31140: ज्वलितिकसन्तेभ्यो णः

Padacheda: ज्वलिति-कसन्तेभ्यः | S | 5 | 3 |

णः | S | 1 | 1 |

Sutrartha


Vasu English Summary

After the verbs beginning with ज्वल ‘to shine’ and ending with कस ‘to go’, when used without a preposition, the affix ण is optionally used.

Vasu English Translation

After the verbs beginning with ज्वल ‘to shine’ and ending with कस ‘to go’, when used without a preposition, the affix ण is optionally used. The word इति in ज्वलति indicates beginning. These are about 56 verbs, all belonging to the Bhvadi class. See No. 804 to 860 in the Dhatupatha, Bombay Edition in the Appendix to Sidhanta Kaumudi.

This debars the affix अच्; as ज्वालः or ज्वलः; चालः or चलः.

The affix ण (अ) having an indicatory ण्, causes the vriddhi of the penultimate अ. When the affix ण is not used, then अच् is used and we have the other form. But compound verbs take अच्; as प्रज्वलः ‘luminous’.

Vart:- The verb तन ‘to stretch’ must be included in this list, and it takes the affix ण; as अवतान. The conditions ‘option’ and ‘without preposition’ do not apply in this case. The verb तन् necessarily takes this affix, though compounded with an upasarga.

Bhashya

ज्वलितिकसन्तेभ्यो णः (757) (466 णप्रत्ययविधिसूत्रम्॥ 3 । 1 । 6 आदृ 29) (1995 न्यूनतापूरकवार्तिकम्॥ 1 ॥) - तनोतेर्नउपसंख्यानम्- (भाष्यम्) तनोतेर्न उपसंख्यानं कर्तव्यम्। अवतनोतीत्यवतानः॥ ज्वलितिक॥ 140 ॥

Kashika

इतिशब्द आद्यर्थः। ज्वल दीप्तौ इत्येवमादिभ्यो धातुभ्यः कस गतौ इत्येवमन्तेभ्यो विभाषा णप्रत्ययो भवति। अचोऽपवादः। ज्वालः, ज्वलः। चालः, चलः। अनुपसर्गादित्येव — प्रज्वलः॥ तनोतेर्णस्योपसंख्यानं कर्तव्यम्॥ अवतनोतीत्यवतानः॥

Siddhanta Kaumudi

इति शब्द आद्यर्थः । ज्वलादिभ्यः कसन्तेभ्यो णः स्याद्वा । पक्षेऽच् । ज्वालः । ज्वलः । चालः । चलः । अनुपसर्गादित्येव । उज्ज्वलः ।<!तनोतेरुपसंख्यानम् !> (वार्तिकम्) ॥ इहानुपसर्गादिति विभाषेति च न संबध्यते । अवतनोतीत्यतानः ॥

Balamanorama

ज्वलितिकसन्तेभ्यो णः - ज्वलिति । आद्यर्थ इति । तथा च ज्वल् इति = आदिर्येषां ते ज्वलितयः, ते च ते कसन्ताश्चेति ज्वलितिकसन्ताःष तेभ्य इति विग्रहः । तदाह — ज्वलादिभ्य इति ।ज्वल दीप्तौ इत्यारभ्य ‘कस गतौ’ इत्येवमन्तेभ्य इत्यर्थः । वा णः स्यादिति.विभाषेत्यनुवर्तते इति भावः । पक्षेऽजिति । ‘इगुपधेभ्यः कः’ इत्यपि बोध्यम् । उपसङ्ख्यानमिति ।णस्ये॑ति शेषः । न संबध्यते इति । ‘अवतानः’ इत्येव भाष्ये उदाहरणादिति भावः ।

Tattvabodhini

ज्वलितिकसन्तेभ्यो णः - इतिशब्द आद्यर्थ इति । निपातानामनेकार्थत्वादिति भावः ।

Padamanjari

ज्वलितिकसन्तेभ्यो णः॥ इतिशब्द आद्यर्थ इति। अनेकार्थत्वान्निपातानाम् ठुच्चावचेष्वर्थेषु निपतन्तीति निपाताःऽ इति निरुक्तकारो निपातशब्दं निराह। ज्वलितीत्यविभक्तिको निर्द्देशः, ज्वलादिभ्य इत्यर्थः। कसिरन्ते येषां ते कसन्ताः, तत्र ये कसमधीत्य वृदिति पठन्ति तेषां मते कसन्तग्रहणं चिन्त्यप्रयोजनम्। ननु च’ज्वल दीप्तौ’ इति द्विः पठ।ल्ते - घटादिषु, परस्ताच्च; तेषामसत्यस्मिन्विशेषणे सन्देहः स्यात् - किं पूर्वो ज्वलिरादिः? उत पर इति? अतः कसः समीपभूतेभ्यो ज्वलादिभ्य इति विशेषणमर्थवत्, नैतत्सुष्ठूअच्यते; यद्यन्तशब्दः समीपवचनः, बहुव्रोहौ तत्पुरुषे च कसेर्ग्रहणं न प्राप्नोति, पूर्वत्र ज्वलतावादावभिप्रेते तदनन्तर एव धातुरुपादीयेत; परोपदेशेनैव ज्वलतेर्ग्रहणसिद्धेः। घटादिपाठश्च मित्संज्ञायां चरितार्थः, इतरस्त्वचरितार्थ इति स एवादिर्भविष्यति। अचोऽपवाद इति। तस्यापि सर्वधातुविषयत्वादिति भावः।’भ्रमु चलने’ इत्यस्य ज्वलादिपाठः किमर्थः,यावता पचाद्यचि भ्रम इति सिद्धम्, णेऽप्येतदेव रूपम्,’नोदातोपदेशस्य’ इति पृद्धिप्रतिषेधात्? इहाभ्रम इति ठच्कावशक्तौऽ इति स्वरो मा भूदिति॥

Nyaas

ज्वलिति इति। ज्वल् इति = आदि येषामिति बहुव्रीहि। विभक्तेस्त्वश्रवणम्, सुपां सुलुक् (7.1.39) इति लुप्तत्वात्। कसन्तेभ्यः इति। कसोऽन्ता इति तत्पुरुषः, अन्तशब्द समीपवाची। अथ वा - कसोऽन्त एषामिति बहुव्रीहिः। अन्तशब्दः समीपवाची, मर्यादावाची वा। ज्वल दीप्तौ (धातुपाठः-804,831) इति द्विष्पठते - घटादिषु , परस्ताच्च। तेभ्यः इति। तत्रासत्यस्मिन् विशेषणे सन्देहः स्यात्केभ्यो ज्वलादिभ्य इति? अतस्तन्निरासार्थं ज्वलादयो विशिष्यन्ते - कसन्ता ये ज्वलादय इति। न घटाद्यन्तर्गणः पर्युदस्तो भवति। कसेः परत्वाद्ये पठन्ते तन्निवृत्त्यर्थं कसग्रहणं न भवति, कसमधीत्य वृदिति पाठात्। ननु च घटादिषु ज्वलादीनां पाठो मित्संज्ञार्थः, तत्र विनापि कसन्तग्रहणं कसन्ता एव ग्रहीष्यन्ते,तदनर्थकमिदं विशेषणम्? नैतदस्ति; असति हि तस्मिन् पूर्वेषां ज्वलादीनामुभयार्थः पाठः स्यात् - मित्त्वार्थः प्रत्ययार्थश्च। इतरेषां तु प्रत्ययार्थ एव। तस्मात् कसग्रहणं कर्तव्यम्। अचोऽपवादः इति। ज्वलादीनां पचाज्यन्तः पातित्वात्।तनोतेर्णस्योपसंख्यानं कर्तव्यम् इति। णे विधातव्ये तनोतेरपि णस्य प्रतिपादनं कर्तव्यम्। प्रतिपादनं तूत्तरत्र चकारस्यानुक्तसमुच्चयार्थत्वात् कर्तव्यम्॥

Prakriyasarvasvam

इतिराद्यर्थे । अनुपसर्गेभ्यो ज्वलादिभ्यः कसिपर्यन्तेभ्यो वा णः स्यात् । विकल्पात् पचाद्यच् । ज्वलतीति ज्वालः, ज्वलः । चालः, चलः । इत्यादि ।

Vartika

तनोतेर्ण उपसंख्यानम् ।

Sutra Prayogas

  • चारदूतिकथितं (रघुवंशम्): ज्वलितिकसन्तेभ्यो णः इति णप्रत्ययः।

  • ज्वलो (भट्टिकाव्यम्): ज्वलिति- कसन्तेभ्यो णः इति णस्य विकल्पनात्पचाद्यच्।