52111: काण्डाण्डादीरन्नीरचौ

Padacheda: काण्ड-अण्डात् | S | 5 | 1 |

ईरन्-ईरचौ | S | 1 | 2 |

Sutrartha

‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः प्रथमासमर्थात् ‘काण्ड’शब्दात् ईरन्-प्रत्ययः तथा ‘अण्ड’शब्दात् ईरच्-प्रत्ययः भवति ।

‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण ‘काण्ड’ (stem) शब्दात् ‘ईरन्’ प्रत्ययः तथा ‘अण्ड’ (sphere, egg) अस्य अस्ति’ अस्मात् शब्दात् ‘ईरच्’ प्रत्ययः भवति । अ) काण्डमस्य अस्मिन् वा अस्ति सः = काण्ड + ईरन् → काण्डीरः । आ) अण्डमस्य अस्मिन् वा अस्ति सः = अण्ड + ईरच् → अण्डीरः । विशेषः - 1. ईरन् तथा ईरच् - द्वयोः अपि प्रत्यययोः समानमेव रूपं भवति, परन्तु तत्र स्वरभेदः दृश्यते । ‘ईरन्’ प्रत्ययान्तः ‘काण्डीर’ शब्दः ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन आद्युदात्तः भवति, तथा च ‘ईरच्’ प्रत्ययान्तः ‘अण्डीर’ शब्दः तद्धितस्य (6.1.164) इत्यनेन अन्तोदात्तत्वं प्राप्नोति । 2. अस्मिन् सूत्रे ‘ईरन् + ईरच्’ इत्यत्र ङमो ह्रस्वादचि ङमुण् नित्यम् (8.3.32) इत्यनेन ‘ईरच्’ इत्यस्य ईकारस्य नुट्-आगमः भवति, अतः ‘ईरन्निरच्’ इत्यत्र द्वौ नकारौ श्रूयेते ।

Vasu English Summary

The affixes ईरन् and ईरच् come in the sense of मतुप् after the words 1. काण्ज and 2. अण्ड respectively.

Vasu English Translation

The affixes ईरन् and ईरच् come in the sense of मतुप् after the words 1. काण्ज and 2. अण्ड respectively. Thus का꣡ण्डीरः and अण्डीरः꣡ ॥ Another reading has आण्ड and आण्डीरः ॥

Kashika

काण्ड अण्ड इत्येताभ्यां यथासंख्यमीरन्नीरचौ प्रत्ययौ भवतो मत्वर्थे। काण्डीरः। अण्डीरः॥

Siddhanta Kaumudi

काण्डीरः । आण्डीरः ॥

Balamanorama

काण्डाण्डादीरन्नीरचौ - काण्डाण्डादीरन्नीरचौ । काण्ड, आण्ड-आभ्यां ईरन्, ईरच् इति प्रत्ययौ मत्वर्थे स्त इत्यर्थः ।

Nyaas

इनिठनोरपवादोऽयम्॥

Prakriyasarvasvam

क्रमात् स्तः । काण्डीरः शरवान् दण्डवान् वा । अण्डीरः । आण्डीर इति केचित् । आण्डमण्डमेव । रजस्वला ।

Sutra Prayogas

  • काण्डीरः (भट्टिकाव्यम्): काण्डाण्डादीरनीरचौ इति ईरच्।

  • अनुकामीन-तां (भट्टिकाव्यम्): अवार-पार इत्यादिना खः।