52102: तपःसहस्राभ्यां विनीनी¶
Padacheda: तपः-सहस्राभ्याम् | S | 5 | 2 |
विनि-इनी | S | 1 | 2 |
Sutrartha¶
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः प्रथमासमर्थाभ्याम् ‘तपस्’ तथा ‘सहस्र’ शब्दाभ्याम् यथासङ्ख्यम् ‘विनि’ तथा ‘इनि’ प्रत्ययौ भवतः ।
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण मतुँप्-प्रत्ययः उच्यते । अस्य अपवादरूपेण ‘तपस्’ तथा ‘सहस्र’ एताभ्यां शब्दाभ्याम् यथासङ्ख्यम् ‘विनि’ तथा ‘इनि’ एतौ प्रत्ययौ भवतः । यथा - 1. तपः अस्य अस्मिन् वा अस्ति सः तपस्वी । अत्र तपस् + विन् → तपस्विन् इति प्रातिपदिकम् । विशेषः - अस्मायामेधास्रजो विनिः (5.2.121) इत्यनेन सर्वेभ्यः ‘असन्त’शब्देभ्यः ‘विनि’ प्रत्ययविधानम् भवति । तपस्-शब्दः ‘असन्तः’ (= ‘अस्’ यस्य अन्ते विद्यते सः) अस्ति, अतः अस्मायामेधास्रजो विनिः (5.2.121) इत्यनेन तपस्-शब्दात् अपि विनि-प्रत्ययः भवितुमर्हति । अस्यां स्थितौ वर्तमानसूत्रेण पुनः विनि-प्रत्ययः किमर्थमुक्तः अस्तीति प्रश्नः उपतिष्ठति । अस्य उत्तरार्थम् काशिकाकारः वदति - ‘अणा वक्ष्यमाणेन बाधा मा भूत्’ । इत्युक्ते, अण् च (5.2.103) इत्यनेन अग्रिमसूत्रेण ‘तपस्’ शब्दात् अण्-प्रत्ययः उच्यते, सः अण्-प्रत्ययः अस्मायामेधास्रजो विनिः (5.2.121) इत्यनेन प्राप्तम् विनि-प्रत्ययम् विशिष्टत्वात् बाधते । अतः तपस्-शब्दात् विनि-प्रत्ययस्य पुनर्विधानम् कर्तुमस्मिन् सूत्रे ‘विनि’ प्रत्ययः विशिष्टरूपेण प्रोक्तः अस्ति । 2. सहस्रमस्य अस्मिन् वा अस्ति सः सहस्री । अत्र सहस्र + इन् → सहस्रिन् इति प्रातिपदिकम् । विशेषः - अत इनिठनौ (5.2.115) अनेन सूत्रेण सर्वेभ्यः अदन्तशब्देभ्यः मतुबर्थयोः ‘इनि’ तथा ‘ठन्’ एतौ प्रत्ययौ भवतः । अस्यां स्थितौ सहस्र-शब्दात् अस्मिन् सूत्रे विशिष्टरूपेण ‘इनि’ प्रत्ययविधानम् ‘ठन्’प्रत्ययस्य बाधनार्थमस्ति । अतः सहस्र-शब्दात् मतुबर्थयोः केवलम् इनि-प्रत्ययः भवति, ठन् न । तथा च, ‘तपस्’ शब्दवत् ‘सहस्र’ शब्दस्य विषये अपि अग्रिमसूत्रे पाठितः अण्-प्रत्ययः अपि भवत्येव । विशेषः - 1. ‘विनि’ तथा ‘इनि’ उभयत्र नकारोत्तरः इकारः ‘नकारस्य इत्संज्ञा मा भूत्’, इति ज्ञापयितुम् स्थापितः अस्ति । 2. विनि-प्रत्ययान्तशब्दाः तथा च इनि-प्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते ऋन्नेभ्यो ङीप् (4.1.5) इत्यनेन ङीप्-प्रत्ययं स्वीकुर्वन्ति । यथा - तपस्विनी, सहस्रिणी ।
Vasu English Summary¶
The affixes विनि and इनि come with the force of मतुप् after the words तपस् and सहर respectively.
Vasu English Translation¶
The affixes विनि and इनि come with the force of मतुप् after the words तपस् and सहर respectively. The word तपस् ends in अस्, and therefore by (5.2.121), it would have taken विनि; similarly सहस्र ends in अ, and by (5.2.115), it would have taken इनि; it may, therefore, be objected, where is the necessity for the present sutra? To this it is replied, that by the next sutra, these words take the affix अण् also; so that, had there not been this present sutra, the अण् would have debarred the application of इनि and विनि of (5.2.115) and (5.2.121). The affix ठन् (5.1.115) is also debarred after the word सहस्र, though it ends in अ ॥
Thus तपोऽस्यास्मिन् वा विद्यते = तपस्विन् nom. तपस्वी ॥ Similarly सहस्रिन् nom. सहस्रा ॥
Bhashya¶
तपः सहस्राभ्यां विनीनी (2120)
Kashika¶
तपःसहस्रशब्दाभ्यां विनि इनि इत्येतौ प्रत्ययौ भवतो मत्वर्थे। प्रत्ययार्थयोस्तु यथासंख्यं सर्वत्रैवास्मिन् प्रकरणे नेष्यते। तपोऽस्यास्मिन् वा विद्यते तपस्वी। सहस्री। असन्तत्वाददन्तत्वात् च सिद्धे प्रत्यये पुनर्वचनमणा वक्ष्यमाणेन बाधा मा भूदिति। सहस्रात् तु ठनपि बाध्यते॥
Siddhanta Kaumudi¶
विनीन्योरिकारो नकारपरित्राणार्थः । तपस्वी । सहस्री । असन्तत्वाददन्तत्वाच्च सिद्धे पुनर्वचनमणा बाधा माभूदिति । सहस्रात्तु ठनोऽपि बाधनार्थम् ॥
Balamanorama¶
तपःसहस्राभ्यां विनीनी - तपः सहरुआआभ्यां । विनिश्च इनिश्चेति द्वन्द्वः । ‘मत्वर्थे’ इति शेषः । यथासंख्यमन्वयः । विनिप्रत्यये इनि प्रत्यये च नकारादिकारौ उच्चारणार्थौ । ननु नकारयोरित्संज्ञा कुतो न स्यात् । नच प्रयोजनाऽभावः, नित्स्वरस्यैव फलत्वादित्यत आह — नकारपरित्राणार्थ इति । तथा च उपदेशे अन्त्यत्वाऽभावान्नेत्संज्ञेचि भावः । यद्यपिअस्मायामेधे॑त्यसन्तत्वादेव तपःशब्दाद्विन्सिद्धः, सहरुआशब्दात्तु ‘अत इनिठनौ’ इत्येवेन्सिद्धस्ततथापि विशिष्य उत्तरसूत्रविहितेन अणा असन्ताऽदन्तलक्षणयोर्विनीन्योः सामान्यलिगितयोर्बाधो मा भूदिति विशिष्येह तपःसहरुआशब्दाभ्यां तयोर्विधानम् । सहरुआशब्दात्तु अदन्तलक्षणठनोऽपि बाधनार्थमिह इन्विधानम् । एतत्समाधानं क्वचिन्मूलपुस्तकेषु दृश्यते ।
Tattvabodhini¶
तपःसहस्राभ्यां विनीनी - तपस्वी । सहरुआईति ।असन्तत्वाददन्तत्वाच्च सिद्धे पुनर्वचनमणा बाधा माभूदिति । सहरुआआत्तु ठनोऽपि बादनार्थम् । एतच्च समाधानं मूलपुस्तकेष्वपि क्वचिद्दृश्यते ।
Padamanjari¶
विनीन्योरिकारः - नकारस्येत्संज्ञा मा भूदिति। केचितु विनीनावितीकाराकारौ पठन्ति, नकारान्तपाठे त्वित्संज्ञा प्राप्नोति। प्रत्ययार्थयोस्त्वित्यादि। यथा त्वनिष्यमाणमपि यथासंख्यं न भवति तथा पूर्वमेवोक्तम्। असन्तत्वादित्यादि। तपः शब्दाद् ठस्मायामेधाऽ इत्यादिना विनिप्रत्यये सिद्धे सहस्रशब्दादपि ठत इनिठनौऽ इतीनिप्रत्यये सिद्धे, यत्पुनरिदं विधानं तद्वक्ष्यमाणेनाणा बाधा मा भूदित्येवमर्थम्। अणेति। हेतौ तृतीया। कर्तरि तु कृद्योगलक्षणा षष्ठी न प्राप्नोति, उभयप्राप्तौ कर्मण्येवेति नियमात् तृतीया भविष्यति, विनीन्योर्बाधा मा भूदिति कर्मणोऽपि गम्यमानत्वात्, यथा-ठ् येनादर्शनमिच्छतिऽ इति ? नैतदस्ति, अकाकारयोः प्रयोगे नियमस्य प्रतिषेधात्, तस्माद्धेतावेव तृतीया। घञ्न्तो वा बाधशब्दः पठनीयः। सहस्रशब्दादट्ठनपि बाध्यत इति। बाधा तु ठन इनणोः प्रतिपदविधानात् ॥
Nyaas¶
अत्र सूत्रे द्वे प्रकृती उपात्ते, प्रत्ययार्थावपि द्वावेव प्रकृतावनुवर्तेते। तथा च वत्सांसाभ्यां कामबले (5.2.98) सिकताशर्कराभ्यां च (5.2.104) इत्येवमादिष्वपि केषुचिद्योगेषु यथासंख्येन भवितव्यमिति यो मन्यते, तं प्रत्याह - प्रत्ययार्थयोस्तु इति। कस्मात्? पुनरिष्यमाणमपि न भवति? वत्सांसाभ्यां कामबले (5.2.98) इत्यत्रांशशब्दस्य परनिपाताल्लक्षमव्यभिचारचिह्यात्। अंसशब्दस्य हि अजाद्यदन्तम् (2.2.33) इति पूर्वनिपाते बलशब्दस्यापि लध्वक्षरं पूर्वं निपतति (वा। 108) इत्यस्मिन्? प्राप्ते योऽयं परनिपातः स लक्षणान्तरनिरपेक्षतां दर्शयन्निह मतुप्प्रकारणे यथासंख्यं लक्षणस्य व्यभिचारयति। तेन प्रत्ययर्थयोः सर्वत्र मतुप्प्रकरणे यथासंख्यं न भवति। प्रकरण इत्येतत्? कुतः? प्रकरणापेक्षत्वाल्लक्षणव्यभिचारचिह्नस्य। एतदपि कुतः? व्याख्यानात्। द्वयोर्लक्षणव्यभिचारचिह्नयोरुपादानाद्वा योगापेक्षतायां त्वन्यतरस्यैवोपादानं कुर्यात्। असन्तत्वात् इति। तपःशब्दादसन्तत्वात्? अस्मायामेधास्रजो विनिः (5.2.121) इत्येवमादिना विनिप्रत्यये सिद्धे सहरुआशब्दाच्चाकारान्तत्वात् अत इनिठनौ (5.2.115) इतीनिप्रत्यये सिद्धे, पुनरिवं विधानं वक्ष्यमाणेनाणा बाधा मा भूदित्येवमर्थम्। सहरुआआत्तु इत्यादि। अत इनिठनौ (5.2.115) इति ठन्नपि प्राप्नोति, सोऽपि बाध्यते। एतन सहरुआशब्दात्? ठनो बाधानमिति पुनर्वचनमिति दर्शयति॥
Prakriyasarvasvam¶
तपस्वी सहस्री ।
Sutra Prayogas¶
तपस्विनः (रघुवंशम्): तपःसहस्राभ्यां विनीनी इति विनिप्रत्ययः।
तापसे (भट्टिकाव्यम्): तपः - सहस्राभ्यां विनीनी इति अण् च।