53030: अञ्चेर्लुक्

Padacheda: अञ्चेः | S | 5 | 1 |

लुक् | S | 1 | 1 |

Sutrartha

‘अञ्च्’ धातुः यस्य अन्ते अस्ति, तादृशेभ्यः दिशावाचिभ्यः शब्देभ्यः विहितस्य ‘अस्ताति’ प्रत्ययस्य लुक् भवति ।

‘दिशा’, ‘देश’, तथा ‘काल’ इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः (5.3.27) इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण ‘अस्ताति’ प्रत्ययः विधीयते । परन्तु ‘अञ्च्’ धातुः यस्य अन्ते आगच्छति, तादृशात् दिशावाचकशब्दात् विहितस्य ‘अस्ताति’ प्रत्ययस्य वर्तमानसूत्रेण लुक् विधीयते । प्रारम्भे ‘अञ्च्’ इति किम् तत् पश्यामः । ‘अञ्च्’ (अञ्चुँ गतौ) इति भ्वादिगणस्य कश्चन धातुः । यदि अयम् धातुः उपपदेन सह प्रयुज्यते, तर्हि अस्मात् धातोः ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च (3.2.59) इत्यनेन ‘क्विन्’ प्रत्ययं कृत्वा भिन्नाः दिशावाचकशब्दाः सिद्ध्यन्ति । यथा - 1) प्र + अञ्च् + क्विन् → प्राच् । ‘पूर्वः’ इत्यर्थः । 2) प्रति + अञ्च् + क्विन् → प्रत्यच् । ‘पश्चिमः’ इत्यर्थः । 3) उद् + अञ्च् + क्विन् → उदच् । ‘उत्तरः’ इत्यर्थः । एते त्रयः अपि शब्दाः ‘अञ्चुँ’ इत्यन्ताः सन्ति अतः ‘उगितः’ सन्ति । अतः एतेषाम् प्रयोगः यदा ‘दिश्’ इति स्त्रीलिङ्गशब्दस्य विशेषणरूपेण क्रियते, तदा एतेषामपि स्त्रीत्वमपेक्ष्यते । अस्यां स्थितौ उगितश्च (4.1.6) इत्यनेन एते सर्वे शब्दाः ङीप् प्रत्ययं स्वीकुर्वन्ति । यथा - 1. ‘प्राच्’ शब्दस्य स्त्रीत्वे - = प्र + अच् + ङीप् [उगितश्च (4.1.16) इति ङीप्] → प्र + च् + ई [अचः (6.4.138) इत्यनेन ‘अच्’ इत्यस्य अकारस्य लोपः भवति] → प्रा + च् + ई [चौ (6.3.138) इति अङ्गस्य दीर्घादेशः ] → प्राची । यथा - प्राची दिक् । पूर्वदिशा - इत्यर्थः । स्मर्तव्यम् - देशस्य कालस्य वा विशेषणरूपेण तु ‘प्राच्’ इति मूलशब्दः एव प्रयुज्यते, तत्र ‘ङीप्’ इति प्रत्ययः न भवति, यतः ‘देश’ उत ‘काल’ एतौ शब्दौ स्त्रीवाचिनौ न स्तः । यथा - प्राङ् देशः, प्राङ् कालः । (प्रथमैकवचनस्य रूपे उगिदचां सर्वनामस्थाने अधातोः (7.1.70) इति नुमागमः, तथा च चोः कुः (8.2.30) इति कुत्वम् विधीयते)। एवमेव - 2) ‘प्रत्यच्’ शब्दस्य स्त्रीत्वे - = प्रति + अच् + ङीप् [उगितश्च (4.1.16) इति ङीप्] → प्रति + च् + ई [अचः (6.4.138) इत्यनेन ‘अच्’ इत्यस्य अकारस्य लोपः भवति] → प्रती + च् + ई [चौ (6.3.138) इति अङ्गस्य दीर्घादेशः ] → प्रतीची । यथा - प्रतीची दिक् । पश्चिमदिशा - इत्यर्थः । देशस्य कालस्य वा विशेषणरूपेण तु ‘प्रत्यच्’ इति मूलशब्दः एव प्रयुज्यते । यथा - प्रत्यङ् देशः, प्रत्यङ् कालः । (प्रथमैकवचनस्य रूपे उगिदचां सर्वनामस्थाने अधातोः (7.1.70) इति नुमागमः, तथा च चोः कुः (8.2.30) इति कुत्वम् विधीयते)। तथैव - 3) ‘उदच्’ शब्दस्य स्त्रीत्वे - = उद् + अच् + ङीप् [उगितश्च (4.1.16) इति ङीप्] → उद् + ईच् + ई [उद ईत् (6.4.139) इति अकारस्य इकारादेशः] → उदीची । यथा - उदीची दिक् । उत्तरदिशा - इत्यर्थः । देशस्य कालस्य वा विशेषणरूपेण तु ‘उदच्’ इति मूलशब्दः एव प्रयुज्यते । यथा - उदङ् देशः, उदङ् कालः । (प्रथमैकवचनस्य रूपे उगिदचां सर्वनामस्थाने अधातोः (7.1.70) इति नुमागमः, तथा च चोः कुः (8.2.30) इति कुत्वम् विधीयते)। एतादृशम् निर्मिताः ‘प्राची, प्राच्, प्रतीची, प्रत्यच्, उदीची, उदच्’ एते सर्वे शब्दाः दिशावाचकाः सन्ति । एतेषाम् सप्तम्यन्तात् / पञ्चम्यन्तात् / प्रथमान्तात् स्वार्थे विहितस्य ‘अस्ताति’ प्रत्ययस्य लुक् भवति । यथा - 1. प्राच्यां दिशि / प्राच्यः दिशः / प्राची दिक् = प्राच्याम् / प्राच्यः / प्राची + अस्ताति → प्राची + अस्ताति [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → प्राची [‘अस्ताति’प्रत्ययस्य लुक्] → प्राच् [लुक् तद्धितलुकि (1.2.49) इति स्त्रीप्रत्ययस्य अपि लुक् । स्त्रीप्रत्ययस्य निवृत्तौ ङीप्-प्रत्ययविशिष्टमङगकार्यमपि निवर्तते, अतः ‘प्र + अच्’ इत्यवे अवशिष्यते । सवर्णदीर्घं कृत्वा ‘प्राच्’ इति सिद्ध्यति । अस्य तद्धितश्चासर्वविभक्तिः (1.3.38) इति अव्ययसंज्ञा विधीयते ।] → प्राच् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः ] → प्राच् [अव्ययादाप्सुपः (2.4.82) इति सुँ-प्रत्ययस्य लुक्] → प्राक् [सुँ-प्रत्ययस्य लुकि अपि सुप्तिङन्तं पदम् (1.4.14) इति पदसंज्ञा । अतः चोः कुः (8.2.30) इति पदान्तचकारस्य कुत्वे ककारः] → प्राग् [झलां जशोऽन्ते (8.2.39) इति पदान्तककारस्य जश्त्वे गकारः] उदाहरणम् - ‘प्राग् वसति’ (= प्राच्यां दिशि वसति) । प्राग् आगतः (प्राच्यः दिशः आगतः) । विशेषः - देशस्य तथा कालस्य विशेषणरूपेण यत्र ‘प्राच्’ शब्दः प्रयुज्यते, तत्रापि ‘प्राच्’ शब्दात् अस्ताति-प्रत्यये प्राप्ते तस्य लुक् कृत्वा ‘प्राग्’ इत्येव रूपम् सिद्ध्यति । यथा - ‘प्राचि काले’ / ‘प्राचि देशे’ / ‘प्राचः कालात्’ / ‘प्राचः देशात्’ / प्राङ् कालः / प्राङ् देशः = प्राग् । अस्यापि प्रक्रिया समाना एव, परन्तु तत्र स्त्रीप्रत्ययविशिष्टः अंशः नास्ति । 2. प्रतीच्यां दिशि / प्रतीच्यः दिशः / प्रतीची दिक् / प्रतीचि देशे / प्रतीचः देशात् / प्रत्यङ् देशः / प्रतीचि काले / प्रतीचः कालात् / प्रत्यङ् कालः = प्रत्यग् । अस्यापि प्रक्रिया ‘प्राक्’ शब्दवदेव भवति । इत्युक्ते - [अ] ‘प्रतीची’ शब्दस्य विषये ‘अस्ताति’ प्रत्ययस्य लुकि कृते ङीप्-प्रत्ययस्य लुक् तद्धितलुकि (1.2.49) इत्यनेन लुक् विधीयते, तेन च ङीप्-निमित्तभूतम् कार्यमपि विनश्यति, अतः ‘प्रति + अच्’ इत्येव अवशिष्यते । अग्रे यणादेशं कृत्वा ‘प्रत्यच्’ इति प्रातिपदिकम् सिद्ध्यति । ‘प्रत्यग्’ इति तस्य प्रथमैकवचनम् । [आ] पुंलिङ्गनपुंसकलिङ्गयोः ‘प्रत्यच्’ शब्दस्य विषये तु केवलं प्रत्ययलुक् तथा अग्रे कुत्वजश्त्वे ‘प्रत्यग्’ इति अव्ययं सिद्ध्यति । 3. उदीच्यां दिशि / उदीच्यः दिशः / उदीची दिक् / उदीचि देशे / उदीचः देशात् / उदङ् देशः / उदीचि काले / उदीचः कालात् / उदङ् कालः = उदग् । अस्यापि प्रक्रिया ‘प्राक्’ शब्दवदेव भवति - [अ] ‘उदीची’ शब्दस्य विषये ‘अस्ताति’ प्रत्ययस्य लुकि कृते अङ्गस्य ङीप्-प्रत्ययस्य लुक् तद्धितलुकि (1.2.49) इत्यनेन लुक् विधीयते, तेन च ङीप्-निमित्तभूतम् कार्यमपि विनश्यति, अतः ‘उद् + अच्’ इत्येव अवशिष्यते । अग्रे वर्णमेलनं कृत्वा ‘उदच्’ इति प्रातिपदिकम् सिद्ध्यति । ‘उदग्’ इति तस्य प्रथमैकवचनम् । [आ] पुंलिङ्गनपुंसकलिङ्गयोः ‘उदच्’ शब्दस्य विषये तु तु केवलं प्रत्ययलुक् तथा अग्रे कुत्वजश्त्वे ‘उदग्’ इति अव्ययं सिद्ध्यति । अनेन प्रकारेण अस्मिन् सूत्रे ‘प्राग्, प्रत्यग्, उदग्’ एतेषां त्रयाणां शब्दानां सिद्धिः दत्ता अस्ति ।

Vasu English Summary

After words of direction ending in अञ्च् there is लुक् elision of the affix अस्ताति।

Vasu English Translation

After words of direction ending in अञ्च् there is लुक् elision of the affix अस्ताति। Thus प्राक् or प्रत्यक्; प्राच्यां दिशि वसति = प्राग् वसति, प्रागागतः, प्राग्रमणीयम् ॥ The feminine affix of प्राची is also elided, when the taddhita affix is elided by लुक् ॥ See (l. 2.49).

Kashika

अञ्चत्यन्तेभ्यो दिक्शब्देभ्य उत्तरस्यास्तातिप्रत्ययस्य लुग् भवति। प्राच्यां दिशि वसति। लुक् तद्धितलुकि (१.२.४९) इति स्त्रीप्रत्ययोऽपि निवर्तते। प्राग् वसति। प्राग् आगतः। प्राग् रमणीयम्। प्रत्यग् वसति। प्रत्यग् आगतः। प्रत्यग् रमणीयम्॥

Siddhanta Kaumudi

अञ्चत्यन्ताद्दिक्शब्दादस्तातेर्लुक् स्यात् ॥लुक्तद्धितलुकि (SK1408) ॥ प्राच्यां प्राच्याः प्राची वा दिक् प्राक् । उदक् । एवं देशे काले च ॥

Balamanorama

अञ्चेर्लुक् - अञ्चेर्लुक् । प्राच्यामिति । लिङ्गविशिष्टपरिभाषयाऽस्तातेर्लुक् ।

Tattvabodhini

अञ्चेर्लुक् - प्राच्यां प्राच्या इति । प्राच्यादिशि वसति — प्राग्वसति । प्राच्या दिश आगतः प्रागागत इत्यादि योज्यम् ।

Padamanjari

अञ्चत्यन्तेभ्य इति। केवलेभ्यः, लिङ्गविशिष्टेभ्यश्च। स्रीप्रत्ययोऽपि निवर्तत इति। एवं चाकारलोपः,’चौ’ इति दीर्घत्वं च नास्तीति, प्रागित्यत्र सवर्णदीर्घत्वम्, प्रत्यगित्यत्र यणादेशः ॥

Prakriyasarvasvam

अञ्चत्यन्तेभ्यो दिक्शब्देभ्योऽस्तातेर्लुक् स्यात् । प्राप्यां दिशीत्यादौ प्रागित्येव। अत्र तद्धितलुकि स्त्रीप्रत्ययस्यापि लुक् । एवमवाक्, उदक् । प्रत्यक् ।।

Sutra Prayogas

  • प्रत्यगियाय (भट्टिकाव्यम्): अचेर्लुक् इति भसंज्ञाभावात् अचः।