31134: नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः¶
Padacheda: नन्दि-ग्रहि-पचादिभ्यः | S | 5 | 3 |
ल्यु-णिनि-अचः | S | 1 | 3 |
Sutrartha¶
Vasu English Summary¶
After the verbs classed as नन्द ‘to be happy’, ग्रह ‘to take’ and पच् ‘to cook’ there are the affixes ल्यु (अन), णिनि (इन्) and अच (अ) respectively.
Vasu English Translation¶
After the verbs classed as नन्द ‘to be happy’, ग्रह ‘to take’ and पच् ‘to cook’ there are the affixes ल्यु (अन), णिनि (इन्) and अच (अ) respectively. The word adi meaning etcetra, is to be joined with every one of the above three words. These three affixes come respectively after the verbs of the above three classes. Thus after the verbs of नन्द class, comes the affix ल्यु; after the verbs of ग्रह class, comes the affix णिनि; after the verbs of पच् class, comes the affix अच्.
The नन्दादि verbs will not be found in one place in the Dhatupatha. The list of the words formed by these affixes have, however, been collected in the Ganapatha. Thus नन्द् + ल्यु = नन्द् + यु (I 3.8) = नन्द् + अन (VI.I.I) = नन्दन nom. sing. नन्दनः ‘son’ (lit. what gladdens). So also from the following causative roots, nouns are formed, meaning names :- वासि - वासनः or वाशनः; मदि - मदनः; दूषि - दूषणः (or भूषणः); साधि - साधनः; वर्धि - वर्धनः; शोभि - शोभनः and रोचि - रोचनः.
The following derivatives are names :- सहि - सहनः; तपि - तपनः; दमि — दमनः
So also the following words :- जल्पनः, रमणः, दर्पणः, सङ्क्रन्दनः, सङ्कर्षणः, संहर्षणः, जनार्दनः, यवनः, पवनः, मधुसूदनः, विभीषणः, लवणः (the ण in लवण is irregular), चित्तविनाशनः, कुलदमनः and शत्रुदमनः.
The ग्रहादि verbs are also nowhere enumerated in a group. The following are, however, those verbs :- ग्रह् - ग्रहिन् nom. ग्राही; उत्सह - उत्साहिन् nom. उत्साही; उद्दस् - उद्दासिन्; उद्भास् - उद्भासिन्; स्था - स्थायिन्; मन्त्र - मन्त्रिन्; सम्मर्द — सम्मर्दिन्. So also the verbs - रक्ष, श्रु, वस्, वप् and शा preceded by नि; as, निरक्षिन्, निश्राविन्, निवासिन्, निवापिन्, निशायिन्. The verbs याचि, व्याहृ, संव्याहृ, व्रज, वद and वस take णिन् when preceded by the negative particle; as, अयाचिन्, अव्याहारिन्, असंव्याहारिन्, अव्राजिन्, अवादिन् and अवासिन्. So also after verbs ending in a vowel when agents are non-conscious beings : as, अकारिन्, अहारिन्. So also, अविनायिन्, अविशायिन्, विशयिन्, विषयिन् (meaning a place) विशायिन् and विषायिन्, अभिभाविन् अपराधिम्, उपरोधिन्, परिभविन् and परिभाविन् ।
The following are पचादि words :- पच, वच, वप, वद, चल, तप, पत नदट्, भषट्, वस् गरत् प्लवट्, तरट्, चीरट्, माहट्, जर, मर, क्षर, क्षम, सूदट्, देवट्, मोरट् सेव, मेष, क्रोध, व्रण, दंश, दश, दम्भ, जारभर, श्वपच, मेघ, कीष, क्षप, मद, रज, दीषट्, चरट् ।
The ट् in नदट् &c., shows that the feminine of these is formed by long ई (4.1.15). The पचादि class is an आकृतिगणः ।
अज्विधिः सर्वधातुभ्यः पठ्यन्ते च पचादयः । अण् बाधनार्थमेवं स्यात् सिध्यन्ति श्वपचादयः ॥
In fact the affix अच् comes after all verbs, and is not exclusively confined to the verbs above enumerated. The affix अव्, therefore, debars अण् and may be taken to be the universal affix, and by its help the forms like श्वपच &c. may be explained.
Bhashya¶
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (751) (432 प्रत्ययविधिसूत्रम्॥ 3 । 1 । 6 आ. 25 ) (1987 इष्टसाधकवार्तिकम्॥ 1 ॥) - अजपि सर्वधातुभ्यः- (भाष्यम्) अजपि सर्वधातुभ्यो वक्तव्यः इहापि यथा स्याद् - भवः सव इति॥ (आक्षेपभाष्यम्) न तर्हीदानीमिदं पचाद्यनुक्रमणं कर्तव्यम्। (समाधानभाष्यम्) कर्तव्यं च। किं प्रयोजनम्?। (1988 गणपाठप्रयोजनवार्तिकम्॥ 2 ॥) - पचाद्यनुक्रमणमनुबन्धासंजनार्थमपवादबाधनार्थं च- (भाष्यम्) अनुबन्धासंजानर्थं तावत्। नदट् नदी। चोरट् चोरी। अपवादबाधनार्थम्। जारभरा श्वपचेति। नन्दिग्रहि॥ 134 ॥
Kashika¶
आदिशब्दः प्रत्येकं संबध्यते। त्रिभ्यो गणेभ्यस्त्रयः प्रत्यया यथासंख्यं भवन्ति। नन्द्यादिभ्यो ल्युः, ग्रहादिभ्यो णिनिः, पचादिभ्योऽच्। नन्दिग्रहिपचादयश्च न धातुपाठतः संनिविष्टा गृह्यन्ते। किं तर्हि? नन्दनरमणेत्येवमादिषु प्रातिपदिकगणेष्वपोद्धृत्य प्रकृतयो निर्दिश्यन्ते। नन्दिवाशिमदिदूषिसाधिवर्धिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायाम् (ग०सू० २२)। नन्दनः। वाशनः। मदनः। दूषणः। साधनः। वर्धनः। शोभनः। रोचनः। सहितपिदमेः संज्ञायाम् (ग०सू० २३)। सहनः। तपनः। दमनः। जल्पनः। रमणः। दर्पणः। संक्रन्दनः। संकर्षणः। संहर्षणः। जनार्दनः। यवनः। मधुसूदनः। विभीषणः। लवणः। निपातनाण् णत्वम्। वित्तविनाशनः। कुलदमनः। शत्रुदमनः। इति नन्द्यादिः॥ ग्रह। उत्सह। उद्दस। उद्भास। स्था। मन्त्र। संमर्द। ग्राही। उत्साही। उद्दासी। उद्भासी। स्थायी। मन्त्री। संमर्दी। रक्षश्रुवसवपशां नौ (ग०सू०२४)। निरक्षी। निश्रावी। निवासी। निवापी। निशायी। याचिव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानाम्। (ग०सू० २५)। अयाची। अव्याहारी। असंव्याहारी। अव्राजी। अवादी। अवासी। अचामचित्तकर्तृकाणाम् (ग०सू० २६)। प्रतिषिद्धानामित्येव — अकारी। अहारी। अविनायी। अविशायी। विशयी विषयी देशे (ग०सू० २७)। विशयी, विषयी देशः। अभिभावी भूते (ग०सू० २८)। अभिभावी। अपराधी। उपरोधी। परिभावी। परिभवी। इति ग्रह्यादिः॥ पच। वच। वप। वद। चल। शल। तप। पत। नदट्। भषट्। वस। गरट्। प्लवट्। चरट्। तरट्। चोरट्। ग्राहट्। जर। मर। क्षर। क्षम। सूदट्। देवट्। मोदट्। सेव। मेष। कोप। मेधा। नर्त। व्रण। दर्श। दंश। दम्भ। जारभर। श्वपच। पचादिराकृतिगणः।
अज्विधिः सर्वधातुभ्यः पठ्यन्ते च पचादयः।
अण्बाधनार्थमेव स्यात् सिध्यन्ति श्वपचादयः॥
Siddhanta Kaumudi¶
नन्द्यादेर्ल्युर्ग्रह्यादेर्णिनिः पचादेरच् स्यात् । नन्दयतीति नन्दनः । जनमर्दयतीति जनार्दनः । मधुसूदनः । विशेषेण भीषयतीति विभीषणः । लवणः । नन्द्यादिगणे निपातनाण्णत्वम् । ग्राही । स्थायी । मन्त्री । विशयी । वृद्ध्याभावो निपातनात् । विषयी । इह षत्वमपि । परिभावी । परिभवी । पाक्षिको वृद्ध्यभावो निपात्यते । पचादिराकृतिगणः । शिवशमरिष्टस्य करे (SK3489) कर्मणि घटोऽठच् (SK1836) इति सूत्रयोः करोतेर्घटेश्चाच् प्रयोगात् । अच् प्रत्यये परे यङिलुग्विधानाच्च । केषांचिद्बाधकबाधनार्थः । पचतीति पचः । नदट् । चोरट् । देवट् । इत्यादयष्टितः । नदी । चोरी । देवी । दीव्यतेः । इगुपध - (SK2897) इति कः प्राप्तः । न्यङ्क्वादिषु पाठात् श्वापकोऽपि । यङोऽचि च (SK2650) इति लुक् । न धातुलोप - (SK2656) इति गुणवृद्धिनिषेधः । चेक्रियः । नेन्यः । लोलुवः । पोपुवः । मरीमृजः ।<!चरिचलिपतिवदीनां वा द्वित्वमच्याक्चाभ्यासस्येति वक्तव्यम् !> (वार्तिकम्) ॥ आगमस्य दीर्घत्वसामर्थ्यादभ्यासह्रस्वो हलादिः शेषः (SK2179) च न । चराचरः । चलाचलः । पतापतः । वदावदः ।<!हन्तेर्घत्वं च !> (वार्तिकम्) ॥ घत्वमभ्यासस्य उत्तरस्य तु अभ्यासाच्च (SK2430) इति कुत्वम् । घनाघनः ।<!पाटेर्णिलुक्चोक्च दीर्घश्चाभ्यासस्य !> (वार्तिकम्) ॥ पाटुपटः ॥ पक्षे चरः । चलः । पतः । वदः । हनः । पाटः । रात्रेः कृति - (SK1008) इति वा मुम् । रात्रिंचरः । रात्रचरः ॥
Laghu Siddhanta Kaumudi¶
नन्द्यादेर्ल्युः, ग्रह्यादेर्णिनिः, पचादेरच् स्यात्। नन्दयतीति नन्दनः। जनमर्दयतीति जनार्दनः। लवणः। ग्राही। स्थायी। मन्त्री। पचादिराकृतिगणः॥
Balamanorama¶
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः - नन्दिग्रहि । नन्दि,ग्रहि, पच एषां द्वन्द्वः । नन्दिग्रहिपचा आदिर्येषामिति विग्रहः । आदिशब्दस्य प्रत्येकमन्वयः फलति । ल्यु , ण्नि, अच् - एषां द्वन्द्वात्प्रथमा । यथासङ्ख्यमन्वयः । तदाह — न्द्यादेरित्यादि । नन्दीति ण्यन्तग्रहणम् । तदाह — नन्दयतीत्यादि । ल्योरनादेशः,णेरनिटी॑ति णिलोपः । मधुं सूदयतीति । मधुरसुरविशेषः, तं सूदयति = केचिदण्यन्ताः । सूत्रे ‘ग्रह उपादाने’ इत्यस्य ग्रहीति इका निर्देशः । सौत्रत्वात् ‘ग्रहिज्ये’ ति संप्रसारणं न । ग्राहीति । ग्रहधातोरदुपधाण्णिनिः । नकारादिकार उच्चारणार्थः । उपधावृद्धिः । विशयीति । विपूर्वात् ‘शीङ् स्वप्ने’ इति धातोर्णिनिः । गुणाऽयादेशौ ।अचोऽञ्णिती॑ति वृद्धिमाशङ्क्याऽऽह — वृद्ध्यभाव इति । विषयीति । ‘षिञ् बन्धने’ अस्मात्कृतषत्वाण्णिनिः । गुणाऽयादेशौ । नन्विह कतं न वृद्धिः, कथं च षत्वं, पदादित्वादित्यत आह — षत्वमपीति । निपातनाद्वृद्ध्यभावः षत्वं चेत्यर्थः । परिभावी परिभवीत्यत्र णित्त्वान्नित्यवृद्धिमाशङ्क्य आह — पाक्षिक इति । ग्रह्रादयो वृत्तौ पठिताः । पचादिराकृतिगण इति । पच वप इत्यादिकतिपयधातून् पठित्वा आकृतिगण इति गणपाठे वचनादिति भावः । गणपाठे आकृतिगणत्ववचनाऽभावेऽप्याह — शिवशमिति । सूत्रे करशब्दस्य पचादिगणेऽपठितस्य कृञोऽच्प्रत्ययान्तस्य, ‘कर्मणि घट’ इति सूत्रे घटेरचि घटशब्दस्य च प्रयोगदर्शनादित्यर्थः । अच्प्रत्यय इति । यङन्तादच्प्रत्यये परेयङोऽचि चे॑ति यहो लुग्विधीयते । नहि पचादिगणे यङन्तं पठितमस्ति । अतोऽपि पचादेराकृतिगणत्वं विज्ञायते इत्यर्थः । पचादेराकृतिगणत्वे नदट् चोरडित्यादीनं तत्र पाठो व्यर्थ इत्यत आह - केषांचिदिति । टकारानुन्धासञ्जानार्थ इत्यर्थः । नन्वेमपि वद चल इत्यादीनामनुबन्धरहितानां तत्र किमर्थः पाठ इत्यत आह — केषांचित्प्रपञ्चार्थ इत । बाधकेति । ‘जारभर’आपचे॑त्यादौ पचाद्यजपवादस्य कर्मण्यणो बाधनार्थं भरपचादीनां पाठ इति भाष्यम् । देवः सेव इत्यादौइगुपधज्ञाप्रीकिरः कः॑ इति विशिष्य विहितस्य कस्य बाधनार्थं च । तदेतदुपपादयति — नदडित्यादि । ननु पचादिगणे आपचशब्दस्य बाधकबाधनार्थत्वे आपाक इति कथमित्यत आह — न्यङ्क्वादिषु पाठाच्छ्वपाकोऽपीति । कदाचिदण्प्रत्ययः,कुत्वं चेत्यर्थः । चेक्रियः, मरीमृज इत्यादौ प्रक्रियां दर्शयति — यङोऽचि चेति । क्रीञादिधातोरचि यङो लुगित्यर्थ- । द्वित्वादौ चेक्री अ इत्यादिस्थितौ आह — न धातुलोप इति । चेक्रिय इति । गुणाऽभावे संयोगपर्वत्वान्न यण् । नेन्य इति । ‘एरनेकाचः’ इति यण् । लोलुव इति । उवङ् । यण्तु न,ओः सुपी॑त्युवक्तेः । मरीमृज इति । अत्र ‘न धातुलोपे’ इति निषेधान्न मृजेर्वृद्धिः । चरिचलीति । एषामच्प्रत्यये परे द्वित्वम्, अभ्यासस्य आगागमश्चेत्यर्थः । ननु ‘चराचर’ इत्यत्राऽभ्यासे रेफादाकारस्य ह्रस्वः स्यात्, हलादिशेषेण तत्र रेफस्यापि निवृत्तिः स्यादित्यत आह — आगागमस्येति । ह्रस्वत्वे सत्यागागमे दीर्घोच्चारणं व्यर्थम्, आगागमस्यैव विधातुं शक्यत्वात् । तथा हलादिशेषेण रेफस्य निवृत्तौ ह्रस्वत्वेऽपि सवर्णदीर्घेण ‘चाचर’ इति सिद्धेर्धीर्घोच्चारणं हलादिशेषाऽभावं गमयतीत्यर्थः । हन्तेरितति । वार्तिकमिदम् । हनधातोरचि घत्वं द्वित्वमापक् चेत्यर्थः । ननूत्तरखण्डेअभ्यासाच्चे॑ति कुत्वसिद्धिः किमर्थमिह घत्वविधानमित्यत आह — घत्वमभ्यासस्येति ।इह विधीयतेट इति शेषः । पाटेरिति । वार्तिकमिदम् । पाटेर्णौ पाटि इत्यस्मादचि णेर्लुक्, द्वित्वम्, अभ्यासस्य ऊगागमः । अभ्यासस्य आकारस्य ह्रस्वे तसय् दीर्घश्चेत्यर्थः । वृद्धिनिवृत्तये णेर्लुग्विधिः । आगमे दीर्घोच्चारणाद्धलादिशेषेण टकारस्य न निवृत्तिः, हलादिशेषे तु आद्गुणे पोपट इति रूपस्य उगागमेऽपि सिद्धेः ।
Tattvabodhini¶
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः - नन्दिग्रहि । द्वन्द्वान्ते श्रूयमाण आदिशब्दः प्रत्येकं संबध्यते । तदाह — नन्द्यादेर्ल्युरित्यादि । मधुसूदन इति । मधुं दैत्यं सूदयतीति विग्रहः । षूद क्षरणे । इह अर्दिसूदिभ्यां कर्मण्यणि प्राप्ते नन्द्यादिपाठाल्ल्युः । विभाषण इति ।भियो हेतुभये षुक् । ग्राहीति । णिनेर्णिदत्त्वादुपधावृद्धिः । स्थायीति । आतो युक् । मन्त्रीति ।मत्री॑ति चुरादाविदित्पाठान्नुम्,णेरनिटी॑ति णिलोपः । विषयीति । षिञ् बन्धने ।धात्वादे॑रिति षस्य सत्वेआदेशप्रत्यययो॑ रिति प्राप्तस्य षत्वस्यसात्पदाद्योरिति निषेधादाह — इह षत्वमपीति ।निपातना॑दित्यनुषज्यते ।परिनिविभ्यः॑ इति सूत्रेसितसये॑ति क्तान्ताऽजन्तसिनोतेग्र्रहणाण्णिन्यन्तसिनोतेर्निपातनं विना षत्वं दुर्लभमिति भावः । जारभरेत्यादि । जारं बिभर्ति, आआनं पचतीति विग्रहः । आपाकोऽपीति । कर्मण्यणपि पक्षे भवतीति भावः । चेक्रिय इति । संयोगपूर्वत्वात्एरनेकाचः॑ इति न यण् । लोलुव इति । इह सुबभवात्ओः सुपी॑ति यणनेतिअचि श्नुधातु॑ इत्युवङ् । मरीमृज इति ।रीगृदुपधस्ये चे॑ति रीगागमः । *चरिचलिपतिवदीनां वा द्वित्वमच्याक्चाभ्यासस्येति वक्तव्यम् । हलादिः शेषश्च नेति । सति तु हलादिःशेषे आगमस्य आदेशस्य वा विशेषो नास्तीत्या-चाऽभ्यासस्येत्येव ब्राऊयादिति भावः । * पाटेर्णिलुक्चोक्च दीर्घश्चाभ्यासस्य । पाटेर्णिलुगिति ।णेरनिटी॑ति लोपे हि प्रत्ययलक्षणन्यायेनपाटूपट॑ इत्यत्रोपधावृद्धिः स्यादिति भावः । इहापि पूर्ववद्ध्रस्वहलादिः शेषयोरभावः ।
Padamanjari¶
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः॥ आदिशब्दः प्रत्येकमभिसम्बद्ध्यत इति। गणपाठादिति भावः। अपोद्धृत्य ये पठ।ल्न्त इति। ते गृह्यन्त इत्यन्वयः। अपोद्धृत्येति बुद्ध्या पृथक्कृत्येत्यर्थः। किमर्थ पुनरपोद्धृत्य प्रत्ययविधानम्, यावता नन्दनादीनां गणपाठादेव सिद्धं साधुत्वम्? उच्यते - असत्यस्मिन्नष्टाध्याय्यां क्वचिदप्यनुपयोगाद्रणत्रपयाठोऽनार्षोऽध्यवसीयेत। नन्दिवाशीत्यादि।’टुअनदि समृद्धौ’ ,’वाशृ शब्दे’ ‘मदी हर्षे’ ,’दुष वैकृत्ये’ ,राध साध संसिद्धौऽ’वृधु वृद्धौ’ ‘शुभ शुम्भ शोभार्थे’ ,रुच दीप्तौऽ। दूषण इति।’दोषो णौ’ इत्यूत्वम्। सहितपीत्यादि।’षह मर्षणे’ , तप सन्तापेऽ’शमु दमु उपशमे’ । जल्पन इत्यादि।’जल्प जप वक्तायां वचि’ । रमु क्रीडायाम्ऽ’द्दप हर्षविमोचनयोः’ ‘क्रदि आह्वाने रोदने च’ ।’कृष विलेखने’ ‘हृषु अलीके’ । ठर्द्द हिंसायाम्ऽ,जनमर्द्दयतीति जनार्दनः, कर्मण्यणि प्राप्ते। एवमुतरत्रापि कर्मण्युपपदे द्रष्टव्यम्।’यु मिश्रणे’ ‘षूद क्षरणे’ । मधुनाऽसुरः, तं सूदयतीति मधुसूदनः।’ञिभी भये’ , णिचि’भियो हेतुभये षुक्’ ।’लूञ् छेदने’ ‘णश अदर्शने’ ‘दमु उपशमे, - ण्यन्तौ, चितं नाशयतीति चितनाशनः, कुलं दमयतीति कुलदमनः। ग्राहीत्यादि।’ग्रह उपदाने’ ,ठ्षह मर्षणे’ ‘तसु उपक्षये’ ‘दसु च’ ‘भस भर्त्सनदीप्त्योः’ । तिष्ठतेरातो युक्।’मत्रि गुप्तभाषणे’ चुरादिः, अर्द्द हिसायाम्। रक्षेत्यादि। रक्ष पालनेऽ’श्रु श्रवणे’ ‘डुवप् बीजसन्ताने’ ‘शो तनूकरणे’ - एषा निशब्द उपपदे णिनिः। याचीत्यादि।’टुअयाचृ याच्ञायाम्’ ‘हृञ् हरणे’ ‘व्रज गतो’ ठ्वदव्यक्तायां वाचिऽ’वस निवासे’ - एषां प्रतिषिद्धानां णिनिभवति, प्रातषिद्धार्थानामित्यर्थः। प्रतिषिद्धार्थता च नञ्पूर्वाणां भवतीति दर्शयति। अयाचीत्यादि। यद्यपि विशब्दोऽपि विगर्द्दभरथिरित्यादौ प्रतिषेधे द्दष्टः, याच्यादीनां तु विपूवाणा णिनिर्न द्दश्यत इति नञ्येव णिनिर्विज्ञायते। अचामित्यादि। अजन्तानां धातूनामचितकर्तृकाणां प्रतिषिद्धार्थानां णिनिर्भवति, न विद्यते चितमस्येत्यचितः स कर्ता येषां ते तथोक्ताः। विशयी विषयीति।’शीङ् स्वप्ने’ ‘षिञ् बन्धने’ , वृद्ध्यभावो निपातनात्। अभिभावी भूत इति। अभिभूतवानभिभावी। अपराधी, अवरोधी। राध साध संसिद्धौऽ,रुधिर् आवरणेऽ। परिभवी, परिभावीति। पक्षे वृद्ध्यभावः। पचेत्यादि।’डुपचष्पाके’ ।’वच परिभाषणे’ ,डुवपिरुक्तार्थः, एवं वदिरपि।’चल कम्पने’ ‘पत्लृ गतौ’ । नदडिति।’नद अव्यक्ते शब्दे’ । ठकारो ङीबर्थः, एवमुतरत्रापि।’भष भर्त्सने’ ,प्लुङ् गतौऽ’चर गत्यर्थः’ ‘गृ निगरणे’ ‘तृ प्लवनतरणयोः’ ‘चुर स्तेये’ ‘दिवु क्रीडादौ’ ‘सूदिरुक्तार्थः,ठ्जृष् वयोहानौ’ ,मृङ् प्राणत्यागेऽ’क्षमूष् सहने’ ‘षिवु तन्तुसन्ताने’ ‘मिष स्पर्द्धायाम्’ ‘कुप क्रोधे’ ‘मिधृ मेधाहिसनयोः’ ‘व्रण गात्रचूर्णने’ चुरादिः,’नृती गात्रविक्षेपे’ ‘द्दशिर्प्रेक्षणे’ ‘सृप्लृगतौ’ ।’डुभृझ् धारणपोषणयाः’ ,जारं विभर्तीति जारभरा। एवं श्वानं पचतीति श्वपचा, न्यङ्क्वदिषु श्वपाकशब्दस्य पाठात्पक्षे कर्मण्यणपि भवति। पचादिराकृतिगण इति। तत्सम्बन्धिन आदिशब्दस्य प्रकारवचनत्वात्। तथा च’शिवशमरिष्टस्य करे’ इति कृञोऽच् प्रत्ययः कृतः। घटेश्च’कर्मणि घटो’ ठच्ऽ इति। तथा यङ्न्तानां’यङे’ चि चऽ इति यङेऽस्मिन्नचि लुगुक्तः। भाष्ये च ठजपि सर्वधातुभ्यो वक्तव्यःऽ इत्युक्तम्। पचाद्यनुक्रमणं तु नदडित्यादावनुबन्धासञ्जनार्थम्, कर्मोपपदानाम् इगुपधानां च बाधकबाधनार्थम्, देवेडित्युभयार्थम्, अन्येषां तु प्रपञ्चार्थ द्रष्टव्यम्॥
Nyaas¶
प्रत्यासत्त्या पचिनैवादिशब्दस्य सम्बन्धो मा विज्ञायीत्यत आह - `प्रत्येकम् इत्यादि।नन्दिवाशि इत्यादि। टुनदि सममृद्धौ (धातुपाठः-67), वाशृ शब्दे (धातुपाठः-1163), मदी हर्षे (धातुपाठः-1208), दुष वैकृत्ये (धातुपाठः-1185), राध साध संसिद्धौ (धातुपाठः-1262,1263), शुभ शुम्भ शोभायाम् (धातुपाठः-1321,1322), रुच दीप्तौ (धातुपाठः-745) - एभ्यो धातुभ्यो ण्यन्तेभ्यः संज्ञायां ल्युर्भवति। नन्दयतीति। नन्दनमित्येवमाद्युदाहरणम्। दूषणम् इति। दोषो णौ (6.4.90) इत्यूत्त्वम्। अण्यन्तानां त्वेषामसंज्ञायां संज्ञायां च तृजादय एव भवन्ति। ग्रह्रादीनां नन्द्यादीनाञ्च गणे पाठस्येदमेव प्रयोजनम् - संज्ञाविशिष्टविषये तेषां साधुत्वं यथा स्यात्। अन्यथा हि प्रकृतीरेव गणे पठित्वेह चादिशब्देन ता उपलक्ष्य प्रत्ययं विदध्यात्। सहितपि इत्यादि। षह मर्षणे (धातुपाठः-1809), तप सन्तापे (धातुपाठः-985), दमु उपशमे (धातुपाठः-1203) - एभ्यः संज्ञायामण्यन्तेभ्यो ल्युः। जल्पनः इत्यादि। जप जल्प व्यक्तायां वाचि (धातुपाठः-397,398), रमु क्रीडायाम् (धातुपाठः-853), दृप {हर्षमोहनयोः-धातुपाठः-} हर्षणमोचनयोः (धातुपाठः-1196), कदि क्रदि आह्वाने रोदने च (धातुपाठः-70,71), कृष विलेखने (धातुपाठः-990) ह्मषु अलोके` (धातुपाठः-709),`अर्द हिंसायाम्` (धातुपाठः-1828), जनमर्दयतीति जनार्दनः, कर्मण्यणि प्राप्ते ल्युः। यु {मिश्रणेऽमिश्रणे च-धातुपाठः-} मिश्रणे (धातुपाठः- 1033), षूद क्षरणे (धातुपाठः-1717), मधुं सूदयतीति मधुसूदनः। अत्रापि कर्मण्यणि प्राप्ते ल्युः। ञिभी भये (धातुपाठः- 1084)। विपूर्वात् हेतुमति च (3.1.26) इति णिच्; भियो हेतुभये षुक् (7.3.40) ।लवणः इति। लूञ् छेदने (धातुपाठः-1483)। निपातनाण्णत्वम् इति। कृतणत्वस्य गणे पाठो निपातनम्। णश अदर्शने (धातुपाठः-1194) विपूर्वः, दमु उपशमे (धातुपाठः-1203)- द्वावप्येतौ हेतुमण्णिजन्तौ। वित्तं विनाशयतीति वित्तविनाशनः। कुलं दमयतीति कुलदमनः। मितां ह्रस्वः (6.4.92) इति ह्रस्वः, कर्मण्यणि प्राप्ते ल्युः।ग्रह इत्यादि। ग्रह उपादाने (धातुपाठः-1533), षह मर्षणे (धातुपाठः-1809) उत्पूर्वः। तसु {उपक्षये - धातुपाठः-}क्षेपणे (धातुपाठः-1212), दसु च (धातुपाठः-1213),दसिवत् पूर्वः। भस भत्र्सनदीप्त्योः (धातुपाठः-1100) उत्पूर्वः। ष्ठा गतिनिवृत्तौ (धातुपाठः-928), आतो युक् (7.3.33) । स्थायी। मत्रि {गुप्तपरिभाषणे धातुपाठः-} गुप्तभाषणे` (धातुपाठः-1679), चुरादिणिजन्तः। मृद क्षोदे (धातुपाठः-1515) संपूर्वः। संमृद्नातीति संपूर्वादेव यथा स्यात्। रक्षश्रुवसवपशां नौ इति। रक्ष पालने (धातुपाठः-658), श्रु श्रवणे (धातुपाठः-942), डुवप बीजतन्तुसन्ताने (धातुपाठः-1003), शो तनूकरणे (धातुपाठः-1145) - एषां निशब्द उपपदे णिनिः। निशायी इति। पूर्ववद्युक्। याचि इत्यादि। टुयाचृ याच्ञायाम् (धातुपाठः-863), ह्मञ् हरणे (धातुपाठः-899) , व्याङ्पूर्वः, पुनः स एव संपूर्वः, वज व्रज गतौ (धातुपाठः-252,253), वद व्यक्तायां वाचि` (धातुपाठः-1009), वस निवासे (धातुपाठः-1005) - एषां प्रतिषिद्धानां णिनिर्भवति। प्रतिषिद्धानाम् इति। प्रतिषिद्धार्थानामित्य्रथः। प्रतिषिद्धार्थतांच नञ्पूर्वाणामेव भवतीति नञ्पूर्वेभ्यो णिनिर्विज्ञायते। कथं पुनः प्रतिषिद्धानां प्रयोग#ः? उपचारसत्तयामप्रतिषेधाददोषः। न हि मुख्यैव पदार्थानां सत्ता; किन्तूपचरिताऽपि यथोक्तमर्थद्वारेण पदार्थानामन्या सत्तौपचारिकीति। तत्र मुख्या या सत्ता तस्या एव प्रतिषेधः, न तु बुद्धिस्थाया औपचारिक्या इति तन्निबन्धनप्रयोगो न विरुध्यते। `अचाम् इत्यादि। अजन्तानां धातूनामचित्तकर्त्तृकाणां प्रतिषिद्धानां णिनिर्भवति। अविद्यमानं चित्तमस्येति अचित्तः स कर्ता येषां ते तथोक्ताः। अर्थद्वारकं चेदं विशेषणम्। अर्थस्य ह्रचित्तकर्त्तृकत्वात् तदभिधायिनो धातव उपचारेण तथोच्यन्ते। विशयी विषयी देशे इति। विशययिविषयिशब्दौ देशेऽभिधेये णिनिप्रत्ययान्तौ साधू भवतः। शीङ स्वप्ने`((धातुपाठः-1032), `षिञ् बन्धने (धातुपाठः-1477) - एतयोर्विपूर्वयोर्णिनिः। वृद्ध्यभावश्च निपातनात्। अभिभावी भूते` इति। अभिभाविशब्दो भूतकाले णिनिप्रत्ययान्तः साधुर्भवति। भवतेरभिपूर्वात् णिनिः। अभिभूतवानित्यभिभावी। अपराधी, उपरोधी इति। राध साध संसिद्धौ (धातुपाठः-1262,1263), रुधिर् आवरणे (धातुपाठः-1438)- आभ्यामपोपपूर्वभ्यां णिनिः। परिभावी, परिभवी इति। भवतेः परिपूर्वस्य। पक्षे वृद्धयभावः।पच इत्यादि। डुपचष् पाके (धातुपाठः-996), वच परिभाषणे (धातुपाठः-1842), डुवपबीजतन्तुसन्ताने {छेदनेऽपि - धातुपाठः-}`(धातुपाठः-1003), `वद व्यक्तायां वाचि (धातुपाठः-1009), चल कम्पने`(धातुपाठः-832), `शल गतौ (धातुपाठः-843), पत्लु गतौ (धातुपाठः-845)। नदट् इति। {णद -धातुपाठः-}नद अवक्ते शब्दे` (धातुपाठः-54)। टकारानुबन्धो ङीबर्थः। {भषट्-काशिका} भसट् इति। {भष भत्र्सने} भस भत्र्सनदीप्त्योः` (धातुपाठः-1100) टकारो ङीबर्थः। गृ निगरणे (धातुपाठः-1410), मिष स्पद्र्धायाम् (धातुपाठः-1352), कुप क्रोधे`(धातुपाठः-1233), `मिह सेचने (धातुपाठः-992), तृ? प्लवनतरणयोः (धातुपाठः-969), चुर स्तेये (धातुपाठः-1534), गाहू विलोडने (धातुपाठः-649), जृष् झृष् वयोहानौ (धातुपाठः-1130,1131), मृङ प्राणत्यागे (धातुपाठः-1403), क्षमूष् सहने (धातुपाठः-442), तुद व्यथने (धातुपाठः-1281), मृद् क्षोदे (धातुपाठः-1515), दिवु क्रीडादौ (धापा।1107), नृती गात्रविक्षेपे (धातुपाठः-1116), व्रण गात्रचूर्णने (धातुपाठः-1937) चुरादिः; दृशिर्प्रेक्षणे (धातुपाठः-988)। डुभृञ् धारणपोषणयोः (धातुपाठः-1087)- अस्माज्जारशब्द उपपदेऽच्। जारं बिभर्तीति जारभरः। पचेः शुन्युपपदे कर्मण्यणपदादोऽच् - आआनं पचतीति आपचः। आकृतिगणः इति। पचादिसम्बन्धिन आदिशब्दस्य प्रकारार्थत्वात्। आकृतिगणत्वे चास्य चक्रधरादयः सिद्धा भवन्ति॥
Prakriyasarvasvam¶
नन्द्यादेर्ल्युः, ग्रहादेर्णिनिः, पचादेरच् स्यात् । सचौ स्वरार्थौ । णिनेरिकारौ ‘हलन्त्यम्’ (१-३-३) इति नलोपाभावार्थः । णो वृद्ध्यर्थः । अत्र भोजः- ‘नन्दिवाशिमदिनर्दिसाधिशोभिरोचिवर्धिभीषिभूषिदूषिसहिदृपिजल्पिभ्यो ल्युः ॥’ योरनः । एषु दूषिपर्यन्ता णिजन्ताः । नन्दि अन । ‘णेरनिटि’ (६-४-५१) इति णिलोपाः । नन्दयतीति नन्दनः । वाशनः शब्दयिता । मदनः । नर्दनः । साषनः । शोधनः । शोभनः । वर्धनः । भीषणः । भूषणः । दूषणः । सहत इति सहनः । दर्पणः । जल्पनः । ‘रमिरुचिकृतितपितृदिदहियुपूभ्यः संज्ञायाम् ॥’ रमयतीति रमणः । विरोचनः । विकर्तनः । तपनः । प्रतर्दनः । दहनः । यवनः । पवनः । ‘लुवो नो णश्च ॥’ नाम्न्येव । लुनाति जाड्यमिति लवणम् । ‘समि क्रन्दिकृषि- हृविभ्यः ॥’ सम्पूर्वात् क्रन्दादेर्नाम्नि ल्युः । सङ्क्रन्दनः । सङ्कर्षणः । संहर्षणः । ‘कर्मणि दम्यादिनाशिसूदिभ्यः ॥’ कर्मण्युपपदे दम्यादेर्ल्युः । शत्रुदमनः । द्विषदर्दनः । रिपुनाशनः । मधुसूदनः । ग्रहादिभ्यस्तु ‘ग्रहिस्थापराधिमन्त्रिसंमर्दिभ्यो णिनिः ॥’ वृद्धिः । ग्राहिन् । सुप्कार्यम् । ग्राही । युक् । स्थायी । अपराधी । मन्त्री । सम्मर्दी । मन्थीत्यपि भट्टिः । ‘उपावयो रुधः ॥’ उपरोधी । अवरोधी । ‘उदि भासिदसि- सहिभ्यः ॥’ उद्भासी । ‘दसु उपक्षये’ । उदासी । उत्साही । ‘श्रुशाविशिवसिव- विरक्षिभ्यो नौ ॥’ निश्रावी । ‘शो तनूकरणे’ ।
Vartika¶
अण्विधिः सर्वधातुभ्यः पठ्यन्ते च पचादयः । अण्बाधनार्थमेव स्यात्, सिध्यन्ति श्चपचादयः ।
Sutra Prayogas¶
योधाः (रघुवंशम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचाद्यच्।
प्रकाशः (रघुवंशम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचाद्यच्।
पाण्डुकपोललम्बान् (रघुवंशम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचादित्वादच्।
मधुमन्मधुमन्मथसंनिभः (रघुवंशम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचादित्वादच्।
कुम्भपूरणभवः (रघुवंशम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचादित्वादच् प्रत्ययः।
प्रार्थनावहः (रघुवंशम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचादित्वादच्।
श्रुतिसुखैः (रघुवंशम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पचाद्यच्) इति अच् प्रत्ययः।
रघूद्वहो (रघुवंशम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचाद्यच्।
संनिभः (रघुवंशम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचादित्वादच् प्रत्ययः।
भीषाणां (रघुवंशम्): नन्द्यादित्वाल्लयुट् इति नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः सूत्रेण ल्युट्-प्रत्ययः।
लवणः (रघुवंशम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति ल्युप्रत्ययः।
रोधोलतापुष्पवहे (रघुवंशम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचादित्वादच्।
सहो (रघुवंशम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचाद्यच्।
जगदन्तो (कुमारसम्भवम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचादित्वादच्।
भूधरताम् (कुमारसम्भवम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति अच् प्रत्ययः।
सहचराः (कुमारसम्भवम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचादित्वादच्।
चारचक्षुषो (किरातार्जुनीयम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचाद्यच्।
रक्षान् (किरातार्जुनीयम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचाद्यच्।
जटाधरः (किरातार्जुनीयम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचाद्यच्।
पयोधरान् (किरातार्जुनीयम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचादित्वादच्।
भीषणम् (किरातार्जुनीयम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति नन्द्यादित्वात् ल्युप्रत्ययः।
उपजापसहान् (किरातार्जुनीयम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचादित्वादच्।
त्राणसहः (किरातार्जुनीयम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचाद्यच्।
भीषणभुजंगभुजः (किरातार्जुनीयम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति ल्युप्रत्ययः।
सहत्वम् (किरातार्जुनीयम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचाद्यच्।
त्रिभुवनगुप्तिसहां (किरातार्जुनीयम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति अच् प्रत्ययः।
पाकशासनः (किरातार्जुनीयम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति नन्द्यादित्वात् ल्युप्रत्ययः।
भीषणा (किरातार्जुनीयम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति नन्द्यादित्वात् ल्युः।
स्वाभासो (किरातार्जुनीयम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचादिगणे पाठात् अच् प्रत्ययः।
स्यन्दना (किरातार्जुनीयम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति नन्द्यादित्वाल्ल्युः।
तनुवारभसो (किरातार्जुनीयम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचाद्यच्।
तुञ्जेशो (किरातार्जुनीयम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचादित्वादच्।
तपोधनभ्यागमसंभवा (शिशुपालवधम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचाद्यच्।
योध (शिशुपालवधम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचाद्यच्।
चारेक्षणो (शिशुपालवधम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचाद्यच्।
धरं (शिशुपालवधम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति अच् प्रत्ययः।
बिडालेक्षणभीषणाभ्यो (शिशुपालवधम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति नन्द्यादित्वाल्ल्युः।
जगतीधरम् (शिशुपालवधम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचाद्यच्।
सहा (शिशुपालवधम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचाद्यच्।
अनिमिषम् (शिशुपालवधम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति अच् प्रत्ययः।
निःसहे (शिशुपालवधम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचादित्वादच्।
परिफुल्लगण्डफलकाः (शिशुपालवधम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचाद्यच्।
विपाटपञ्चरेण (शिशुपालवधम्): नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति पचाद्यच्।
वेदांस्त्रिदशानयष्ट (भट्टिकाव्यम्): नन्दि-ग्रहि पचादि इत्यच् ।
नन्दनानि (भट्टिकाव्यम्): नन्दि इत्यादिना ल्युः।
संक्रन्दनस्य (भट्टिकाव्यम्): नन्दि ग्रहि इत्यादिना ल्युः।
कपि-नन्दनः (भट्टिकाव्यम्): नन्दिग्रहि इत्यादिना ल्युः।
रमणे (भट्टिकाव्यम्): नन्दि इत्यादिना ल्युः।