52119: शतसहस्रान्ताच्च निष्कात्¶
Padacheda: शत-सहस्रान्तात् | S | 5 | 1 |
च | S | 0 | 0 |
निष्कात् | S | 5 | 1 |
Sutrartha¶
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः ‘निष्कशत’ तथा ‘निष्कसहस्र’ एताभ्याम् शब्दाभ्याम् प्रथमासमर्थाभ्याम् ठञ्-प्रत्ययः भवति ।
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण वर्तमानसूत्रेण ‘निष्कशत’ तथा ‘निष्कसहस्र’ एताभ्याम् शब्दाभ्याम् एतयोः अर्थयोः ‘ठञ्’ प्रत्ययः विधीयते । यथा - 1. निष्कशतमस्य अस्मिन् वा अस्ति = निष्कशत + ठञ् → नैष्कशतिक । One who owns or contains 100 gold coins - इत्यर्थः । 2. निष्कसहस्रमस्य अस्मिन् वा अस्ति = निष्कसहस्र + ठञ् → नैष्कसहस्रिक । One who owns or contains 1000 gold coins - इत्यर्थः । स्मर्तव्यम् - वस्तुतः अस्मिन् सूत्रे ‘शतसहस्रान्तात् निष्कात्’ इति उक्तमस्ति । इत्युक्ते, येषु शब्देषु ‘निष्कशत’ तथा ‘निष्कसहस्र’ इति पदम् विद्यते, तेभ्यः सर्वेभ्यः शब्देभ्यः वर्तमानसूत्रेण ठञ्-प्रत्ययः भवेत् । यथा - सुवर्णनिष्कशत, महानिष्कसहस्र - एताभ्याम् शब्दाभ्यामपि अनेन सूत्रेण ठञ्-प्रत्ययः भवेत् । परन्तु तादृशाः शिष्टप्रयोगाः न विद्यन्ते, अतः तानि उदाहरणानि अत्र न दत्तानि सन्ति । केवलम् ‘निष्कशत’ तथा ‘निष्कसहस्र’ एतयोः शब्दयोः विषये एव अस्य सूत्रस्य प्रयोगः भवति ।
Vasu English Summary¶
The affix ठञ् comes in the sense of मतुप् after the words 1. शत and 2. सहस्र when they follow after निष्क।
Vasu English Translation¶
The affix ठञ् comes in the sense of मतुप् after the words 1. शत and 2. सहस्र when they follow after निष्क। Thus निष्कशतमस्यास्ति = नैष्कशतिकः, नैष्कसहस्रिकः ॥ But not so after सुवर्णनिष्कशतं, it being never so found in usage.
Kashika¶
शतान्तात् सहस्रान्तात् च प्रातिपदिकात् ठञ् प्रत्ययो भवति मत्वर्थे, तौ चेच्छतसहस्रशब्दौ निष्कात् परौ भवतः। निष्कशतमस्यास्ति नैष्कशतिकः। नैष्कसहस्रिकः। सुवर्णनिष्कशतमस्यास्तीत्यनभिधानाद् न भवति॥
Siddhanta Kaumudi¶
निष्कात्परौ यौ शतसहस्रशब्दौ तदन्तात्प्रातिपदिकाट्ठञ् स्यान्मत्वर्थे । नैष्कशतिकः । नैष्कसहस्रिकः ॥
Balamanorama¶
शतसहस्रान्ताच्च निष्कात् - शतसहरुआ । निष्कात्पराविति । असामर्थ्येऽपि सौत्रत्वात्समास इति भावः ।
Padamanjari¶
निष्कादित्येतद् गुणभूताभ्यामपि शतसहस्राभ्यां सम्बध्यते, न तदन्तेनेत्याह - तौ चेदिति। सुवर्णानिष्कशतमित्यादि। यत्र निष्कशब्दः पूर्वपदं न भवतीत्यर्थः। अन्तग्रहणं किम् ?’निष्काच्छतसहस्राभ्याम्’ इत्युच्यमाने सन्देहः स्यात् - किं पूर्वपदम् ? - इति ॥
Prakriyasarvasvam¶
नित्यं ठञ् । नैष्कशतिकः, नैष्कसहस्रिकः ।