31121: युग्यं च पत्रे

Padacheda: युग्यम् | S | 1 | 1 |

च | S | 0 | 0 |

पत्रे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The word युग्यम् is irregularly formed meaning ‘a vehicle’.

Vasu English Translation

The word युग्यम् is irregularly formed meaning ‘a vehicle’. The word पत्र means that by which a thing is carried. Thus युग्यो गौ ‘the carrier bull or the yoked bull’. युग्यो हस्ती ‘the harnessed elephant ready to carry’. युज् + क्यप् = युग्यम्. The ज is changed into ग. When not meaning a carrier or a carriage, it has the form योग्यं.

Kashika

युग्यमिति निपात्यते पत्रं चेत् तद् भवति। पतत्यनेनेति पत्रम्, वाहनमुच्यते। युग्यो गौः। युग्योऽश्वः। युग्यो हस्ती। युजेः क्यप् कुत्वं च निपात्यते। पत्र इति किम्? योग्यमन्यत्॥

Siddhanta Kaumudi

पत्रं वाहनम् । युग्यो गौः । अत्र क्यप् कुत्वं च निपात्यते ॥

Balamanorama

युग्यं च पत्त्रे - युग्यं च पत्रे । क्यबन्तं निपात्यते । ण्यतोऽपवादः । युग्यो गौरिति । शकटादिना योक्तव्य इत्यर्थः । क्यपि कुत्वं निपातनात् । पत्रं वाहनमिति । पतन्ति गच्छन्त्यनेनेत्यर्थे ‘दाम्नीशसे’ त्यादिना करणे ष्ट्रन् । ण्यति तु योग्यमिति स्यात् ।

Tattvabodhini

युग्यं च पत्त्रे - पत्रं वाहनमिति । पतन्त्यनेनेत्यर्थेदाम्नीशसे॑त्यादना करणे ष्ट्रन् । युग्यो गौरिति । यद्यपितद्वहति रथयुगप्रासङ्ग॑मिति तद्धितयताऽपि इदं सिध्यति तथापि ण्यतं व्यावर्तयितुमिदं सूत्रम् । अन्यथा हि योग्यो गौरिति स्यात् । अन्ये त्वाहुः — युग्यो हस्तीति हि वृत्तावुदाहृतं,तत्तु तद्धितेन न सिध्यति । न हि हस्तीयुगं वहति । कृता तु सिध्यति । युज्यते संबध्ते ह्रसौ कुथादिनेति । ततश्चात्र वैयथ्र्यशङ्कैव नास्तीति दिक् ।

Padamanjari

युग्यं च पत्त्रे॥ पतत्यनेनेति पत्रमिति।’दाम्नीशस’ इत्यादिना करणे ष्ट्रन्।’तद्वहति रथयुगप्रसङ्गम्’ इति प्राग्दीव्यतीयेनैव यथा सिद्धम्। स्वरेऽपि नास्ति भेदः - क्यपि धातुस्वरः, यत्यपि’यतो’ नावःऽ इत्याद्यौदातत्वम्, अयुग्यमित्यत्रापि न स्वरे भेदः,’ययतोश्चातदर्थे’ ‘कृत्योकेष्णुच्चार्वादयश्च’ इत्युभयत्रान्तोदातविधानात्॥

Nyaas

पतन्त्यनेनेति पत्त्रम् इति। दाम्नीशस (3.2.182) इत्यादिना ष्ट्रन्। ` युग्यम्` इति। युजिर्योगे (धातुपाठः-1444)। योजनीर्ये - युज्यते वाहनेन {गमनमितीति मुद्रितः पाठः} गवादिकमिति युग्यम्॥

Prakriyasarvasvam

पत्रं वाहनम् । युज्योऽश्वः ।

Sutra Prayogas

  • युग्याऽऽयात (भट्टिकाव्यम्): युग्यं च पत्रे इति निपातितम्।