52117: तुन्दादिभ्य इलच् च¶
Padacheda: तुन्दादिभ्यः | S | 5 | 3 |
इलच् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः तुन्दादिगणस्य प्रथमासमर्थेभ्यः शब्देभ्यः इलच्, इनि, ठन् तथा मतुँप् - एते प्रत्ययाः विधीयन्ते ।
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । तुन्दादिगणस्य शब्देभ्यः अस्मिन्नेव अर्थे वर्तमानसूत्रेण ‘इलच्’, ‘इनि’ तथा ‘ठन्’ एते प्रत्ययाः अपि भवन्ति । तुन्दादिगणः अयम् - तुन्द, उदर, पिचण्ड, घट, यव, व्रीहि, स्वाङ्गाद् विवृद्धौ च । यथा - तुन्दम् (tummy / pronounced belly) अस्य अस्ति सः तुन्दिलः तुन्दी, तुन्दिकः तुन्दवान् वा । (अ) तुन्द + इलच् → तुन्दिल । (आ) तुन्द + इनि → तुन्दिन् । (इ) तुन्द + ठक् → तुन्दिक । (ई) तुन्द + मतुँप् → तुन्दवत् एवमेव अन्येषाम् शब्दानामपि चत्वारि रूपाणि भवन्ति । यथा - उदरिलः, उदरी, उदरिकः, उदरवान् - आदयः । विशेषः - अस्मिन् गणे ‘व्रीहि’ शब्दः पाठ्यते । यथा - व्रीहिः अस्य अस्मिन् वा अस्ति सः व्रीहिलः, व्रीही , व्रीहिक, व्रीहिमान् । परन्तु अत्र एकः विषयः चिन्तनीयः । यदि ‘व्रीहि’ इति शब्दः वर्तमानसूत्रे पाठिते तुन्दादिगणे स्वीक्रियते, तर्हि पूर्वसूत्रे व्रीह्यादिभ्यश्च (5.2.116) इत्यत्र अस्य शब्दस्य ग्रहणमनर्थकम् भवति, यतः पूर्वसूत्रेण उक्ताः सर्वे प्रत्ययाः वर्तमानसूत्रेण अपि भवन्त्येव । If the word व्रीहि is to be considered in the current sutra, then there is no reason to consider it in the previous sutra, because all pratyayas given by the previous sutra as also given by this sutra । अतः अस्मिन् सूत्रे पाठितः ‘व्रीहि’ शब्दः पर्यायशब्दानामपि ग्रहणम् करोति, केवलम् ‘व्रीहि’ इत्यस्य न - इति व्याख्यानानि वदन्ति । यथा - ‘शालि’ शब्दः ‘व्रीहि’ इत्यस्मिन्नेव अर्थे प्रयुज्यते, अतः तुन्दादिगणे ‘शालि’ शब्दस्यापि ग्रहणम् क्रियते । यथा - शालिः अस्य अस्मिन् वा अस्ति सः शालिलः / शाली / शालिकः / शालिवान् । 2. अस्मिन् गणे एकम् गणसूत्रम् पाठ्यते - ‘स्वाङ्गाद् विवृद्धौ च’ । इत्युक्ते शरीरस्य कश्चन अवयवः यदि ‘विवृद्धः’ (= bigger than normal / expanded / bulged ) अस्ति, तर्हि तस्मात् शब्दात् अपि ‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः ‘इलच्’, ‘इनि’ , ठन्’ तथा ‘मतुँप्’ एते चत्वारः प्रत्ययाः भवन्ति । यथा - विवृद्धौ कर्णौ अस्य सः कर्णिलः / कर्णी / कर्णिकः / कर्णवान् । विवृद्धाः दन्ताः अस्य सः दन्तिलः / दन्ती / दन्तिक / दन्तवान् ।
Vasu English Summary¶
The affix इलच् also comes in the sense of मतुप् after the प्रातिपदिक (Nominal Stems) तुन्द etc.
Vasu English Translation¶
The affix इलच् also comes in the sense of मतुप् after the प्रातिपदिक (Nominal Stems) तुन्द etc. The force of च is that इनि, ठन् and मतुप् also come. As तुन्दिलः, तुन्दी, तुन्दिकः, तुन्दवान्. Similarly उदरिलः, उदरी, उदरिकः, उदरवान् ॥
The following is the list of तुन्दादि words 1 तुन्द, 2 उदर, 3 पिचण्ड, 4 घट, 5 यव, 6 व्रीहि, 7 स्वाङ्गाद्विवृद्धौ च ॥ That is to say, the affix इलच् comes after words denoting parts of one’s body, when the largeness (विवृद्धि) of those organs is implied : as विवृद्धौ कर्णौ यस्य स = कार्णलः, कर्णी, कर्णिकः, कर्णवान् ॥
Kashika¶
तुन्दादिभ्य प्रातिपदिकेभ्य इलच् प्रत्ययो भवति मत्वर्थे। चकारादिनिठनौ मतुप् च। तुन्दिलः, तुन्दी, तुन्दिकः, तुन्दवान्। उदरिलः, उदरी, उदरिकः, उदरवान्॥ तुन्द। उदर। पिचण्ड। घट। यव। व्रीहि। स्वाङ्गाद् विवृद्धौ च (ग०सू० १३६)। तुन्दादिः॥
Siddhanta Kaumudi¶
चादिनि ठनौ मतुप् च । तुन्दिलः । तुन्दी । तुन्दिकः । तुन्दवान् । उदर, पिचण्ड, यव, व्रीहि ॥ (गणसूत्रम् -) स्वाङ्गाद्विवृद्धौ । विवृद्ध्युपाधिकात्स्वाङ्गवाचिन इलजादयः स्युः । विवृद्धौ कर्णौ यस्य कर्णिलः । कर्णी । कर्णिकः । कर्णवान् ॥
Balamanorama¶
तुन्दादिभ्य इलच् च - तुन्दादिभ्य इलच्च । मतुप्चेति । समुच्चयार्थकाऽन्यतरस्याङ्ग्रहणानुवृत्तेरिति भावः । उदरादयश्चत्वारस्तुन्दादिगणपठिताः । आआङ्गाद्विवृद्धाविति । गणसूत्रमिदम् । वृद्धविषयात्वात्स्वाङ्गादिलच्, इनिठनौ मतुप्चेत्यर्थः । कर्णिल इति । वृद्धौ कर्णौ यस्येति विग्रहः ।
Tattvabodhini¶
तुन्दादिभ्य इलच् च - तुन्दादिभ्य इलच्च । अन्यतरस्यामित्यनुवर्तनादाह -मतुप्चेति । अत्रस्वाङ्गाद्विवृद्धौ॑इति पठते । विवृद्ध्युपाधिकात्स्वाङ्गवाचिन इलजादयः स्युः । विवृद्धौ कर्णावस्य -कर्णिलः कर्णी कर्णिकः कर्णवान् ।
Padamanjari¶
स्वाङ्गाद्विवृद्धादिति। विवृद्ध्युपाधिकात्स्वाङ्गवाचिन इलजादयो भवन्ति, विवृद्धौ कर्णावस्य कणिलः, कर्णी, कणिकः, कर्णवान् ॥
Nyaas¶
यथासम्भवं मतुबादिषु प्राप्तेष्विदमारभ्यते। चकारादिनिठनौ मतुप्च इति। एतेन प्रत्ययचतुष्टयं तुन्दादिभ्यस्त्विनिठनावपि।स्वाङ्गाद्विवृद्धौ इति। स्वाङ्गद्विवृद्धौ वर्तमानात्? प्रत्ययो भवति। वृद्धौ महान्तौ कर्णावस्य स्तः - कर्णिलः, कर्णिकः, कर्णी, कर्णवान्॥
Prakriyasarvasvam¶
चकारादिनिठन्मतुपः । ‘तुन्दोदरपिचण्डयवव्रीहिभ्यः’ (स० ५-२-१४१) । तुन्दिलः । उदरिलः । पिचण्डिलः । त्रयस्तुल्यार्थाः । यविलः । व्रीहीत्यर्थग्रहणमिति वृत्तौ । व्रीहिलः । शालिलः । तुन्दी । तुन्दिकः । तुन्दवानित्याद्यपि । ‘स्वाङ्गेभ्यो वृद्धौ’ (स० ५-२-१४२) । वृद्धः पादोऽस्यास्तीति पादिलः । कर्णिलः ।