52103: अण् च¶
Padacheda: अण् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः प्रथमासमर्थाभ्याम् ‘तपस्’ तथा ‘सहस्र’ शब्दाभ्यामण्-प्रत्ययः भवति ।
‘तपस्’ तथा ‘सहस्र’ एताभ्यां शब्दाभ्याम् ‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः तपःसहस्राभ्यां विनीनी (5.2.102) अनेन सूत्रेण विनि तथा इनि प्रत्ययौ भवतः । वर्तमानसूत्रेण एताभ्यां शब्दाभ्यामण्-प्रत्ययः अपि विधीयते । यथा - 1. तपः अस्य अस्मिन् वा अस्ति वा सः तापसः । अत्र ‘तपस् + अण् → तापस’ इति प्रातिपदिकम् । 2. सहस्रमस्य अस्मिन् वा अस्ति सः साहस्रः । अत्र ‘सहस्र + अण् → साहस्र’ इति प्रातिपदिकम् । अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!अण्-प्रकरणे ज्योत्स्नादिभ्यः उपसंख्यानम्!> । इत्युक्ते, ‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः ज्योत्स्नादिगणस्य शब्देभ्यः अपि अण्-प्रत्ययः भवति । ज्योत्स्नादिगणस्य आवल्यामण्-प्रत्ययं योजयित्वा एव शब्दाः पाठ्यन्ते । इयमावली एतादृशी - ज्यौत्स्नः (= ज्योत्स्ना + अण्), तामिस्रः (तमिस्र + अण्), कौण्डलः (= कुण्डल + अण्), कौतपः (= कुतप + अण्), वैसर्पः (= विसर्प + अण्), वौपादिकः (वुपादिक + अण्) । विशेषः - वस्तुतः अण्-प्रत्ययः पूर्वस्मिन् सूत्रे एव भवितुमर्हति । परन्तु अग्रिमसूत्रे केवलम् ‘अण्’ इति अनुवर्तनीयमस्ति अतः (स्पष्टतायै) अण् इति सूत्रम् भिन्नरूपेण गृह्यते - इति व्याख्यानानि स्पष्टीकुर्वन्ति ।
Vasu English Summary¶
And also अण् comes after तपस् and सहर।
Vasu English Translation¶
And also अण् comes after तपस् and सहर। Thus तापसः, साहस्रः ॥ The separation of this sutra from the last is for two purposes, Ist the anuvritti of अण् runs in the subsequent sutras, which could not have been done had it been included in the last sutra, 2nd the rule of yathasankhya (1.3. 10) would not have applied in the last sutra, had अण् been read along with विनि and इनि ॥
Vart:- The words ज्योत्स्ना &c, are governed by this rule and take अण्. As ज्योत्स्ना विद्यतेऽस्मिन् पक्षे = ज्यौत्स्नः पक्षः ॥ Similarly तामिस्रः (a kind of hell) कौण्डलः, कौतपः, वैसर्पः, and वैपादिकः ॥
Bhashya¶
अण्च (2121) (अण्प्रत्ययाधिकरणम् (तपःशब्दाक्षेपे भाष्यम्) किमर्थं तपः श्बदाद्विन् विधीयते। नासन्तादित्येव सिद्धम्? (5770 समाधानवार्तिकम्॥ 1 ॥) - तपसो विन्वचनमण्विधानात् - (भाष्यम्) तपसो विन्वचनं क्रियते। किं प्रयोजनम्? अण्विधानात्। तपःशब्दादण् विधीयते, स विशेषविहितः सामान्यविहितं विनं बाधेत॥ (5771 उपसंख्यानवार्तिकम्॥ 2 ॥) - अण्प्रकरणे ज्योत्स्नादिभ्य उपसंख्यानम् - (भाष्यम्) अण्प्रकरणे ज्योत्स्नादिभ्य उपसंख्यानं कर्तव्यम्। ज्यौत्स्नः। तामिस्नम्। कौण्डलः। कौतपः। वैपादिकः॥
Kashika¶
तपःसहस्राभ्यामण् च प्रत्ययो भवति। तापसः। साहस्रः। योगविभाग उत्तरार्थो यथासंख्यार्थश्च॥ अण्प्रकरणे ज्योत्स्नादिभ्य उपसंख्यानम्॥ ज्योत्स्ना विद्यतेऽस्मिन् पक्षे ज्यौत्स्नः पक्षः। तामिस्रः। कौण्डलः। कौतपः। वैसर्पः। वैपादिकः॥
Siddhanta Kaumudi¶
योगविभाग उत्तरार्थः । तापसः । साहस्रः ।<!ज्योत्स्नादिभ्य उपसंख्यानम् !> (वार्तिकम्) ॥ ज्यौत्स्नः । तामिस्रः ॥
Balamanorama¶
अण् च - अण्च ।तपःसहरुआआभ्यां मत्वर्थे॑ इति शेषः । ननुतपःसहरुआआभ्यां विनीन्यणः॑ इत्येकमेव सूत्रमस्तु । नच तपःसहरुआआभ्यां विनीन्योर्यथासंख्यार्थं पृथक्सूत्रकरणम्, अन्यथा त्रयोऽपि प्रत्यया द्वाभ्यां स्युरिति वाच्यं,तपःसहरुआआभ्यामण्विनीनी॑ इति सूत्रकरणे भिन्नविभक्त्युच्चारणादेव अण उभयसम्बन्धस्य, विनीन्योर्यथासंख्य(त्व)स्य च सिद्धेरित्यत आह — योगविभाग उत्तरार्थ इति । उत्तरसूत्रे अण एवानुवृत्त्यर्थ इत्यर्थः । ज्यौत्स्न इति । ‘शुक्लपक्ष’ इति शेषः । ज्योत्स्ना=चन्द्रिका । सा अस्यास्तीति विग्रहः । तामिरुआ इति । ‘कृष्णपक्ष’ इति शेषः । तमिरुआआः=तमोयुक्ता रात्रयः । ता अस्य सन्तीति विग्रहः । ज्योत्स्नादित्वादण् ।
Tattvabodhini¶
अण् च - उत्तरार्थ इति । विनीन्योर्यथा सङ्ख्यप्रवृत्त्यर्थश्चेत्यपि बोध्यम् ।ज्योत्स्नादिभ्य उपसङ्ख्यानम् । ज्यौत्स्न इति । शुक्लपक्षः । तामिरुआ इथि । कृष्णपक्षो, नरकविशेषश्च । तमःसमूहस्तमिरुआम् ।ज्योत्स्नातमिरुओ॑ति निपातनाम्नत्वर्थीयो रः । तत्र ह्रलयवभूतानि तमांसि विद्यन्ते । तदस्मिन्नस्तीति विग्रहे रान्तादण् । स्त्रियां -तामरुआई ।तमिरुआआ तामसी रात्रिर्ज्यौत्स्नि चन्द्रिकयान्विता॑इत्यमरोक्तौ तु तमिरुओत्येतद्रान्तं न त्वणन्तमिति न विरोधः । एवं च तमिरुआआ रात्रयो अस्मिन् सन्तितामिरुआः पक्ष॑इत्यपि व्याख्यातुं शक्यम् ।
Padamanjari¶
अण्प्रकरणे इत्यादि। प्रकरणम् प्रस्तावः, काण्डं वा। ज्योत्स्नातमिस्रेत्यादिसूत्रे पठितानां ग्रहणम्। ज्यौत्स्नः पक्ष इति। स पुनः पूर्वः पक्षः तत्र हि पञ्चदशस्वपि तिथिषु ज्योत्स्ना भवतीति कृत्स्नः पक्षो ज्योत्स्नया व्याप्यते। एतेन तामिस्रो व्याख्यातः, तमःसमूहस्तामिस्रम्, मत्वर्थीयो रः। तत्र ह्यवयवभूतानि तमांसि विद्यन्ते तधस्मिन्नस्ति स तामिस्रोऽपरः पक्षः। तमिस्रारात्रिर्यस्मिन्विद्यत इति वा तामिस्रः, नरकविशेषस्यैषा संज्ञा। कुण्कडलार्हः कौण्कडलः। तत्र यथाकथञ्चिन्मत्वर्थीय उपपाद्यः। यस्तु संसक्तकुण्कडलः स कुण्डली भवति। अयं च नियम इतिकरणानुवृतेर्ल भ्यते ॥
Nyaas¶
अण्प्रकरणे इत्यादि ज्योत्स्नादिराकृतिगणः। येभ्यो मतुबर्थेऽण्? दृश्यते ते ज्योत्स्नादयो द्रष्टव्याः। उपसंख्यानशब्दश्चायं प्रतिपादने वर्तते। तत्रेदं प्रतिपादनम् - उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेन ज्योत्स्नादिब्योऽपि भविष्यतीति। कौण्डलः इति। कुण्डले योर्हति स एवमुच्यते। अन्यस्तु कुण्डलीत्येव भवति॥
Prakriyasarvasvam¶
तापसः । साहस्रः ।<!ज्योत्स्नादिभ्योऽण् वाच्यः!> (वा०) । ज्योत्स्नातमिस्त्रा- कुण्डलकुतुपविसर्पविपादिकाभ्यः’ (स० ५-२-९१) । ज्योत्स्नावान् ज्यौत्स्त्रः । पक्षः । तामिस्रः । कुण्डलवत्वार्हः कौण्डलः । तद्योगे तु कुण्डल्येवेति रामः । कुतुपः पात्रभेदः । तद्वान् कौतुपः । वैसर्पः वैपादिकः । आकृतिगणत्वाद् विजननवान वैजननो मासः । शिलावत्त्वाद् शैलः सौधः ।
Vartika¶
ज्योत्स्नादिभ्य उपसंख्यानम् ।
Sutra Prayogas¶
तापसैः (किरातार्जुनीयम्): अण् च इति मत्वर्थीयोऽण्प्रत्ययः।