31139: ददातिदधात्योर्विभाषा¶
Padacheda: ददाति-दधात्योः | S | 5 | 2 |
विभाषा | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix श is optionally used after the root दा ‘to give’ and धा ‘to hold’, when used without a preposition.
Vasu English Translation¶
The affix श is optionally used after the root दा ‘to give’ and धा ‘to hold’, when used without a preposition. This debars ण. Thus ददः ‘giving’; or दायः ‘inheritance’; दधः ‘holding’ or धायः ‘having’.
When a preposition is used, the affix श is not employed; as प्रदः, प्रधः.
Kashika¶
दाञो धाञश्च विभाषा शप्रत्ययो भवति। णस्यापवादः। ददः, दायः। दधः, धायः। अनुपसर्गादित्येव — प्रदः। प्रधः॥
Siddhanta Kaumudi¶
शः स्यात् । ददः । दधः । पक्षे वक्ष्यमाणो णः । अनुपसर्गादित्येव । प्रदः । प्रधः ॥
Balamanorama¶
ददातिदधात्योर्विभाषा - ददातिदधात्योर्विभाषा । दाञ्, धाञ्, आभ्यां शो वा स्यात् । ददः दध इति । शः, शप्, श्लुः । ‘श्लौ’ इति द्वित्वम् । आतो लोपः । वक्ष्यमाण इति । ‘स्याद्व्यदे’ त्यनेनेति भावः । प्रदः प्रध इति । ‘आतश्चोपसर्गे’ इति कः ।
Tattvabodhini¶
ददातिदधात्योर्विभाषा - ददातिदधात्योर्विभाषा । ददः दध इति । शे परेजुहोत्यादिभ्य॑ इति श्ल,श्लौ॑ इति द्वित्वम् । अपित्सार्वदातुकस्य शस्य ङित्त्वात्आतो लोपः॑ इत्यालोपः । वक्ष्यमाणो ण इति ।श्याद्व्यधे॑ति णप्रत्यये आतो युकि — दायः धायः । प्रदः प्रध इति ।आतश्चोपसर्गे॑ इति कः । स्यादेतत् — दद दाने, दध धारणे, आभ्यामचि ददो दध इति सिद्धम्, दाधाभ्यामादन्तलक्षणे णप्रत्यये दायो धाय इत्यपि, ततश्चेदं सूत्रं व्यर्थमिति चेत् । सत्यम् । स्वरार्थमिदं सूत्रम् । अददः अदधः । इह हि अव्ययपूर्वपदप्रकृतिस्वर इष्यते । अजन्तत्वे तुअच्कावशक्ता॑ वित्यन्तोदात्तत्वं स्यात् ।
Padamanjari¶
ददातिदधात्योर्विभाषा॥ ददः, दध इति। शपः श्लुः, द्विर्वचनम्,’श्नाभ्यस्तयोरातः’ इत्याकारलोपः।’दद दाने’ ‘दध धारणे’ इत्येताभ्यामचि कृते ददः दध इति सिद्धम्, दाधाभ्यामपि णे कृते दायो धाय इति, इदं तु वचनं स्वरार्थम् - अददः अदध इति ठच्कावशक्तौऽ इत्यन्तोदात्वं मा भूत्, नञ्स्वर एव यथा स्यादिति॥
Nyaas¶
णस्यापवादः इति। श्याद्व्यध (3.1.141) इत्यादिना प्राप्तस्य। कस्य त्वपवादो न भवति; अनुपसर्गादित्यनुवृत्तेः। ददः,दधः इति। शे कृते शप्। तस्य जुहोत्यादित्वात् श्लुः, श्लौ (6.1.10) इति द्विर्वचनम्, श्नाभ्यस्तयोरातः (6.4.112) इत्याकारलोपः। दायः इति। आतो युक् (7.3.33) । प्रदः इति। आतश्चोपसर्गे (3.3.106) इति कः। ननु च दद दाने (धातुपाठः-17), दध धारणे (धातुपाठः-8)- इत्येताभ्यमचि कृते ददो दध इति, दा धा - इत्येताभ्यामपि णे कृते दायो धाय इति भविष्यति, तत्किमित्यनेन सूत्रेण? नैतदस्ति; अचि हि सति अच्कावशक्तौ (6.2.157) इत्यन्तोदात्तत्वं स्यात्। शे तु नञ्स्वर एव भवति - अददः, अदध इति॥
Prakriyasarvasvam¶
अनुपसर्गयोर्दाञ्धाञोः शो वा स्यात् । शपि कृते,
Sutra Prayogas¶
ददैर् (भट्टिकाव्यम्): ददाति-दधात्योः इति शाणौ भवतः।