52107: ऊषसुषिमुष्कमधो रः¶
Padacheda: ऊष-सुषि-मुष्क-मधः | S | 5 | 1 |
रः | S | 1 | 1 |
Sutrartha¶
- **’अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः ऊष, सुषि, मुष्क, मध - एतेभ्यः शब्देभ्यः प्रथमासमर्थेभ्यः
‘र’ प्रत्ययः भवति ।**
तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः ‘तस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः औत्सर्गिकरूपेण मतुँप्-प्रत्ययः उच्यते ।अस्य अपवादरूपेण अनेन सूत्रेण ‘ऊष’ (infertile / sterile soil), ‘सुषि’ (hole present in a wooden pipe), ‘मुष्क’ (= large testicle), तथा ‘मधु’ (sweetness) एतेभ्यः शब्देभ्यः ‘र’ इति प्रत्ययः भवति । यथा - 1. ऊषः अस्मिन् अस्ति तत् ऊषरम् क्षेत्रम् । 2. सुषिः यस्मिन् अस्ति तत् सुषिरम् काष्ठम् । 3. मुष्कौ अस्य स्तः सः मुष्करः पशुः । 4. मधु अस्मिन् अस्ति तत् मधुरम् फलम् । विशेषः - अस्य सूत्रस्य प्रयोगः विशिष्टेषु अर्थेषु एव भवतीति व्याख्यानेषु स्पष्टीक्रियते । अतः ‘ऊषः अस्ति अस्मिने घटे’ / ‘सुषिः अस्ति अस्मिन् घटे’ - एतादृशेषु स्थलेषु अस्य सूत्रस्य प्रयोगः न भवति । शिष्टप्रयोगमनुसृत्य एव अस्य सूत्रस्य प्रयोगः करणीयः - इति आशयः । अत्र त्रीणि वार्त्तिकानि ज्ञेयानि - 1. <!र-प्रकरणे ख-मुख-कुञ्जेभ्यः उपसङ्ख्यानम्!> । इत्युक्ते, ‘ख’, ‘मुख’ तथा ‘कुञ्ज’ शब्देभ्यः अपि मतुबर्थयोः र-प्रत्ययः भवति । यथा - [अ] ख - cavity of the throat (कण्ठविवरम्) अस्मिन् अर्थे अयम् शब्दः प्रयुज्यते । खमस्ति अस्य सः खरः । गर्दभः इत्यर्थः । [आ] मुख - मुखमस्य अस्ति सर्वस्मिन् वक्तव्ये सः मुखरः (वाचालः इत्यर्थः) । अत्र ‘सर्वस्मिन् वक्तव्ये’ इति सन्दर्भे एव प्रत्ययविधानम् भवति । The one who has to say something in every discussion / talkative / noisy इति अर्थः । [इ] कुञ्ज - हस्तिनः दन्तौ, हनु वा ‘कुञ्ज’ नाम्ना ज्ञायते (The jaw / teeth of an elephant) । कुञ्जौ स्तः अस्य सः कुञ्जरः गजः । अत्र विग्रहवाक्ये द्विवचनस्य प्रयोगः भवति, यतः ‘हनु’ तथा ‘दन्त’ उभयोः सङ्ख्या ‘द्वौ’ एव अस्ति । 2. <!नगपांसुपाण्डुभ्यश्चेति वक्तव्यम्!> । इत्युक्ते, नग, पांसु, पाण्डु - एतेभ्यः शब्देभ्यः अपि मतुबर्थयोः र-प्रत्ययः भवति । यथा - [अ] नगाः (= पर्वताः) सन्ति अस्मिन् तत् नगरम् । [आ] पांसु (dung / manure) अस्ति अस्मिन् तत् पांसुरम् । [इ] पाण्डु (शुक्लत्वम्, brightness / whiteness) अस्ति अस्मिन् तत् पाण्डुरः । 3. <!कच्छ्वा ह्रस्वत्वं च!> । इत्युक्ते ‘कच्छू’ शब्दात् मतुबर्थयोः र-प्रत्ययः भवति, तथा च अस्य शब्दस्य ह्रस्वादेशः अपि विधीयते । यथा - कच्छू (itch) अस्ति यस्मिन् सः कच्छुरः ।
Vasu English Summary¶
The affix र comes after the words 1. ऊष 2. सुषि 3. मुष्क and 4. मधु with the force of मतुप्।
Vasu English Translation¶
The affix र comes after the words 1. ऊष 2. सुषि 3. मुष्क and 4. मधु with the force of मतुप्। Thus ऊषरं क्षेत्रम् ‘a barren soil, impregnated with usha or salt’. सुषिरं काष्ठं ‘a perforated wood i. e. containing सुषि or hole’. मुष्करः वशुः ‘a beast having testicles or mushka’. मधुरो गुडः ‘sweet sugar’. The word इति shows that the words formed with र are names of certain things. Therefore it will not apply here ऊषोऽस्मिन् घटे विद्यते ‘there is salt in this pot’, we cannot say ऊषरो घटः, nor मधुरो घटः for मध्वस्मिन् घटे विद्यते ॥
Vart:- The affix र comes after ख, मुख and कुञ्ज, as खमस्यास्ति कण्डविवरं महत् = खरः ‘an ass, lit. having a wide throat’. मुखमस्यास्ति इति सर्वस्मिन् वक्तव्ये = मुखरः ‘talkative’, कुञ्जावस्य स्तः = कुञ्जरः ‘an elephant having tusks’. The word कुञ्ज means the tusk of an elephant or the lower jaw of an elephant. The word कुञ्जर is a common name for all elephants.
Vart:- The affix र comes after नग, पांसु and पाण्डु, as नगरम् ‘a city, lit. having trees (naga = tree)’, पांसुरम्, पाण्डुरम् ॥
Vart:- So also after कच्छू, the vowel being shortened: as कच्छुरम् ॥
Bhashya¶
ऊषसुषिमुष्कमधो रः (2125) (रप्रत्ययाधिकरणम्) (मधुशब्दप्रत्यायकभाष्यम्) अयं मधुशब्दोऽस्त्येव द्रव्यपदार्थकः, अस्ति रसवाची। आतश्च रसवाची अपि, मधुन्येव हि मधु - ःइदम् - मधुरम् इति प्रयुज्यते। तद्यो रसवाची तस्येदं ग्रहणम्॥ यदि हि द्रव्यपदार्थकस्य ग्रहणं स्यादिहापि प्रसज्येत - मधु अस्मिन् घटेऽस्ति॥ (5772 उपसंख्यानवार्तिकम्॥ 1 ॥) - रप्रकरणे खमुखकुञ्ञ्जेभ्य उपसंख्यानम् - (भाष्यम्) रप्रकरणे खमुखकुञ्ञ्जेभ्य उपसंख्यानं कर्तव्यम्। खरः। मुखरः। कुञ्ञ्जरः॥ (5773 उपसंख्यानवार्तिकम्॥ 2 ॥) - नगाच्च - (भाष्यम्) नगाच्चेति वक्तव्यम्। नगरम्॥
Kashika¶
ऊष सुषि मुष्क मधु इत्येतेभ्यो रः प्रत्ययो भवति मत्वर्थे। ऊषरं क्षेत्रम्। सुषिरं काष्ठम्। मुष्करःपशुः। मधुरो गुडः। इतिकरणो विवक्षार्थः सर्वत्राभिधेयनियमं करोति। इह न भवति — ऊषोऽस्मिन् घटे विद्यते, मध्यस्मिन् घटे विद्यत इति॥ रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम्॥ खमस्यास्ति कण्ठविवरं महत् खरः। मुखमस्यास्तीति सर्वस्मिन् वक्तव्ये मुखरः। कुञ्जावस्य स्तः कुञ्जरः। हस्तिहनू कुञ्जशब्देनोच्येते॥ नगपांसुपाण्डुभ्यश्चेति वक्तव्यम्॥ नगरम्। पांसुरम्। पाण्डुरम्॥ कच्छ्वा। ह्रस्वत्वं च॥ कच्छुरम्।
Siddhanta Kaumudi¶
ऊषरः । सुषिरः । मुष्कोऽण्डः, मुष्करः । मधु माधुर्यम्, मधुरः ।<!रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम् !> (वार्तिकम्) ॥ खरः । मुखरः । कुञ्जो हस्तिहनुः, कुञ्जरः ।<!नगपांसुपाण्डुभ्यश्च !> (वार्तिकम्) ॥ नगरम् । पांसुरः । पाण्डुरः । पाण्डुरशब्दस्तु अव्युत्पन्न एव ।<!कच्छ्वा ह्रस्वत्वं च !> (वार्तिकम्) ॥ कच्छुरः ॥
Balamanorama¶
ऊषसुषिमुष्कमधो रः - ऊषसुषि । ऊष, सुषि, मुष्क, मधु-एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । सोत्रं पुंस्त्वम् । एभ्यो मत्वर्थे रप्रत्ययः स्यादित्यर्थः । ऊषर इति । ऊषः क्षारमृत्तिकाविशेषोऽस्यास्तीति विग्रहः । सुषिर इति । सुषिः=बिलम्,-अस्यास्तीति विग्रहः । मधुशब्दः क्षोद्रे द्रव्ये, माधुर्यात्मकरसविशेषे च गुणे वर्तते । तत्र रसविशेषवाचिन एवात्र ग्रहणमित्याह — मधुमाधुर्यमिति । तथा भाष्यादिति भावः । अन्यथा मधुद्रव्यवति घटेऽपि मधुरपदप्रयोगः स्यात् । खरो गर्दभः, धिष्णयो वा । मुखरः=शभ्दं कुर्वन् । कुञ्जरो-हल्ती । रूढशब्दा एते । नगपांस्विति । वार्तिकमिदम् ।नगर॑मिति जातिविशेषवाची । अत एव नगरीति ङीष् । पांसुर इति । पांसुरस्यास्तीति विग्रहः । पाण्डुर इति । पाण्डुः=शुक्लवर्णः, स अस्यास्तीति विग्रहः । कथं पाण्डरशब्द इत्यत आह — पाण्डरशब्दस्त्विति ।हरिणः पाण्डरः पाण्डु॑रित्यमरः । कच्छ्वा इति । वार्तिकमिदम् । कच्छूशब्दाप्र्रत्ययः, प्रकृतेह्र्यस्वश्च अन्तादेश इत्यर्थः । कच्छुरः — शुनां रोगविशेषः ।
Tattvabodhini¶
ऊषसुषिमुष्कमधो रः - ऊषुसुषि । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् ।स्यादूषः क्षार मृत्तिका॑ ।ऊषवानूषरः॑इत्यमरः । सुषिस्छिद्रम् ।रप्रकरणे खमुखकुञ्जेभ्य उपसङ्ख्यानम् । खर इति । महत्कण्ठविवरं खं, तद्वानित्यर्थः । गर्दभे रूढोऽयम् । मुखरो वाचाल इति हरदत्तः ।नगपांसुपाण्डुभ्यश्च । नगरमिति । नगा वृक्षाः, पर्वताश्च । जातिशब्दोऽयम् । तथा चनगरी॑त्यत्र ङीष् भवति । नगशब्दोऽयमश्मादिषु पठते इति वुञ्छणादिसूत्रेणास्य सिद्धत्वादस्माद्रोऽयं न वक्तव्य इति हरदत्तः । पाण्डुर इति । पाण्डुः शुक्लो वर्णस्तद्वान् । अव्युत्पन्न एवेति । गुणमात्रे गुणिनि च वर्तते ।हरिणः पाण्डरः पाण्डुः॑इत्यमरः ।गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वती॑ति च ।कच्छ्वा ह्रस्वत्वं च । कच्छ्वा इति । कच्छूस्त्वग्रोगविशेषः ।
Padamanjari¶
समाहारद्वन्द्वे सौत्रः पुल्लिङ्ग निर्देशः। सुषिमधुभ्यां मतुपि प्रापर्ते इतराभ्यामिनिठनोश्च रो विधीयते। ऊषाःउहरिणपांसवः, सुषिःउच्छिद्रम्, मुष्कौउअण्कडौ। मधूमाधुर्याख्यो रसविशेषः, न माक्षिकं माध्वीकं वा; अनभिधानात्। एवं च मध्विदं मधुरमिति मधुन्यपि प्रयोगोपपतिः। इह च न भवति - मध्वस्मिन् घटो विद्यत इति। रप्रकरण इति। प्रकरणमुप्रस्तावः। कण्ठविवरं महदिति। गर्दभे व्युत्पत्तिं दर्शयति। तैक्षण्ये त्वव्युत्पन्नः खरशब्दः। मुखरःउवाचाल; तस्य हि सर्वस्मिन्वक्तव्ये मुखमस्ति; वक्तव्यावक्तव्यविवेकाभावात्। मुखमुवागिन्द्रियम्। हस्तिहनुः कुञ्जशब्देनोच्यत इति। वृत्तिविषये। एतच्च सम्भवन्नवयवार्थः किमिति त्यज्यत इत्यभिप्रायेणोक्तम्। जातिशब्दस्तु कुञ्जरशब्दो हस्तिशब्दवत्। नगरमिति। नगाःउवृक्षाः, पर्वताश्च। अयमपि जातिशब्द एव, तथा चनगरी, जातिलक्षणो ङीष् भवति। नगशब्दोऽयमश्मादिषु पठ।ल्ते इति वुञ्च्छणादिशूत्रेणास्य सिद्धत्वात्, तस्माद्रो न वक्तव्यः। पाण्डुरमिति। पाण्डुःउशुक्लो वर्णः, तद्वत्पाण्डुरः। पाण्कडरशब्दस्त्वव्युत्पन्न एव गुणमात्रे गुणिनि च वर्तते ॥
Nyaas¶
यथासम्भवं मतुपीनिठनोश्च प्राप्तयोरूषादिभ्यो रो विधीयते। मधुरः इति। मधुशब्दोऽत्र रसविशेषे वर्तते। रप्रकरणे इत्यादि। उपसंख्यानशब्दः प्रतिपादने वर्तते। तत्रेदं प्रतिपादनम् - देशे लुबिलचौ च (5.2.105) इत्यतश्चकारोऽत्र वर्तते, स चानुक्तसमुच्चयार्थः। तेन मुखप्रभृतिभ्योऽपि रो भवति। नगपाण्डुपांशु [`नगपांशुपाण्डुभ्यः काशिका] इत्यादि। नगपांशुप्रभृतिभ्यश्च रो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु तामेव चकारस्यानुवृत्तिमाश्रित्य कर्तव्यम्॥
Prakriyasarvasvam¶
ऊषरो देशः । रन्ध्रं सुषिः, तद्युक्तं वेण्वादि सुषिरम् । रन्ध्रमात्रे च लक्षणया । <karika> सुषिः सुषिरमित्यादि स्वाम्याद्या प्राङ्मते जगुः । प्राग्देशे हि सकारस्य शकारः पठ्यते क्वचित् ॥ ३३९ ॥ </karika> मुष्करो वृषः । स्थूले च लक्षणया । माधुर्यार्थान्मधोर्मधुरम् । तेन मधुमत्कुसुम- मित्यत्र न’ । ‘खमुखकुञ्जेभ्यश्च’ । खं गलरन्ध्रं महदस्येति खरः । मुखेन वाग् लक्ष्यते तद्भूमवान् मुखरः । कुञ्जौ कुम्भाधोगतौ दंष्ट्रे वा तद्वान् कुञ्जरः । ‘नगपांसुपाण्डुभ्यश्च’ । नगाः प्रासादाः सन्त्यत्रेति नगरं पांसुरं पाण्डुरम् । पाण्डरशब्दस्त्वव्युत्पन्न इति हरः । बन्धुसिन्धुभ्यां च भोजः । बन्धुरः सिन्धुरः । ‘कच्छ्वा ह्रस्वश्च’ (स० ५-२-१५७) । विचर्चिकावान् कच्छुरः । ‘शिखाया ह्रस्वश्च’ इति स्वामी । शिखरम् ।
Vartika¶
रप्रकरणे ख-मुख-कुञ्जेभ्य उपसंख्यानम् ।