52104: सिकताशर्कराभ्यां च¶
Padacheda: सिकताशर्कराभ्याम् | S | 5 | 2 |
च | S | 0 | 0 |
Sutrartha¶
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः प्रथमासमर्थाभ्याम् ‘सिकता’ तथा ‘शर्करा’ शब्दाभ्यामण्-प्रत्ययः भवति ।
‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण ‘सिकता’ (sand) तथा ‘शर्करा’ (sugar) एताभ्यां शब्दाभ्यां अण्-प्रत्ययः भवति । यथा - 1. सिकताः अस्य अस्मिन् वा सन्ति सः सैकतः । प्रक्रिया इयम् - सिकता + अण् → सैकता + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → सैकत् + अ [यस्येति च (6.4.148) इति आकारलोपः] → सैकत यथा - सैकतः घटः (The pot which contains the sand). 2. शर्करा अस्य अस्मिन् वा अस्ति सः शार्करः । स्मर्तव्यम् - 1. ‘अप्सुमनःसमासिकतावर्षाणां बहुत्वं च’ इति किञ्चन सूत्रम् लिङ्गानुशासने विद्यते, येन ‘सिकता-शब्दः केवलं बहुवचने एव प्रयोक्तव्यः अस्ति’ - इति ज्ञायते । अतः विग्रहवाक्ये ‘सिकताः सन्ति’ इति उच्यते । परन्तु एषः विषयः चिन्तनीयः अस्ति, यतः भाष्यकारः स्वयम् ‘एका च सिकता तैलदाने असमर्था’ इति प्रयोगः हयवरट्-सूत्रस्य भाष्ये करोति । 2. ‘सिकताः सन्ति यस्मिन् देशे’ इति विवक्ष्यते चेत् देशे लुबिलचौ च (5.2.105) इत्यनेन अग्रिमसूत्रेण मतुँप् तथा इलच् प्रत्ययौ अपि भवितुमर्हतः, तथा च पक्षे प्रत्ययस्य लुप् अपि भवति । अतः अत्र ‘सैकतः घटः’ इति देशभिन्नम् विशिष्टमुदाहरणम् दत्तमस्ति । 3. अण्-प्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यनेन ङीप्-प्रत्ययं स्वीकुर्वन्ति। यथा - सैकती नदी, शार्करी धमनी ।
Vasu English Summary¶
The affix अण् comes in the sense of मतुप् after सिकता and शर्करा।
Vasu English Translation¶
The affix अण् comes in the sense of मतुप् after सिकता and शर्करा। Thus सैकटो घटः, शार्करं मधु ॥ These are the examples, when they do not denote a place. In denoting a place they will take इल् and लुप् of the next sutra.
Kashika¶
सिकताशर्कराभ्यामण् प्रत्ययो भवति मत्वर्थे। सैकतो घटः। शार्करं मधु। अदेश इहोदाहरणम्। देशे तु लुबिलचौ भविष्यतः॥
Siddhanta Kaumudi¶
सैकतो घटः ॥ शार्करः ॥
Balamanorama¶
सिकताशर्कराभ्यां च - सिकताशर्कराभ्यां च । ‘मत्वर्थे अ’ णिति शेषः । सैकतो घट इति । सिकता अस्य सन्तीति विग्रहः । देशे लुपो वक्ष्यमाणत्वाद्धट इति विशेष्यम् ।अप्सुमनःसमासिकतावर्षाणां बहुत्वं चे॑ति लिङ्गानुशासनसूत्रात्सिकताशब्दो नित्यं बहुवचनान्तः ।
Tattvabodhini¶
सिकताशर्कराभ्यां च - सिकताशर्करा । देशविशेषस्य वक्ष्यमाणत्वादाह -घट इति ।
Padamanjari¶
शार्करं मध्विति। शर्करा माधुर्यम्, न तु गुडः, मधुनि तस्याभावात्। अदेश इहोदाहरणमिति। देशे विसेषस्य वक्ष्यमाणत्वात् ॥
Nyaas¶
आदेश इहोदाहरणम् इति। देश उत्तरसूत्रेण लुबिलचोर्विधास्यमानत्वात्॥
Prakriyasarvasvam¶
अण् स्यात् । सैंकतं शार्करं च पात्रम् । शर्कराशब्दो माधुर्यार्थ इति हरः । शार्करं क्षीरम् ।
Sutra Prayogas¶
तान्युञ्छषष्ठाङ्कितसैकतानि (रघुवंशम्): सिकताशर्कराभ्यां च इत्यण्प्रत्ययः।
सैकतं (रघुवंशम्): सिकताशर्कराभ्यां च इत्यण्प्रत्ययः।
सैकतम् (किरातार्जुनीयम्): सिकताशर्कराभ्यां च इत्यण्प्रत्ययः।
सैकतं (शिशुपालवधम्): सिकताशर्कराभ्यां च इत्यण् प्रत्ययः।