53034: उत्तराधरदक्षिणादातिः

Padacheda: उत्तर-अधर-दक्षिणात् | S | 5 | 1 |

आतिः | S | 1 | 1 |

Sutrartha

‘उत्तर’, ‘अधर’ तथा ‘दक्षिण’ एते शब्दाः यदा ‘दिशा’, ‘स्थान’ उत ‘काल’ एतेषु अर्थेषु प्रयुज्यन्ते, तदा तेषाम् सप्तम्यन्तेभ्यः, पञ्चम्यन्तेभ्यः तथा च प्रथमान्तेभ्यः रूपेभ्यः ‘आति’ इति प्रत्ययः स्वार्थे विधीयते ।

‘दिशा’, ‘देश’, तथा ‘काल’ इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः (5.3.27) इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण ‘अस्ताति’ प्रत्यये प्राप्ते तस्य अपवादस्वरूपेण ‘उत्तर’, ‘अधर’ तथा ‘दक्षिण’ एतेभ्यः शब्देभ्यः वर्तमानसूत्रेण ‘आति’ प्रत्ययः विधीयते । अस्मिन् प्रत्यये तकारोत्तरः इकारः उच्चारणार्थः अस्ति, अतः तस्य लोपः भवति । यथा - 1. उत्तरस्याम् दिशि / उत्तरस्मिन् देशे / उत्तरस्मिन् काले / उत्तरस्याः दिशः / उत्तरस्मात् देशात् / उत्तरस्मात् कालात् / उत्तरा दिक् / उत्तरः देशः / उत्तरः कालः = उत्तर + आति [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → उत्तर + आत् → उत्तर् + आत् [यस्येति च (6.4.148) इति अकारलोपः] → उत्तरात् 2. अधरस्याम् दिशि / अधरस्मिन् देशे / अधरस्मिन् काले / अधरस्याः दिशः / अधरस्मात् देशात् / अधरस्मात् कालात् / अधरा दिक् / अधरः देशः / अधरः कालः = अधर + आति [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → अधर + आत् → अधर् + आत् [यस्येति च (6.4.148) इति अकारलोपः] → अधरात् 3. दक्षिणस्याम् दिशि / दक्षिणे देशे / दक्षिणस्याः दिशः / दक्षिणात् देशात् / दक्षिणा दिक् / दक्षिणः देशः = दक्षिण + आति [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → दक्षिण + आत् → दक्षिण् + आत् [यस्येति च (6.4.148) इति अकारलोपः] → दक्षिणात् विशेषः - ‘दक्षिण’ शब्दः ‘काल’ अस्मिन् अर्थे न प्रयुज्यते, अतः तस्य उदाहरणानि न लभन्ते । अनेन प्रकारेण ‘उत्तरात्’, ‘अधरात्’, ‘दक्षिणात्’ एते शब्दाः सिद्ध्यन्ति । एतेषामव्ययसंज्ञा भवति । ज्ञातव्यम् - 1. अत्र प्राप्ताः ‘उत्तरात्’, ‘अधरात्’, ‘दक्षिणात्’ - एते शब्दाः तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञकाः भवन्ति । यद्यपि एते ‘पञ्चम्यन्त’रूपवत् दृश्यन्ते, तथापि एते भिन्नाः शब्दाः इति ज्ञेयम् । यथा - ‘दक्षिणात् वसति’, ‘दक्षिणात् दिक्’, ‘दक्षिणात् आगतः’ - एते त्रयः अपि प्रयोगाः साधवः एव । 2. दक्षिणोत्तराभ्यामतसुच् (5.3.28) इत्यनेन ‘दक्षिण’ तथा ‘उत्तर’ एताभ्याम् शब्दाभ्याम् ‘अतसुच्’ इति प्रत्ययः अपि अस्मिन्नेव सन्दर्भे उक्तः अस्ति ।

Vasu English Summary

The affix अति is added to the words 1. उत्तर and 2. दक्षिण in the sense of अस्ताति।

Vasu English Translation

The affix अति is added to the words 1. उत्तर and 2. दक्षिण in the sense of अस्ताति। Thus उत्तरस्यां दिशि वसति = उत्तराद्वसति; उत्तरादागतः, उत्तराद्रमणीयम् ॥ Similarly अधरात् and दक्षिणात् ॥

Kashika

उत्तराधरदक्षिणशब्देभ्य आतिः प्रत्ययो भवत्यस्तातेरर्थे। उत्तरस्यां दिशि वसति उत्तराद् वसति। उत्तरादागतः। उत्तराद् रमणीयम्। अधराद् वसति। अधरादागतः। अधराद् रमणीयम्। दक्षिणाद् वसति। दक्षिणादागतः। दक्षिणाद् रमणीयम्॥

Siddhanta Kaumudi

उत्तरात् । अधरात् । दक्षिणात् ॥

Balamanorama

उत्तराधरदक्षिणादातिः - उत्तराधर । आतिप्रत्यये इकार उच्चारणार्थः । अस्तातेरपवादः ।

Padamanjari

आतिप्रत्ययो भवतीति। दक्षिणोतराभ्यामतसुजपि भवति, अधरशब्दादस्तातिरपि; ठस्ताति चऽ इत्यधरशब्दस्याधादेशविधानाल्लिङ्गात्। अत्र चोतरादीनां सप्तम्यादीनां च साम्ये सत्यपि पूर्ववद्यथासंख्याभावः। अस्तादिस्तूतरादीनां न सम्भवति, दक्षिणशब्दस्य काले वृत्यसम्भवात् ॥

Nyaas

उत्तरदक्षिणाभ्यां दक्षिणोत्तराभ्यामतसुच् (5.3.28) एनबन्यतरस्यामदूरेऽपञ्चम्याः (5.3.35) , दक्षिणादाच् (5.3.36) , आहि च दूरे (5.3.37) , उत्तराच्च (5.3.38) इत्येभिर्योगैरतसुजादिषु प्राप्तेष्वधरादप्यस्तातावातिर्विधीयते, तस्यास्तातिर्बाध्यत एव। अतसुजादयस्तु वचनात्पक्षे भवन्त्येव। अत्र च यद्यप्युत्तरादीनां सप्तम्यादीनां च विभक्तीनां दिगादीनां चोपाधीनां त्रित्वम्, तथापि यथासंख्यं न भवति। कुतः? तदर्थस्य स्वरितत्वस्याप्रतिज्ञानात्। लध्वक्षरस्याधरशब्दस्यापूर्वनिपाताल्लक्षणव्यभिचारचिह्नाद्वाऽस्य लक्षणान्तरनिरपेक्षतां दर्शयन्? यथासंख्यलक्षणमिह नापेक्ष्यत इति सूचयति। तेन विभक्तिभिस्तावद्यथासंख्यं न भवति। उपाधिभिस्तु दक्षिणशब्दस्य काले वृत्त्यसम्भवाच्च॥

Prakriyasarvasvam

एभ्योऽस्तात्यर्थे आतिः स्यात् । उत्तराद् वसतीत्यादि ।।