53025: किमश्च¶
Padacheda: किमः | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘किम्’ सर्वनामशब्दात् प्रकारवचने अभिधेये स्वार्थे थमु-प्रत्ययः विधीयते ।
‘किम्’ इति सर्वनामसंज्ञकः शब्दः । अस्मात् शब्दात् ‘प्रकारवचने’ वाच्ये प्रकारवचने थाल् (5.3.23) इत्यनेन स्वार्थे थाल्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण ‘थमु’ इति प्रत्ययः उच्यते । अस्मिन् प्रत्यये उकारः उच्चारणार्थः अस्ति, अतः प्रक्रियायाम् तस्य लोपः विधीयते ; प्रयोगे ‘थम्’ इत्येव दृश्यते । प्रक्रिया इयम् - केन प्रकारेण इत्येव = केन + थमु [विवक्षया अत्र तृतीयान्तात् प्रत्ययः भवति ।] → केन + थम् [उकारस्य लोपः] → किम् + थम् [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → क + थम् [किमः कः (7.2.103) इति किम्-शब्दस्य ‘क’ आदेशः ।] → कथम् एतादृशं ‘केन प्रकारेण’ इत्यस्मिन् अर्थे ‘कथम्’ इति शब्दः सिद्ध्यति । तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अस्य अव्ययसंज्ञा अपि जायते ।
Vasu English Summary¶
Also after किम् comes the affix थमु in the sense of denoting a manner.
Vasu English Translation¶
Also after किम् comes the affix थमु in the sense of denoting a manner. Thus केन प्रकारेण = कथम् ‘how?’.
Kashika¶
किंशब्दात् प्रकारवचने थमुः प्रत्ययो भवति। केन प्रकारेण कथम्। योगविभाग उत्तरार्थः॥
Siddhanta Kaumudi¶
केन प्रकारेण कथम् ॥
Laghu Siddhanta Kaumudi¶
केन प्रकारेण कथम् ॥ इति प्राग्दिशीयाः ॥ १४ ॥
Balamanorama¶
किमश्च - किमश्च ।प्रकारवृत्तेस्थमु॑रिति शेषः । कथमिति । ‘किमः कः’ इति कादेशः । **** इति बालमनोरमायाम् प्राग्दिशीयानां विभक्तिसंज्ञकानां पूर्णोऽवधिः । ****अथ प्रागिवीयाः । — — — — -
Tattvabodhini¶
किमश्च - किमश्च । योगविबागःथा हेतौ च छन्दसी॑त्युत्तरसूत्रे किम एवानुवृत्तिर्यथा स्यादिदमो मा भूदिति । इति तत्त्वबोधिन्याम प्राग्दिशीयानां पूर्णोऽवधिः ।
Padamanjari¶
योगविभागा उतरत्र किम एवानुवृत्तिर्यथा स्यादिदमो मा भूदिति॥
Nyaas¶
योगविभाग उत्तरार्थः इति। था हेतौ च (5.3.26) इति वक्ष्यति, स किम एव यथा स्यात्, इदमो मा भूदिति॥
Prakriyasarvasvam¶
कथम् ॥