31135: इगुपधज्ञाप्रीकिरः कः

Padacheda: इगुपध-ज्ञा-प्री-किरः | S | 5 | 1 |

कः | S | 1 | 1 |

Sutrartha


Vasu English Summary

After a verb ending in a consonant but preceded by इ , उ or ऋ -long or short, and after the verbs ज्ञा ‘to know’, श्री ‘to please’ and कॄ ‘to scatter’, comes the affix क (अ)।

Vasu English Translation

After a verb ending in a consonant but preceded by इ , उ or ऋ -long or short, and after the verbs ज्ञा ‘to know’, श्री ‘to please’ and कॄ ‘to scatter’, comes the affix क (अ)।

Thus विक्षिप् + क = विक्षिप nom. sing. विक्षिपः. So also विलिखः ‘inscription’; बुधः ‘who knows’, कृशः ‘lean’; ज्ञा + क = ज्ञः ‘who knows’ (6.4.64); प्री + क = प्रियः ‘what pleases’; कॄ + क = कि + अ ( VII.I.100) = किर् + अ (1.1.51) = किरः ‘who scatters’ i. e. ‘a hog’.

The words देव ‘God’, सेव ‘service’ and मेष ‘ram’, should be read in the पचादि class of the last sutra, being formed by the affix अच् and not by क.

Bhashya

इगुपधज्ञाप्रीकिरः कः (752) (अथ कप्रत्ययप्रकरणम्) (436 कप्रत्ययविधिसूत्रम्॥ 3 । 1 । 6 आ. 26) (1989 वार्तिकम्॥ 1 ॥) - इगुपधेभ्य उपसर्गे कविधिर्मेषाद्यर्थः- (भाष्यम्) इगुपधेभ्य उपसर्गे को विधेयः। किं प्रयोजनम्। मेषाद्यर्थः। मेषः देवः सेवः॥ (1990 निराकरणवार्तिकम्॥ 2 ॥) - न वा बुधादीनां दर्शनादनुपसर्गेऽपि- (भाष्यम्) न वा को विधेयः। किं कारणम्। बुधादीनां दर्शनादनुपसर्गेऽपि। बुधादीनामनुपसर्गेऽपि को दृश्यते बुधः युधः भिद इति॥ (आक्षेपभाष्यम्) कथं मेषः देवः सेव इति। (समाधानभाष्यम्) पचादिषु पाठः करिष्यते॥ इगुपधज्ञा॥ 135 ॥

Kashika

इगुपधेभ्यो जानातेः प्रीणातेः किरतेश्च कप्रत्ययो भवति। विक्षिपः। विलिखः। बुधः। कृशः। जानातीति ज्ञः। प्रीणातीति प्रियः। किरतीति किरः। देवसेवमेषादयः पचादौ पठितव्याः॥

Siddhanta Kaumudi

एभ्यः कः स्यात् । क्षिपः । लिखः । बुधः । कृशः । ज्ञः । प्रीणातीति प्रियः । किरतीति किरः । वासरूपविधिना ण्वुल्तृचावपि । क्षेपकः । क्षेप्ता ॥

Laghu Siddhanta Kaumudi

एभ्यः कः स्यात्। बुधः। कृशः। ज्ञः। प्रियः। किरः॥

Balamanorama

इगुपधज्ञाप्रीकिरः कः - इगुपधज्ञा । ‘कृ विक्षेपे’ इत्यस्य इत्त्वे रपरत्वे च किरिति रेफान्तम् । इगुपध, ज्ञा, प्री, किर् एषां द्वन्द्वात्पञ्चमी । कित्त्वं गुणनिषेधार्थम् । ज्ञ इति । आतो लोपः । प्रिय इति । प्रीञ् के इयङ् । किर इति । कृधातोः कप्रत्यये इत्त्वे रपरत्वम् ।

Tattvabodhini

इगुपधज्ञाप्रीकिरः कः - इगुपध । इक् उपधा यस्य सः । ज्ञा अवबोधने, प्रीञ् तर्पणे, कृ विक्षेपे । एषामितरेतरयोगद्वन्द्वे व्यत्ययेन पञ्चम्येकवचने कशब्दस्य धात्वनुकरणत्वेनप्रकृतिवदनुकरण॑मित्यतिदेशात्ॠत इद्धातो॑रिति इत्वम् । समाहारद्वन्द्वे तु नपुंसकह्रस्वत्वे सति इत्वं न स्यात् । ज्ञ इति । जानातीति ज्ञः ।आतो लोप इटि चे॑त्यालोपः ।

Padamanjari

इगुपधज्ञाप्रीकिरः कः॥ इगुपधादीनां समाहारद्वन्द्वे नपुंसकत्वेन ह्रस्वप्रसङ्गदितरेतरयोगे द्वन्द्वः, व्यत्ययेन भ्यसः पञ्चम्येकवचनम्। तत्र कृशब्दस्य धात्वनुकरणत्वात्प्रकृतिवदनुकरणम्, विभक्तावित्वम्। ज्ञ इति। ठातो लोप इटि चऽ प्रिय इति।’प्रीञ् तर्पणे’ ,इयङदेशः। किर इति।’कृ विक्षेपे’ ,ठृत इद्धातोःऽ। पचादिषु द्रष्टव्या इति यद्यप्यजपि तृजादिवत्सर्वधातुभ्यो भवति, तथाप्यपवादबाधनार्थमेते पचादिष्ववश्यं पाठ।ल इत्यर्थः॥

Nyaas

विक्षिपः इति। कित्त्वाद्गुणाभावः। ज्ञः इति। आतो लोप इटि च (6.4.64) इत्याकारलोपः। प्रियः इति। प्रीञ् तर्पणे (धातुपाठः-1836), इयङ। किरः इति। कृ? विक्षेपे (धातुपाठः-1409), ऋत इद्धातोः (7.1.100) इतीत्त्वम्, रपरत्वम्। अथ कथं देवादयः सिध्यन्ति, यावता दिवादीनामिगुपधत्वात् के कृते दिवः, सिव इत्येवमादिना रूपेण भवितव्यम्?? अत आह - देवसेव इत्यादि। आदिशब्दः प्रकारे॥बाल-मनोरमाओरावश्यके 703, 3.1.135 ओरावश्यके। लाव्यं पाव्यमिति। अचो ञ्णिती`ति वृद्धौ `वान्तो यी त्यवादेशः। बाल-मनोरमाइगुपधज्ञाप्रीकिरः कः 714, 3.1.135 इगुपधज्ञा। कृ? विक्षेपे इत्यस्य इत्त्वे रपरत्वे च किरिति रेफान्तम्। इगुपध, ज्ञा, प्री, किर् एषां द्वन्द्वात्पञ्चमी। कित्त्वं गुणनिषेधार्थम्। ज्ञ इति। आतो लोपः। प्रिय इति। प्रीञ् के इयङ्। किर इति। कृधातोः कप्रत्यये इत्त्वे रपरत्वम्।

Prakriyasarvasvam

इगुपधेभ्यो ज्ञादेश्च कः स्यात् । कित्त्वादगुणः । लिखः । बुधः । मृपादेरि- गुपधत्वेऽपि पचाद्यज्निष्टः । सर्पः, मेषः, योधः, इत्यादिप्रयोगा ज्ञेयाः । ज्ञा अ ।

Sutra Prayogas

  • पुष्परेणूत्किरैः (रघुवंशम्): इगुपधज्ञाप्रीकिरः कः इति किरतेः कप्रत्ययः।

  • दिवौकसः (रघुवंशम्): इगुपधज्ञाप्रीकिरः कः इति कप्रत्ययः।

  • सर्वज्ञः (रघुवंशम्): इगुपधज्ञाप्रीकिरः कः इति कप्रत्ययः।

  • गुणज्ञः (रघुवंशम्): इगुपधज्ञाप्रीकिरः कः इति कप्रत्ययः।

  • विनियोगज्ञः (रघुवंशम्): इगुपधज्ञाप्रीकिरः कः इति कप्रत्ययः।

  • यस्याग्रसरोरुहाणि (कुमारसम्भवम्): इगुपधज्ञाप्रीकिरः कः इति कप्रत्ययः।

  • शिरोरुहैः (कुमारसम्भवम्): इगुपधज्ञाप्रीकिरः कः इति कप्रत्ययः।

  • सात्यन्तहिमोत्किरानिलाः (कुमारसम्भवम्): इगुपधज्ञाप्रीकिरः कः इति कप्रत्ययः।

  • कुसुमोत्किरवीचिषु (कुमारसम्भवम्): इगुपधज्ञाप्रीकिरः कः इति कप्रत्ययः।

  • प्रियत्वे (किरातार्जुनीयम्): इगुपधज्ञाप्रीकिरः कः इति कप्रत्ययः।

  • प्रिया (किरातार्जुनीयम्): इगुपधज्ञाप्रीकिरः कः इति कप्रत्ययः।

  • रुचः (किरातार्जुनीयम्): इगुपधज्ञाप्रीकिरः कः इति कः।

  • क्षितिरुहजालम् (किरातार्जुनीयम्): इगुपधज्ञाप्रीकिरः कः इति कप्रत्ययः।

  • बहुसमरनयज्ञः (किरातार्जुनीयम्): इगुपधज्ञाप्रीकिरः कः इति सूत्रेण अत्र कप्रत्ययो न भवति (निषेधः)।

  • हिरण्मयोर्वीरुहवल्लितत्नुभिः (शिशुपालवधम्): इगुपधज्ञाप्रीकिरः कः इति कप्रत्ययः।

  • उच्चारणज्ञे (शिशुपालवधम्): इगुपधज्ञाप्रीकिरः कः इति सूत्रस्य निषेधः/चर्चा।

  • गुणदोषकोविदः (शिशुपालवधम्): इगुपधज्ञाप्रीकिरः कः इति कप्रत्ययः।

  • अ-सद्-बन्धु-विधोपज्ञं (भट्टिकाव्यम्): इगुपध इति कः ।