52113: दन्तशिखात् संज्ञायाम्¶
Padacheda: दन्त-शिखात् | S | 5 | 1 |
संज्ञायाम् | S | 7 | 1 |
Sutrartha¶
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः ‘दन्त’ तथा ‘शिखा’ एताभ्यां प्रथमासमर्थाभ्याम् शब्दाभ्याम् संज्ञायाम् गम्यमानायाम् ‘वलच्’ प्रत्ययः भवति ।
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण ‘दन्त’ तथा ‘शिखा’ शब्दाभ्याम् संज्ञायाः निर्देशे कर्तव्ये अनेन सूत्रेण वलच्-प्रत्ययः भवति । यथा - 1. दन्ताः अस्य अस्मिन् वा सन्ति = दन्त + वलच् → दन्तावल । यथा - दन्तावलः गजः । अत्र वले (6.3.118) इति दीर्घादेशः भवति । 2. शिखा अस्य अस्मिन् वा अस्ति = शिखा + वलच् → शिखावल । यथा - शिखावलः मयूरः । स्मर्तव्यम् - ‘शिखा’ शब्दात् शिखाया वलच् (4.2.89) इत्यनेन चातुर्थिकप्रकरणे अपि वलच्-प्रत्ययः भवति, परन्तु तत्र देशस्य निर्देशः क्रियते (यथा - शिखा अस्मिन् देशे अस्ति सः शिखावलः देशः) । अत्र निर्दिष्टः ‘शिखावल’ शब्दः देशभिन्नस्य निर्देशं करोति ।
Vasu English Summary¶
The affix वलच् comes in the sense of मतुप् after 1. दन्त and 2. शिखा when a Name is formed.
Vasu English Translation¶
The affix वलच् comes in the sense of मतुप् after 1. दन्त and 2. शिखा when a Name is formed. Thus दन्तावलः सैन्यः, दन्तावलो गजः, शिखावलं नगरम्, शिखावलो स्थूणा ॥ The final vowel of दन्त is lengthened before वल by (6.3.118).
Kashika¶
दन्तशिखाशब्दाभ्यां वलच् प्रत्ययो भवति मत्वर्थे संज्ञायां विषये। दन्तावलः सैन्यः। दन्तावलो गजः। शिखावलं नगरम्। शिखावला स्थूणा॥
Siddhanta Kaumudi¶
दन्तावलो हस्ती । शिखावलः केकी ॥
Balamanorama¶
ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्- मलिनमलीमसाः - ज्योत्स्ना । ज्योतिष इति । ज्योत्स्नावयवाः=ज्योतीषि, तान्यस्यां सन्तीति विग्रहे ज्योतिष्शब्दान्नप्रत्ययः, उपधाभूतस्य इकारस्य लोपश्च निपात्यते । सति च इकारस्य लोपे इणः परत्वाऽभावात्षत्वनिवृत्तौ ज्योत्स्नेति रूपम् ।चन्द्रिका कौमुदी ज्योत्स्ने॑त्यमरः । तमस इति । तमोऽस्यास्तीति विग्रहे तमस्मशब्दात् रक्प्रत्ययाः । उपधाभूतस्य मकारादकारस्य इत्वं च निपात्यत इत्यर्थः ।तमिरुआआ तामसी रात्रि॑रित्यमरः । ननुतमिरुओ॑ति स्त्रीलिङ्गनिसर्देशात्तमिरुआं गृहमिति कथमित्यत आह — स्त्रीत्वमतन्त्रमिति । शृङ्गादिनजिति । ‘निपात्यते’ इति शेषः । शृङ्गिण इति । शृङ्गमस्यास्तीति विग्रहः । इनचि णत्वम् । ऊर्जसो वलजिति । ‘निपात्यते’ इति शेषः । ऊर्जसित्यसुन्नन्तं प्रातिपदिकम् । ननुअस्मायामेधे॑ति लिनिना सिद्धेरूर्जस्विन्निति भूदित्येतदर्थं विनो निपातनमित्यर्थः । ऊर्ज इति । ऊर्जशब्दाद्वलचि प्रकृतेरसुगागम इति वृत्तिग्रन्थोऽनुपपन्न इत्यर्थः । कुत इत्यत आह — ऊर्जस्वतीरितिवदिति । ऊर्जस्वतीरित्यत्र बलप्रत्ययाऽभावेन तत्सन्नियोगशिष्टस्य असुगागमस्याऽप्रसक्तेस्तत्र ऊर्जसित्यसुन्नन्तं प्रातिपदिकमवयश्यमभ्युपेयम् । तेनैव ऊर्जस्विन्नूर्जस्वलयोर्विनिवलज्मात्रनिपातनोपपत्तेरित्यर्थः । ईमसच्चेति । मलशब्दान्निपात्यत इति शेषः ।
Tattvabodhini¶
ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्- मलिनमलीमसाः - ज्योत्स्ना=चन्द्रप्रभा । तत्रावयवीभूतं ज्योतिरस्तीति मत्वर्थीयोपपत्तिः । एतेन तमःसमूहे तमिरुआआशब्दो व्याख्यातः । निघन्टुषु तमःपर्यायस्तमिरुआशब्दः पठितः । तत्र समूहसमूहिनोरभेदोपचार इति हरदत्तः । स्त्रीत्वमतन्त्रमिति । व्याख्यानमत्र शरणम् ।ऊर्जस्विन्गोमिन्नि॑त्यत्र नान्तत्वाभिव्यक्तये नलोपो न कृतः ।
Padamanjari¶
दन्तावलःउगजः,’दन्ती दन्तावलो हस्ती’ इत्यमरसिंहः। शिखावलं नगरमिति। ननु देशे’शिखाया वलच्’ इति चातुरर्थिकेनैव सिद्धम्, तच्चावश्यं कर्तव्यम् - निर्वृताद्यर्थम् ? सत्यम्; इहापि सिखाग्रहणमदेशार्थमवश्यं कर्तव्यम्, इहापि यथा स्यात् - शिखावाला स्थूपेति। यद्येवंविधा संज्ञा भवति, तत्र देशे मत्वर्थे परत्वादनेनैव लज्युक्त इति मत्वा शिकावलं नगरमित्युदाहृतम् ॥
Nyaas¶
दन्तशब्दादिनिठनोः प्राप्तयोर्वलज्विधीयते। शिखाशब्दादिनिप्रत्ययो वक्ष्यते व्रीह्यादिभ्यश्च (5.2.116) इत्यत्र शिखादिभ्य इनिर्वाच्यः (म। भा। 2।398) इति। अदेशार्थं शिखाग्रहणम्, शिखावला स्थूणेत्यत्र यथा स्यात्। देशे तु शिखाया वलच् (4.2.89) इत्यनेनैव चातुरर्थिक एव सिद्धः। यद्येवम्, इदमेव वक्तव्यम्, किं तेन? नैतदस्ति; तदपि हि वक्तव्यमेव - निर्वृत्तादिष्वर्थेषु यथा स्यात्। अत्रापि संज्ञाग्रहणं तस्यै वार्थस्यानुवादार्थम्। इतिकरणानुवृर्त्त्यवाभिधेयनियमसिद्धेः॥
Prakriyasarvasvam¶
दन्तावलः, शिखावलः ।