31124: ऋहलोर्ण्यत्

Padacheda: ऋ-हलोः | S | 6 | 2 |

ण्यत् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix ण्यत् comes after a verb that ends in ऋ (long or short) or in a consonant.

Vasu English Translation

The affix ण्यत् comes after a verb that ends in ऋ (long or short) or in a consonant. The phrase ॠहलोः is in the genitive case dual number, the force of genitive here being that of ablative. As कृ + ण्यत् = कार्यम् ‘to be made’; हृ + ण्यत् = हार्य nom. sing. हार्यम् ‘to be taken’; धृ + ण्यत् = धार्यं; ‘to be held’; वच् + ण्यत् = वक् + ण्यत् (7.3.52) = वाक्यं (VII.2. II6) ‘to be spoken’; पच् + ण्यत् = पाक्यम्.

Bhashya

ऋहलोर्ण्यत् (741) (454 ण्यत्प्रत्ययविधिसूत्रम्॥ 3 । 1 । 6 आ. 17) (1968 वार्तिकम्॥ 1 ॥) - पाणौ सृजेर्ण्यद्विधिः- (भाष्यम्) पाणौ सृजेर्ण्यद्विधेयः। पाणिर्सग्यारज्जुः॥ (1969 वार्तिकम्॥ 2 ॥) - समवपूर्वाच्च- (भाष्यम्) समवपूर्वाच्चेति वक्तव्यम्। समवर्सग्या रज्जुः॥ (1970 वार्तिकम्॥ 3 ॥) - लपिदभिभ्यां च- (भाष्यम्) लपिदभिभ्यां चेति वक्तव्यम्। अपलाप्यम्। अपदाभ्यम्॥ ऋहलो ॥ 124 ॥

Kashika

पञ्चम्यर्थे षष्ठी, ऋवर्णान्ताद् धातोर्हलन्ताच्च ण्यत् प्रत्ययो भवति। कार्यम्। हार्यम्। धार्यम्। वाक्यम्। पाक्यम्॥

Siddhanta Kaumudi

ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्स्यात् । कार्यम् । वर्ष्यम् ॥

Laghu Siddhanta Kaumudi

ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्। कार्यम्। हार्यम्। धार्यम्॥

Balamanorama

ऋहलोर्ण्यत् - ऋहलोण्र्यत् । पञ्चम्यर्थे षष्ठी । तदाह — ऋवर्णान्तादिति ।

Padamanjari

ऋहलोर्ण्यत्॥ ऋवर्णान्तादिति। अर्तेस्तु ग्रहणं न भवति; हला साहचर्यात्, परं कार्यमिति निर्द्देशाद्, ठीडवन्दवृशंसदुहां ण्यतःऽ इति लिङ्गाच्च॥

Nyaas

पञ्चम्यर्थे षष्ठी इति। व्यत्ययो बहुलम् (3.1.85) इत्यनेन। कस्याः पुनः पञ्चम्या अर्थे षष्ठी? दिग्योगलक्षणायाः। प्रत्ययविधौ हि परश्च (3.1.2) इति सम्बन्धात् पञ्चम्या भाव्यम्॥

Prakriyasarvasvam

ऋवर्णान्ताद्धलन्ताच्च ण्यत् स्यात् । तः स्वरार्थः ।

Vartika

पाणौ सृजेर्ण्यत् ।

Sutra Prayogas

  • आहार्य (भट्टिकाव्यम्): ऋ-हलोत् इति ण्यत्।

  • शोच्या (भट्टिकाव्यम्): ऋ - हलोर्ण्यत् इति ण्यत्।

  • अमावास्या-समन्वये (भट्टिकाव्यम्): इति ना० अ० इति अमावास्यायाः सम्प्राप्तौ अमावास्यायामित्यर्थः।

  • अ-पाक्यैः (भट्टिकाव्यम्): ऋहलोर्ण्यत् इति अपचनीयैः अनुपहतत्वात् ण्यत्।

  • लव्यमिदं (भट्टिकाव्यम्): ऋहलोर्ण्यत् इति ण्यत्।