31136: आतश्चोपसर्गे

Padacheda: आतः | S | 5 | 1 |

च | S | 0 | 0 |

उपसर्गे | S | 7 | 1 |

Sutrartha


Vasu English Summary

Also after a verb ending in long आ when there is a preposition along with it, the affix क is placed.

Vasu English Translation

Also after a verb ending in long आ when there is a preposition along with it, the affix क is placed. This is an apavada of (3.1.40), and debars the affix ण. Thus प्रस्था + क = प्रस्थ + अ = प्रस्थः (6.4.64). सुग्लै + क = सुग्ल + अ = सुग्लः ‘very weary’ (आ substituted for ऐ by (VI.I.45.)) सुम्लै + क = सुम्ला + अ = सुम्लः ‘very languid’.

The final आ is dropped before the affix क by rule (6.4.64). There is elision of long आ when an ardhadhatuka affix follows beginning with a vowel and having an indicatory क or ङ.

Kashika

आकारान्तेभ्यो धातुभ्य उपसर्ग उपपदे कप्रत्ययो भवति। णस्यापवादः। प्रस्थः। सुग्लः। सुम्लः॥

Siddhanta Kaumudi

कः स्यात् ।श्याद्व्यधा - (SK2903) इति णस्यापवादः । सुग्लः । प्रज्ञः ॥

Laghu Siddhanta Kaumudi

प्रज्ञः। सुग्लः॥

Balamanorama

आतश्चोपसर्गे - आतश्चोपसर्गे । कः स्यादिति । शेषपूरणम् । उपसर्गे उपपदे आदन्ताद्धातोः कः स्यादिति फलति । णस्यापवाद इति । तस्य उपसर्गेऽनुपसर्गे च आदन्तसामान्यविहितत्वादिति भावः । सुग्ल इति । ग्लैधातोः ‘आदेचः’ इत्यात्वे कृते कप्रत्यये आतो लोप इति भावः । प्रज्ञ इति । ज्ञाधातोरातो लोपः ।

Nyaas

णप्रत्ययस्यापवादः इति। श्याद्व्यध (3.1.141) इत्यादिना प्राप्तस्य। सुग्लः इति। ग्लै म्लै हर्षक्षये (धातुपाठः-903,904)॥

Prakriyasarvasvam

सोपसर्गादादन्तात् कः स्यात् । सुदः । सुयः । ‘कविषये (सर्वत्र) प्रसारिणिभ्यो डो वाच्यः’ (वा० ३-२-३) । आह्वा अ ।

Sutra Prayogas

  • संविधाम् (रघुवंशम्): आतश्चोपसर्गे इति कप्रत्ययः।

  • मरुत्सखाभं (रघुवंशम्): आतश्चोपसर्गे इति कप्रत्ययः।

  • नयनसमुत्थं (रघुवंशम्): आतश्चोपसर्गे इति कप्रत्ययः।

  • दरीमुखोत्थेन (कुमारसम्भवम्): आतश्चोपसर्गे इति कप्रत्ययः।

  • कुलप्रतिष्ठां (कुमारसम्भवम्): आतश्चोपसर्गे इति कः प्रत्ययः।

  • केकय्युपज्ञं (भट्टिकाव्यम्): आतश्चोपसर्गे इति खियामङ्।

  • कपि-विश्वं-भराऽधिपम् (भट्टिकाव्यम्): आतश्चोपसर्गे इति कः प्रत्ययः।