31122: अमावस्यदन्यतरस्याम्

Padacheda: अमावस्यत् | S | 1 | 1 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

Optionally the word अमावस्या is irregular.

Vasu English Translation

Optionally the word अमावस्या is irregular. The word अमा means ‘along’ or ‘together’. अमा in composition with the root वस् ‘to dwell’, takes the affix ण्यत् in the sense of location of time. Optionally the Vriddhi is not substituted in such a case. The time or the day on which the sun and the moon dwell together in the same constellation is called अमावास्या or अमावस्या.

The final त in अमावस्यत् is indicatory and is for the sake of showing where should the proper accent fall.

The two forms अमावस्या or अमावास्या are the same word, and a fortiori a rule made with regard to one will be made applicable to the other. And to this effect there is a paribhasha which declares एकदेशविकृतस्यानन्यत्वम् ; ‘that which has undergone a change in regard to one of its parts, is by no means in consequence of this change, something else than what it was before the change had taken place’. Therefore *sutra*(4.3.30), though it, in terms, says अमावास्याया वा is made applicable to the form अमावस्या also.

Bhashya

अमावस्यदन्यतरस्याम् (739) (452 ण्यत्प्रत्ययवृद्धिविकल्पविधिसूत्रम्॥ 3 । 1 । 6 आ. 15) (आक्षेपभाष्यम्) कस्यायमनुबन्धः?। (समाधानभाष्यम्) प्रधानस्य। (समाधानबाधकभाष्यम्) यदि प्रधानस्य। अमावस्या इत्येवं स्वरः प्रसज्येत। अमावस्या इति चेष्यते। तथा अमावास्याग्रहणेनामावस्याग्रहणं न प्राप्नोति॥ (समाधानभाष्यम्) एवं तर्हि निपातनस्य॥ (समाधानबाधकभाष्यम्) यदि तर्हि निपातनान्यप्येवंजातीयकानि भवन्ति श्रोत्रियंश्छन्दोधीते इति व्यपवर्गाभावात् ञ्ञ्नित्याद्युदात्तत्वं न प्राप्नोति॥ (समाधानभाष्यम्) एवं तर्हि - - (1936 श्लोकवार्तिकम्॥ 1 ॥) - अमावसोरहं ण्यतोर्निपातयाम्यवृद्धिताम्- तथैकवृत्तिता तयोः स्वरश्च मे प्रसिध्यति॥ (भाष्यम्) अमा॥ 122 ॥

Kashika

अमाशब्दः सहार्थे वर्तते। तस्मिन्नुपपदे वसेर्धातोः कालेऽधिकरणे ण्यत् प्रत्ययो भवति, तत्रान्यतरस्यां वृद्ध्यभावो निपात्यते। सह वसतोऽस्मिन् काले सूर्यचन्द्रमसावित्यमावास्या, अमावस्या। एकदेशविकृतस्यानन्यत्वात्**अमावास्याया वा** (४.३.३०) इत्यत्रामावस्याशब्दस्यापि ग्रहणं भवति।

अमावसोरहं ण्यतोर्निपातयाम्यवृद्धिताम्।

तथैकवृत्तिता तयोः स्वरश्च मे प्रसिध्यति॥

Siddhanta Kaumudi

अमोपपदाद्वसेरधिकरणे ण्यत् । वृद्धौ सत्यां पाक्षिको ह्रस्वश्च निपात्यते । अमा सह वसतोऽस्यां चन्द्रार्कावमावस्या । अमावास्या । ऋहलोर्ण्यत् (SK2872) । चजोः (SK2863) इति कुत्वम् । पाक्यम् ।<!पाणौ सृजेर्ण्यद्वाच्यः !> (वार्तिकम्) ॥ ऋदुपधलक्षणस्य क्यपोऽपवादः । पाणिभ्यां सृज्यते पाणिसर्ग्या रज्जुः ।<!समवपूर्वाच्च !> (वार्तिकम्) ॥ समवसर्ग्या ॥

Balamanorama

अमावस्यदन्यतरस्याम् - अमावस्यद । अधिकरणे इति । निपातनलभ्यमिदम् ।अमे॑त्यस्य विवरणम् — सहेति ।ऋहलोण्य॑दित्यनुपदमेव प्राक् प्रसङ्गाद्व्याख्यातमपि सूत्रक्रमात्पुनरुपात्तम् । कुत्वमिति । पचेण्र्यतिचजो॑रिति कुत्वमिति भावः । ननुपाणौ सृजेण्र्य॑दिति व्यर्थम्,ऋहलो॑रित्येव सिद्धेरित्यत आह — ऋदुपधलक्षणस्येति ।ऋदुपदाच्चाऽकॢपिचृतेः॑ इति ण्यदपवादस्य क्यपो बाधनाथमतित्यर्थः । पाणिसग्र्या रज्जुरिति । ण्यतिचजो॑रिति कुत्त्वम् । समवपूर्वाच्चेति । वार्तिकमिदम् ।सृजेण्र्य॑दिति शेषः ।

Tattvabodhini

अमावस्यदन्यतरस्याम् - वृद्धौ सत्यामिति । तेनअमावास्याया वे॑ति विहितस्तद्धितो ह्रस्वपक्षेऽपि सिध्यति, एकदेशविकृतरयाऽनन्यत्वात् । यदि तु यत्प्रत्ययान्तस्येदं पाक्षिकं निपातनमित्याश्रीयेत तदा यता मुक्तेऽधिकरणे ण्यदेव तावद्दुर्लभः । अथापि बाहुलकाल्लभ्येत, एवमपि ण्यदन्तमनूद्य विहितस्तद्धितो यदन्तान्न स्यादिति दिक् । ऋहलोः । पञ्चम्यर्थे षष्ठी ।ऋ॑ इति ऋधातोर्न ग्रहमं किंतु ऋवर्णस्य, हला साहचर्यात्, परं कार्यमिति निर्देशात्,ईडवन्दे॑ इत्यादिलिङ्गाच्च ।ऋहलो॑रित्येतदनुवर्तमानस्य धातोर्विशेषणं । विशेषणेन तदन्तविधिस्तदेतदाह - ऋवर्णान्तादिति । अत्रेदमवधेयं — मूलपुस्तकेषु सर्वत्रविभाषा कृवृषो॑रित्यत्र पक्षे ण्यद्भवतीति वक्तुंऋहलोण्र्य॑दिति सूत्रं पठित्वा पश्चात्युग्यं च पत्रे॑,अमावस्यदन्यतस्या॑मिति पठितम् । मनोरमायां तु सूत्रपाठक्रमेणयुग्यं च पत्रे॑,अमावस्यदन्यतरस्या॑मिति व्याख्यायऋहलोण्र्य॑दितिसूत्रं व्याख्यातं तथैवात्रापि व्याख्यातमिति ।

Padamanjari

अमावस्यदन्यतरस्याम्॥ अमाशब्दः सहार्थे वर्तत इति। अमात्य इत्यादौ दर्शनात्। तस्मिन्नुपपद इति। उपपदत्वमपि निपातनादेव, अमेति वा सप्तम्या लुका निर्देशः। तकारोच्चारणात्प्रकृतस्य क्यपस्तावन्निपातनं न भवति। यदि तु परमप्रकृतस्य यतो निपातनं स्यात् स्वरे दोषः - स्यात् - यति सति वस्याशब्दे’यतो’ नावःऽ इत्याद्यौदातत्वम्; कृदुतरपदप्रकृतिस्वरत्वेऽपि स एव स्वरोऽवतिष्ठेत, ण्यति त्वन्तस्वरितत्वं भवति। तथा यता मुक्तेऽमावास्येत्यधिकरणे ण्यन्न प्राप्नोति,’कृत्यल्युटो बहुलम्’ इति भविष्यति। एवमप्युपपदसमासो न प्राप्नोति? मयूरव्यंसकादित्वाद्भविष्यति। एवमपि’गतिकारकोपपदात्’ इति स्वरो न प्राप्नोति? तथा ठमावास्याया वाऽ इति ण्यदन्तस्य यत्कार्थ तद्यदन्तस्यामावस्यशब्दस्य न स्याद्, भिन्नत्वात्? इति यदन्तपक्षे दोषं द्दष्ट्वा प्रकृतस्यापि ण्यत एव निपातनमित्याह - ण्यत्प्रत्ययो भवतीति। किं तर्हि उच्यते - -ण्यत्प्रत्ययो भवतीति, न पुनर्ण्यत्प्रत्ययो निपात्यत इति? सत्यम्, स एवार्थः, निपातनाद् ण्यत्प्रत्यो भवतीत्यर्थः। अन्यतरस्यां वृद्ध्यभावो निपात्यत इति। ण्यत्प्रत्ययो नित्यः, वृद्ध्यभावस्तु पाक्षिक इत्यर्थः। सह वसत इति। सन्निकृष्टौ वसत इत्यर्थः। यदुक्तम् - ण्यत्प्रत्ययो निपात्यत इति, तत्रायं गुण इत्याह - एकदेशविकृतस्यानन्यत्वादिति। ण्यति ह्यमावास्येति स्वतः प्राप्तं रूपम्, वृद्ध्यभावस्तु तस्यैव विकार इति भावः। यद्वा - -ण्यति वृद्धौ कृतायां पक्षे ह्रस्वोऽपि निपात्यते, स एव वृद्ध्यभाव उक्तः। एवं श्लोकेऽप्यवृद्धितामिति। किमत्र निपात्यत इत्याशङ्कायां श्लोकः - -अमावसोरित्यादि। वृद्धिभावाभावकृतविशेषाश्रयो द्विवचननिर्द्देशः। निपातयामीति। एकस्यैवेति शेषः, अभापूर्वयोर्वसोर्ण्यन्तयोर्मध्य एकस्य वृद्ध्यभावमहं निपातयामीत्यर्थः। सूत्रकारेणैक्यमापन्नस्यैतद्वचनम्। तथा सति किं सिद्धमित्यत्राह - तथेति। एका तद्धितवृत्तिरेकदेशविकृतस्यानन्यत्वाद् एतयोर्द्वयोरपि सिद्ध्यतीत्यर्थः। स्वरश्च मे प्रसिद्ध्यतीति। एवं निपातयतो मम स्वरोऽपि सिद्ध्यति। व्याख्यातः स्वरः॥

Nyaas

अमावस्यत् इति। ण्यत्प्रत्ययान्तमेतन्निपातनम्, न क्यप्प्रत्ययान्तमिति ज्ञापनार्थं तकारानुबन्धोच्चारणम्; अन्यथा क्यपः प्रकृतत्वात् क्यप्प्रत्ययान्तमेतदिति सम्भाव्येत। स चापि तित्प्रत्ययो ण्यदिहाभिप्रेतः, न यत्; अन्यथा हि निपातनमर्थकं स्यात्। यत्प्रकरणे अमावसेरन्यतरस्याम् इत्येव ब्राऊयात्। दोषवत्त्वाच्च यत्प्रत्ययान्तनिपातस्य। दोषस्तूत्तरत्राविष्करिष्यते। यश्च यत्प्रत्ययान्तनिपातने दोषः स क्यबन्तेऽपि सम्प्रसारणाभावश्च निपातयितव्यतामापद्येत; तस्माण्ण्यत्प्रत्ययान्तमेतन्निपातनमिति मत्वाह - कालेऽधिकरणे ण्यत्प्रत्ययो भवति इति। एकदेशविकृतत्वादिना ण्यत्प्रत्ययान्तनिपातनस्य गुणं दर्शयति। वृद्ध्यभावो हि ण्यति निपातितोऽमावस्याशब्द एव। अमावस्याशब्दो नात्रोपतिष्ठते वृद्ध्यभावपक्षे। ततश्च एकदेशविकृतमनन्यवद्भवति (व्या।प।16) इत्यमावस्याशब्दे गृह्रमाणेऽमावास्याशब्दस्यापि ग्रहणं भवति। तेन पूरवाह्णापराह्णाद्र्रामूलप्रदोषावस्काराद्वुन् (4.3.28) इत्यनुवर्तमाने अमावास्याया वा (4.3.30) इत्यमावास्याशब्दे वुन्नणौ विधायमानावमावस्याशब्दस्यापि सिध्यत #ः। अमावसेः इत्यादि। एकस्या अपि प्रकृतेर्वृद्धिभाक्त्वावृद्धिभाक्त्वधर्मभेदेन भेदस्य विवक्षितत्वाद्द्विवचने निर्देशः। अहमित्यात्मानं व्यपदेशयन्नपरेऽन्यथा कुर्वन्तीति सूचयति। ण्यतोः इति। ण्यत्प्रत्ययान्तयोरित्यर्थः। निपातयाम्यवृद्धिताम् इति। अन्यतरस्यामिति शेषः। तेन किं सिध्यीत्याह - तथैकवृत्तिता तयोः इति। प्रसिद्ध्यतीति वक्ष्यमाणेन सम्बन्धः। क्वचित् तथैकवृत्तिताम्िति पाठः। तत्र निपातयामीति प्रकृतेन सम्बन्धः। निपातयामीत्यस्य च साधयामीत्येषोऽर्थः। `तयोः इति। अमावास्याऽमावस्ययोः प्रत्यवमर्शः। वृत्तिः पुनर्वुन्नणोः प्रत्यययोरुत्पत्तिः। एका तुल्या ययोर्वृत्तिस्तावेकवृत्ती,तद्भाव एकवृत्तिता। सा ण्यत्प्रत्ययमुत्पाद्य तत्र वृद्ध्यभावनिपातनेन सिध्यतीति;एकदेशविकृतस्यानन्यत्वात्। स्वरश्च मे प्रसिध्यति इति। तित्स्वरितम् (6.1.185) इति। अन्तस्वरितत्वचेष्टम्। सिध्यति इति। ये त्वमापूर्वस्य वसेर्यतं निपातयन्ति, अन्यतरस्यांग्रहणाच्च पक्षे ण्यतमिच्छन्ति,तेषां यद्यप्यमावस्येति रूपं सिध्यति तथापि यत्प्रत्ययपक्षे स्वरो न सिध्यति; यतोऽनावः (6.1.213) इति स्वरितत्वापवाद आद्युदात्तत्वं वस्याशब्दस्य प्राप्नोति। अमाशब्देनापि समासे कृते गतिकारकोपपदात् कृत् (6.2.139) इतिकृदन्तस्योत्तरपदस्य प्रकृतिस्वरे कृते वस्याशब्द एवाद्युदात्तः स्यात्। अन्तस्वरितस्चेष्यते। एकवृत्तितापि पूर्वोक्ता न सिध्यति;शब्दान्तरत्वात्। एको हि यत्प्रत्ययान्तः अपरश्च ण्यत्प्रत्ययान्त इति ण्यति वृद्ध्यभावो निपात्यते॥

Prakriyasarvasvam

अत्र ण्यति वा वृद्धयभावो निपात्यते । तः स्वरार्थः । सह वसतोस्यां सूर्येन्दू इत्यमावस्या अमावास्या ।

Sutra Prayogas

  • अमावास्या-समन्वये (भट्टिकाव्यम्): अमावस्यदन्यतरस्याम् इति निपातनम्।