52112: रजःकृष्यासुतिपरिषदो वलच्

Padacheda: रजस्-कृषि-आसुति-परिषदः | S | 5 | 1 |

वलच् | S | 1 | 1 |

Sutrartha

‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः ‘रजस्’, ‘कृषि’, ‘आसुति’ तथा ‘परिषद्’ एतेभ्यः शब्देभ्यः प्रथमासमर्थेभ्यः ‘वलच्’ प्रत्ययः भवति ।

‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् (5.2.94) इत्यनेन मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण चतुर्भ्यः शब्देभ्यः अनेन सूत्रेण वलच्-प्रत्ययः भवति । क्रमेण पश्यामः - 1. रजः (impurity) अस्य अस्मिन् वा अस्ति = रजस् + वलच् → रजस्वल । स्त्रीत्वे अजाद्यतष्टाप् (4.1.4) इति टाप् - रजस्वला । यथा - रजस्वला स्त्री । 2. कृषि (agriculture / cultivation) अस्य अस्मिन् वा अस्ति = कृषि + वलच् → कृषीवल । यथा - कृषीवलः वैश्यः । अत्र वले (6.3.118) इति अङ्गस्य दीर्घादेशः भवति । 3. आसुति (brew / distillation) अस्य अस्मिन् वा अस्ति = आसुति + वलच् → आसुतीवल । यथा - आसुतीवलः शङ्कुः । अत्रापि वले (6.3.118) इति अङ्गस्य दीर्घादेशः भवति । 4. परिषद् (council / conference) अस्य अस्मिन् वा अस्ति = परिषद् + वलच् → परिषद्वल । यथा - परिषद्वलः राजा । अत्र एकम् वार्त्तिकं ज्ञेयम् - <!वलच्प्रकरणे ‘अन्येभ्योऽपि दृश्यते’ इति वक्तव्यम्!> । इत्युक्ते, ‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः अनेभ्यः केभ्यश्चन शब्देभ्यः अपि ‘वलच्’ प्रत्ययः भवति । यथा - अ) भ्राता अस्य अस्ति सः भ्रातृवलः । आ) उत्साहः अस्य अस्मिन् वा अस्ति सः उत्साहवलः । (इ) पिता अस्य अस्ति सः पितृवलः । एतेषु उदाहरणेषु वले (6.3.118) इति अङ्गस्य दीर्घादेशः न भवति, यतः तत्र ‘संज्ञायाम्’ इति अनुवृत्तिः स्वीक्रियते (इत्युक्ते, विशिष्टेभ्यः शब्देभ्यः एव वले (6.3.118) इत्यनेन अङ्गस्य दीर्घादेशः भवति, सर्वेभ्यः न) । विशेषः - अनेन सूत्रेण जायमानानाम् शब्दानाम् विशिष्टेषु अर्थेषु एव प्रयोगः भवति । यथा - ‘रजस्वल’ शब्दस्य स्त्रियाः विषये एव प्रयोगः क्रियते ।

Vasu English Summary

The affix वलच् comes in the sense of मतुप् after 1. रजस् 2. कृषि 3. आसुति and 3. परिषद्।

Vasu English Translation

The affix वलच् comes in the sense of मतुप् after 1. रजस् 2. कृषि 3. आसुति and 3. परिषद्। As रजस्वला स्त्री, कृषीवलः कुटुम्बी, आसुतीवलः शौण्डिकः, परिषद्वलो राजा ॥ The lengthening of vowel in कृषि and आसुति takes place by (6.3.118). The affix वलच् comes only under certain senses and conditions, as shown in the above examples. Thus in रजोऽस्मिन् ग्रामे विद्यते, there is no affixing.

Vart:- The affix valach is seen after other words also. As भ्रातृवलः, पुत्रवलः, पितृवलः, उत्साहवलः ॥

Bhashya

रजःकृष्यासुतिपरिषदो वलच् (2130) (वलच्प्रत्ययाधिकरणम्) (5777 उपसंख्यानवार्तिकम्॥ 1 ॥) - वलच्प्रकरणेऽन्येभ्योऽपि दृश्यते - (भाष्यम्) वलच्प्रकरणे अन्येभ्योऽपि दृश्यत इति वक्तव्यम्। भ्रातृवलः। पुत्रवलः। उत्सङ्गवलः॥

Kashika

रजःप्रभृतिभ्यः प्रातिपदिकेभ्यो वलच् प्रत्ययो भवति मत्वर्थे। रजस्वला स्त्री। कृषीवलः कुटुम्बी। आसुतीवलः शौण्डिकः। परिषद्वलो राजा। वले (६.३.११८) इति दीर्घत्वम्। इतिकरणो विषयनियमार्थः सर्वत्र संबध्यते। तेनेह न भवति — रजोऽस्मिन् ग्रामे विद्यत इति॥ वलच्प्रकरणेऽन्येभ्योऽपि दृश्यत इति वक्तव्यम्॥ भ्रातृवलः। पुत्रवलः। उत्साहवलः॥

Siddhanta Kaumudi

रजस्वला स्त्री । कृषीवलः । वले (SK1040) इति दीर्घः । आसुतीवलः । शौण्डिकः । परिषद्वलः । पर्षदितिपाठान्तरम् । पर्षद्वलम् ।<!अन्येभ्योऽपि दृश्यते !> (वार्तिकम्) ॥ भ्रातृवलः । पुत्रवलः । शत्रुवलः । वले (SK1040) इत्यत्र संज्ञायामित्यनुवृत्तेर्नेह दीर्घः ॥

Balamanorama

रजःकृष्यासुतिपरिषदो वलच् - रजःकृषि । रजस्, कृषि, आसुति, परिषद् एभ्यो मत्वर्थे वलच्स्यादित्यर्थः । आसुतीवल इति ।षुञ् अभिषवे॑ । आङ्पूर्वात्स्त्रियां क्तिन् । ‘वले’ इति दीर्घः ।अन्येभ्योऽपीति । वार्तिकमिदम् ।रजः कृषी॑त्यादिसूत्रोपात्तादन्येभ्योऽपि वलच्दृश्यत इत्यर्थः । भ्रातृवलः । ‘ढ्रलोपे’ इत्यतोऽण इत्यनुत्तेः ‘वले’ इति न दीर्घः । पुत्रवल इत्यादौ ‘वले’ इति दीर्घमाशङ्क्याह — वले इत्यत्रेति ।

Tattvabodhini

रजःकृष्यासुतिपरिषदो वलच् - आसुतीवल इति ।षुञ् अभिषवे॑ । क्तिन् । आसुतिरभिषवः । परिषद्वल इति । परितः सीदतीति परिषत् ।सत्सूद्विषे॑त्यादिना क्विप् ।सदिरप्रते॑रिति षत्वम् । पाठान्तरमिति ।शृदृभसोऽदिः॑इत्यदिप्रत्ययो बाहुलकात् पृषेरपि भवति । तथा च भाष्यं — -॒पार्षदकृतिरेषा तत्रभवतां॑सर्ववेदपार्षदं हीदं शास्त्र॑मिति च । भट्टिस्त्वाह -॒पर्षद्बलान्महाब्राहृऐराट नैकटिकाश्रमा॑निति ।पर्षदेषा दसावरे॑ति मनुः ।अन्येभ्योऽपि दृश्यते । भ्रातृवल इति ।वले॑ इत्यत्राऽण्ग्रहणानुवृत्तेर्नेह दीर्घः । पुत्रवलादौ तु स्यात्तत्राह -संज्ञायामित्यनुवृत्तेरिति ।वनगिर्यो ॑रिति सूत्रादिति भावः ।

Padamanjari

आसुतीवल इति।’षुञ् अभिषवे’ , क्तिन्, आसुतिःउअभिषवः। परिषदूल इति। परितः सीदन्तीति परिषत्,’सत्सूद्विष’ इत्यादिना क्विप्,’सदिरप्रतेः’ इति षत्वम्। पर्षच्छब्दमन्ये पठन्ति,’शदिभसो’ दिःऽ बाहुलकात्पृषेरपि भवति -‘पर्षदेषा दशावरा’ इति हि दृश्यते;’पार्षदकृतिरेषा तत्र भवताम्’ ‘सर्ववेदपार्षदं हीदं शास्त्रम्’ इति च भाष्ये।’पर्षद्वलामहाब्रह्मौरागतैः कठकाश्रमात्’ इति च भट्टिकाव्ये। परिषच्छब्दस्तु प्रसिद्ध एव -‘सहस्रशः समेतानां परिषत्वं न विद्यते’ इति मनुः। अत्र च सूत्रे उभयोरपि उभयथा सूत्रप्रणयनात्। भ्रातृवल इति ।’वलः’ इत्यत्राण्ग्रहणानुवतेर्दीर्घाभावः। पुत्रवलः, उत्साहवल इत्यत्र त्वसंज्ञयां दीर्घाभावः। संज्ञायां तु दीर्घत्वम्,’वलः’ इत्यत्र हि’वनगिर्योः संज्ञायाम्’ इत्यतः’संज्ञायाम्’ इत्यनुवर्तते ॥

Nyaas

रजःशब्दात्? अस्मायामेधास्रजो विनिः (5.2.121) इति विनौ प्राप्ते, इतरेभ्यस्तु मतुपि वलज्विधीयते। वलच्प्रकरणे इत्यादि। वप्रत्ययस्य व्याख्यानेनेदमपि व्याख्यातप्रायम्। अत्र वले (6.3.118) इति दीर्घत्वं कस्मान्न भवति? वनगिर्योः संज्ञायाम् (6.3.116) इत्यतः संज्ञाग्रहणानुवृत्तेः॥

Vartika

अन्येभ्योऽपि दृश्यते ।

Sutra Prayogas

  • रजस्वला (रघुवंशम्): रजः कृष्यासुतिरपरिषदो वलच् इति वलच्प्रत्ययः।

  • कृषीवलैः (किरातार्जुनीयम्): रजःकृष्यासुतिपरिषदो वलच् इति वलच्प्रत्ययः।

  • पर्षद्वलान्महा (भट्टिकाव्यम्): तत्र यदि रजः कृष्या- सुति-पर्पदो वलच् इति वलच्।