Sutras 121 - 140¶
- 31121: युग्यं च पत्रे
- 31122: अमावस्यदन्यतरस्याम्
- 31123: छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि
- 31124: ऋहलोर्ण्यत्
- 31125: ओरावश्यके
- 31126: आसुयुवपिरपिलपित्रपिचमश्च
- 31127: आनाय्योऽनित्ये
- 31128: प्रणाय्योऽसंमतौ
- 31129: पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु
- 31130: क्रतौ कुण्डपाय्यसंचाय्यौ
- 31131: अग्नौ परिचाय्योपचाय्यसमूह्याः
- 31132: चित्याग्निचित्ये च
- 31133: ण्वुल्तृचौ
- 31134: नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः
- 31135: इगुपधज्ञाप्रीकिरः कः
- 31136: आतश्चोपसर्गे
- 31137: पाघ्राध्माधेट्दृशः शः
- 31138: अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च
- 31139: ददातिदधात्योर्विभाषा
- 31140: ज्वलितिकसन्तेभ्यो णः