत्तिभ्य एव स्यात्, न दिग्वृत्तिभ्यः। इह सप्तम्यादीनां विभक्तीनामर्थानां दिगादीनां च साम्यात्संख्यातातुदेशः स्यादिति ? तत्राह - यथासंख्यमत्र नेष्यत इति। अस्वरितत्वात्। पुरस्ताद्, अधस्तादिति। पूर्वाधरशब्दयोः ठस्तातिऽ इति पुर, अध् - इत्येतावादेशौ। ऐन्द्र।लं दिशि वसतीति। ऐन्द्रीशब्दोऽयम् इन्द्रसंबन्धिस्त्रीलिङ्गवस्तुमात्रमाह, दिक्शब्दसन्निधौ तु दिशि वर्तते इति न दिक्शब्दः। किञ्च, दिक्शब्देभ्य इत्येतस्मिन्नसति ये देशवाचिनः पञ्चालादयः, ये च कालवाचिनो मासादयः, तेभ्योऽपि प्रसङ्गः। अस्मिंस्तु सति दिक्शब्दा एव ये देशकालयोर्वर्तन्ते तेभ्य एव भवति। दिग्देशकालेष्विति किमिति।’दिक्शब्देभ्यः’ इतिशब्दग्रहणाद्दिशि दृष्टः शब्दो दिक्शब्द इति व्युत्पत्या देशकालवृत्तिभ्योऽपि सिद्धः प्रत्ययः,’दिक्शब्दाञ्चूतरपद’ इति पञ्चमीवदिति मत्वा प्रश्नः। पूर्वस्मिन्गुराविति। पूर्वशब्दोऽत्र दिगादिसम्बन्दाद्गुरौ वर्तते, न दिगादिषु ॥

Nyaas

दिग्देशकालेषु वर्तमानेभ्यः इति। कथं पुनर्थे दिशां शब्दास्ते देशे काले वर्तन्ते? स्वभावात्। यथैव हि ते दिश स्वबावादेव वर्तन्ते, न हेत्वन्तरात्,; तथा देशकालयोरपि। यद्यवम्, त्रिषु वर्तमानाः कथं दिशा व्यपदिश्यन्ते - दिक्शब्देभ्य इति? कथं तर्हि व्यपदेष्टव्यम्, दिग्देशकालशब्देभ्य इति? नैतदस्ति; एवं हि व्यपदेशस्यैतत्? फलम् - ऐन्द्रआं दिशि निवसतीत्यत्र मा भूदिति। एतच्चान्यतमेनापि लभ्यत इत्यनेनैव व्यापदेशो युक्तः, येन व्यपदेशाल्लधु सूत्रं भवति। दिशा च व्यपदेशे लघु भवति, दिक्शब्दस्याल्पाच्तरत्वादिति दिशां तेन व्यपदेशः। एवमपि दिक्शब्दस्य दिशि वृत्तेः विशेषणमयुक्तम्, अवस्यं हि दिक्शब्दो दिशि वर्तते, तत्रैवं कर्तव्यम् - देशकालयोरिति? नैतदस्ति; एवं ह्रु च्यमाने सत्युपलक्षणमेव हि दिक्शब्दः स्यात्, प्रत्यस्तु देशकालवृत्तिभ्य एव स्यात्, न दिग्वृत्तिभ्यः। दिग्ग्रहणे तु तेभ्योऽपि भवति। इह तिरुआओ विभक्तयः, त्रयश्चार्था दिगादयः, तत्र साम्याद्यथासंख्येन भवितव्यम् - इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तामपाकर्तुमाह - यथासंख्यमत्र नेष्यते इति। तत्कथमिहेकवचननिर्देशे कर्तव्ये बहुवचननिर्देशः? प्रत्येकं दिगादिवृत्तेर्बहुलविभक्त्यन्तात्? प्रत्ययः कर्तव्य इति सूचनार्थः। एवञ्चायं बहुलविभक्त्यन्तात्? प्रत्ययः कृतो भवति, यदि दिग्वृत्तेरपि सप्तमीपञ्चमीप्रथमान्तादेव भवति - देशवृत्तेरपि, कालवृत्तेरपि। अथ वा-था हेतौ च (5.3.26) इत्यतश्चकारोऽनुवर्तते, स च श्रुतिमेव समुच्चिनोति। तेन दिगादिवृत्तेः प्रत्येकं सप्तमीपञ्चमीप्रथमान्तात्? प्रत्ययो भवति, न यतासंख्यम्! यथासंख्यं हि समुच्चयो विरुध्यतेत। अथ वा - स्वरितत्वे सति यथासंख्यं भवति इत्युक्तम्, न चेह यथासंख्यार्थं स्वरितत्वं प्रतिज्ञायेत, तेन यथासंक्यं न भविष्यति।पुरस्तावधस्तात् इति। पूर्वाधरशब्दाभ्यामस्तातिः। अस्ताति च (5.3.40) इति वक्ष्यमाणेन यथासंख्यं पुर्, अध - इत्येतौ पूर्वाधरशब्दयोरादेशौ। ऐन्द्रआं दिशि वसति इति। ऐन्द्रीशब्दः सामान्येनेन्द्रसम्बन्धिवस्तुमात्रमाचष्टे, दिक्शब्दसन्निधौ तु दिशि वर्तते, तेन दिक्शब्द इति लोके न प्रसिद्ध इतदि न भवत्यतः प्रत्ययः। पूर्वं ग्रामं गतः इति। पूर्वशब्दोऽत्र ग्रामस्य देशात्मकत्वाद्देशे वर्तते, न त्वत्र सप्तम्यादिविभक्त्यन्तः, किं तु द्वितीयान्त। पूर्वस्मिन्? गुरौ वसति इति पूर्वशब्दोऽत्र दिगाद्युपलक्षिते गुरौ वर्तते, न दिगादिषु॥

Prakriyasarvasvam

दिग्देशकालवृत्तिभ्यः सप्तम्याद्यन्तेभ्यो दिक्शब्देभ्यः स्वार्थेऽस्तातिः स्यात् । इलोपः ।

Sutra Prayogas

  • प्रत्यगियाय (भट्टिकाव्यम्): दिक्छब्देभ्यः सप्तमी इत्यादिना विहितस्यास्तातेः अचेर्लुक्।