52114: ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः

Padacheda: ज्योत्स्ना-तमिस्रा-शृङ्गिण-ऊर्जस्विन्-ऊर्जस्वल-गोमिन्-मलिन-मलीमसाः | S | 1 | 3 |

Sutrartha

‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः ‘ज्योत्स्ना’, ‘तमिस्रा’, ‘शृङ्गिण’, ‘ऊर्जस्विन्’, ‘ऊर्जस्वल’, ‘गोमिन्’, ‘मलिन’, तथा ‘मलीमस’ - एते शब्दाः निपात्यन्ते ।

‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः अनेन सूत्रेण केचन शब्दाः निपात्यन्ते । क्रमेण पश्यामः - 1) ज्योत्स्ना - ‘चन्द्रप्रभा’ (moonlight) अस्मिन् अर्थे अयम् शब्दः निपात्यते । अस्य निर्माणम् ‘ज्योतिस्’ इत्यस्यात् शब्दात् क्रियते । ज्योतिः (brightness) यस्याः अस्ति सा ज्योत्स्ना । प्रक्रिया इयम् - ज्योतिस् + न [न-प्रत्ययस्य निपातनम्] → ज्योत्स् + न [निपातनात् अङ्गस्य उपधालोपः] → ज्योत्स्न स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्ययं कृत्वा ‘ज्योत्स्ना’ इति शब्दः सिद्ध्यति । 2) तमिस्रा - ‘रात्रिः’ अस्मिन् अर्थे ‘तमस्’ (अन्धकारः / darkness) शब्दात् र-प्रत्ययं कृत्वा अयं शब्दः सिद्ध्यति । प्रक्रिया इयम् - तमः अस्मिन् अस्ति = तमस् + र [निपातनम्] → तमिस् + र [अङ्गस्य उपधावर्णस्य निपातनेन इकारादेशः] → तमिस्र । स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्ययं कृत्वा ‘तमिस्रा’ इति शब्दः सिद्ध्यति । विशेषः - ‘अन्धकारः अस्मिन् अस्ति’ इत्यर्थे अन्येषाम् शब्दानाम् विशेषणरूपेण अपि ‘तमिस्र’ शब्दः प्रयुक्तः दृश्यते । यथा - तमिस्रं नभः । 3) शृङ्गिण (having a horn इत्यर्थः) - ‘शृङ्गम् (horn) अस्य अस्ति’ अस्मिन् अर्थे ‘इनच्’ प्रत्ययं कृत्वा अयं शब्दः निपात्यते ।यथा - शृङ्गिणः पशुः । 4) ऊर्जस्विन् (शक्तिमान् / powerful इत्यर्थः) - ‘ऊर्जः (शक्तिः / power / strength) अस्मिन् अस्ति’ इत्यर्थे ऊर्ज-शब्दात् ‘विनि’ प्रत्ययः तथा च अङ्गस्य ‘असुक्’ आगमः निपात्यते - ऊर्जः अस्मिन् अस्ति = ऊर्ज + विनि [‘विनि’ प्रत्ययः निपात्यते ।] → ऊर्ज + असुक् + विनि [‘असुक्’ आगमः निपात्यते । आद्यन्तौ टकितौ (1.1.46) इति अन्तावयवः] → ऊर्ज + अस् + विन् [इत्संज्ञालोपः] → ऊर्जस्विन् [यस्येति च (6.4.148) इति अकारलोपः] यथा - ऊर्जस्वी बालकः । विशेषः - अस्य शब्दस्य विषये कौमुदीकारः ‘ऊर्जस्’ इति मूलप्रातिपदिकं पाठयति, यस्यापि अर्थः ‘शक्तिः’ इत्येव अस्ति । अस्यां स्थितौ असुक्-आगमः न आवश्यकः । ऊर्जाः अस्मिन् अस्ति सः = ऊर्जस् + विनि → ऊर्जस्विन् । 5) ऊर्जस्वल (शक्तिमान् / powerful इत्यर्थः) - ‘ऊर्जः (शक्तिः / power / strength) अस्मिन् अस्ति’ इत्यर्थे ऊर्ज-शब्दात् ‘वलच्’ प्रत्ययः तथा च अङ्गस्य ‘असुक्’ आगमः निपात्यते - ऊर्जः अस्मिन् अस्ति = ऊर्ज + वलच् [‘वलच्’ प्रत्ययः निपात्यते ।] → ऊर्ज + असुक् + वलच् [‘असुक्’ आगमः निपात्यते । आद्यन्तौ टकितौ (1.1.46) इति अन्तावयवः] → ऊर्ज + अस् + वलच् [इत्संज्ञालोपः] → ऊर्जस्वल [यस्येति च (6.4.148) इति अकारलोपः] यथा - ऊर्जस्वलः बालकः । विशेषः - अस्य शब्दस्य विषये कौमुदीकारः ‘ऊर्जस्’ इति मूलप्रातिपदिकं पाठयति, यस्यापि अर्थः ‘शक्तिः’ इत्येव अस्ति । अस्यां स्थितौ असुक्-आगमः न आवश्यकः । ऊर्जाः अस्मिन् अस्ति सः = ऊर्जस् + वलच् → ऊर्जस्वल । 6) गोमिन् (owner of cows) - ‘गो’ शब्दात् ‘अस्य अस्ति’ अस्मिन् अर्थे ‘मिनि’ प्रत्ययं कृत्वा ‘गोमिन्’ शब्दः सिद्ध्यति । गावः अस्य सन्ति सः गोमी । 7) मलिन (dirty) - ‘मलः अस्मिन् अस्ति’ इत्यत्र ‘मल’ शब्दात् ‘इनच्’ प्रत्ययं कृत्वा’ मलिन’ शब्दः सिद्ध्यति । यथा - मलिनम् वस्त्रम् । 8) मलीमस (dirty) - ‘मलः अस्मिन् अस्ति’ इत्यत्र ‘मल’ शब्दात् ‘ईमसच्’ प्रत्ययं कृत्वा ‘मलिमस’ शब्दः सिद्ध्यति । यथा - मलीमसम् वस्त्रम् । स्मर्तव्यम् - अत्र विवरणे निर्दिष्टेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकः मतुँप्-प्रत्ययः अपि भवितुमर्हति । यथा - ऊर्जाः अस्य अस्ति सः ऊर्जस्वान् , गावः अस्य सन्ति सः गोमान् - आदयः ।

Vasu English Summary

The words 1. ज्योत्स्न 2. तमिस्रा 3. शृङ्गिण 4. ऊर्जस्विन् 5. ऊर्जस्वल 6. गोमिन् 7. मलिन and 8. मलीमस are irregularly formed in the sense of मतुप् and are Names.

Vasu English Translation

The words 1. ज्योत्स्न 2. तमिस्रा 3. शृङ्गिण 4. ऊर्जस्विन् 5. ऊर्जस्वल 6. गोमिन् 7. मलिन and 8. मलीमस are irregularly formed in the sense of मतुप् and are Names. They are thus formed. ज्योतिष् + न = ज्योत्स्ना ‘moon-light’ (the इ being elided). तमस् + र = तमिस्रा ‘night’. (इ being added ): it has other genders than feminine as तमिस्रं नभः ‘dark sky’. शृङ्ग + इमच् = शृङ्गिणः ॥ The augment असुक् is added to ऊर्ज्, and then the affix विनि and वलच्; as ऊर्ज् + अस् + विन् = ऊर्ज्स्विन्; ऊर्ज्स्वलः ॥ गो + मिनि = गोमिन्; मल + इनच् = मलिनः; मल + ईमसच् = मलीमसः ॥

Kashika

ज्योत्स्नादयः शब्दा निपात्यन्ते मत्वर्थे संज्ञायां विषये। ज्योतिष उपधालोपो नश्च प्रत्ययो निपात्यते। ज्योत्स्ना चन्द्रप्रभा। तमस उपधाया इकारो रश्च। तमिस्रा रात्रिः। स्त्रीत्वमतन्त्रम्। अन्यत्रापि दृश्यते। तमिस्रं नभः। शृङ्गादिनच् प्रत्ययो निपात्यते। शृङ्गिणः। ऊर्जोऽसुगागमो निपात्यते विनिवलचौ प्रत्ययौ। ऊर्जस्वी। ऊर्जस्वलः। गोर्मिनिप्रत्ययो निपात्यते। गोमी। मलशब्दादिनजीमसचौ प्रत्ययौ निपात्येते। मलिनः। मलीमसः॥

Siddhanta Kaumudi

मत्वर्थे निपात्यन्ते । ज्योतिष उपधालोपो नश्च प्रत्ययः । ज्योत्स्ना । तमस उपधाया इत्वं रश्च । तमिस्रा । स्त्रीत्वमदन्त्रम् । तमिस्रम् । शृङ्गादिनच् । शृङ्गिणः । ऊर्जसो वलच् । तेन बाधा माभूदिति विनिरपि । ऊर्जस्वी । उर्जस्वलः । ऊर्जोऽसुगागम इति वृत्तिस्तु चिन्त्या । ऊर्जस्वतीतिवदसुन्नन्तेनैवोपपत्तेः । गोशब्दान्मिनिः । गोमी । मलशब्दादिनच् । मलिनः । ईमसश्च । मलीमसः ॥

Tattvabodhini

ज्योत्स्ना=चन्द्रप्रभा। तत्रावयवीभूतं ज्योतिरस्तीति मत्वर्थीयोपपत्तिः। एतेन तमःसमूहे तमिरुआआशब्दो व्याख्यातः। निघन्टुषु तमःपर्यायस्तमिरुआशब्दः पठितः। तत्र समूहसमूहिनोरभेदोपचार इति हरदत्तः। स्त्रीत्वमतन्त्रमिति। व्याख्यानमत्र शरणम्। `ऊर्जस्विन्गोमिन्नि`त्यत्र नान्तत्वाभिव्यक्तये नलोपो न कृतः।

Padamanjari

ज्योत्स्ना चन्द्रप्रभेति। तत्रावयवभूतं ज्योतिरस्तीति मत्वर्थोपपतिः। एतेन तमः समूहे तमिस्रशब्दो व्याख्यातः। निघण्टुअषु तु तमः पर्यायस्तमिस्रशब्दः पठितः, तत्र समूहसमूहिनोरभेदोपचारः। स्त्रीत्वमतन्त्रमिति। व्याख्यानमत्र शरणम्। शृङ्गादिनच्प्रत्यय इति। यद्यपि सूत्रे चकारोऽनुच्यारितः, तथाप्यन्तोदातस्योच्चारणादेवं कल्प्यते। उर्जोऽसुगागम इति। उर्जस्वतीः, पयस्वतीः। ऊर्जस्वत्, पयस्वदित्यसुनन्तान्मतुप् दृश्यते, इह त्वनाश्रयणे हेतुर्मग्यः। सूत्रे ऊर्जस्विन्गोमिन्निति नान्तत्वाभिव्यक्तये नलोपो न कृतः ॥

Nyaas

स्त्रीत्वमतन्त्रम् इति। अप्रधानम्, अविवक्षितत्वात्? स्त्रीलिङ्गनिर्देशस्तु वैचित्र्यार्थः॥

Prakriyasarvasvam

ज्योत्स्ना ज्योतिष्मत्वात् । तमिस्रा तामसी रात्रि: । स्त्रीत्वमतन्त्रम् । तमिस्रं नभ:, तमस्समूहोऽपि तमस्वत्वात् तमिस्रम् । शृङ्गवान् शृङ्गिण: । ऊर्जस्वी ऊर्जस्वलश्च बलवान् । ‘’गोमिन् पूज्ये’’ (स० ५-२-२०७) इति भोजोक्त्या पूज्यो गोमान् गोमी ।

Sutra Prayogas

  • क्षपातमस्काण्डमलीमसं (शिशुपालवधम्): ज्योत्स्नातमिस्रा… इति मत्वर्थीयो निपातः।

  • ऊर्जस्-वलं (भट्टिकाव्यम्): ज्योत्स्ना-त- मिस्रा इति वलच्।