Sutras 101 - 120¶
- 52101: प्रज्ञाश्रद्धार्चाभ्यो णः
- 52102: तपःसहस्राभ्यां विनीनी
- 52103: अण् च
- 52104: सिकताशर्कराभ्यां च
- 52105: देशे लुबिलचौ च
- 52106: दन्त उन्नत उरच्
- 52107: ऊषसुषिमुष्कमधो रः
- 52108: द्युद्रुभ्यां मः
- 52109: केशाद्वोऽन्यतरस्याम्
- 52110: गाण्ड्यजगात् संज्ञायाम्
- 52111: काण्डाण्डादीरन्नीरचौ
- 52112: रजःकृष्यासुतिपरिषदो वलच्
- 52113: दन्तशिखात् संज्ञायाम्
- 52114: ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः
- 52115: अत इनिठनौ
- 52116: व्रीह्यादिभ्यश्च
- 52117: तुन्दादिभ्य इलच् च
- 52118: एकगोपूर्वाट्ठञ् नित्यम्
- 52119: शतसहस्रान्ताच्च निष्कात्
- 52120: रूपादाहतप्रशंसयोर्यप्