31130: क्रतौ कुण्डपाय्यसंचाय्यौ

Padacheda: क्रतौ | S | 7 | 1 |

कुण्डपाय्य-संचाय्यौ | S | 1 | 2 |

Sutrartha


Vasu English Summary

The words कुण्डपाय्यः and संचाय्यः are irregularly formed meaning ‘a sacrifice’.

Vasu English Translation

The words कुण्डपाय्यः and संचाय्यः are irregularly formed meaning ‘a sacrifice’. These words are thus formed: कुण्ड + पा (to drink) + यत् = कुण्ड + पा + य + य (7.3.33) = कुण्डपाय्यः ‘the sacrifice in which Soma is drunk with a bowl’. The accent falls on the first syllable by (6.1.213). सम् + चि (to collect) + ण्यत् = सञ्चाय्यः ‘the sacrifice in which Soma is collected’.

If not applied to sacrifices, the forms will be कुण्डपानम् and सञ्चेयः.

Bhashya

क्रतौ कुण्डपाय्यसंचाय्यौ (747) (458 ण्यत्प्रत्ययादिनिपातनसूत्रम् ॥ 3 । 1 । 6 आ.21) (1978 वार्तिकम् ॥ 1 ॥) - कुण्डपाय्ये यद्विधिः- (भाष्यम्) कुण्डपाय्ये यद्विधेयः ॥ कुण्डपाय्यः क्रतुः ॥ क्रतौ कुदृ ॥ 130 ॥

Kashika

कुण्डपाय्य संचाय्य इत्येतौ शब्दौ निपात्येते क्रतावभिधेये। कुण्डशब्दे तृतीयान्त उपपदे पिबतेर्धातोरधिकरणे यत् प्रत्ययो निपात्यते युक् च। कुण्डेन पीयतेऽस्मिन् सोम इति कुण्ड॒पाय्यः॑ (ऋ० ८.१७.१३) क्रतुः। यतोऽनावः (६.१.२१३) इति स्वरः। संपूर्वाच्चिनोतेर्ण्यदायादेशौ निपात्येते। संचीयतेऽस्मिन् सोम इति संचाय्यः क्रतुः। क्रताविति किम्? कुण्डपानम्। संचयः॥

Siddhanta Kaumudi

कुण्डेन पीयतेऽस्मिन्सोमः कुण्डपाय्यः क्रतुः । संचीयतेऽसौ संचाय्यः ॥

Balamanorama

क्रतौ कुण्डपाय्यसंचाय्यौ - क्रतौ कुण्डपाय्य । ऋतुविशेषे गम्ये एतौ निपात्येते । कुण्डेनेति । अत्सरुकैश्चमसैरित्यर्थः । सामान्येनैकवचनम् ।यदत्सरुकैश्चमसैर्भक्षयन्ति तदेषां कुण्ड॑मिति श्रुतिः । कुण्डपाय्य इति । सत्रविशेषात्मकः ऋतुः । कुण्डेनेति तृतीयान्ते उपपदे अधिकरणे ण्यत् । आतो युक् । संचाय्य इति । संपूर्वाच्चिञः कर्मणि ण्यत्, आयादेशश्च निपात्यते इति भावः । संचाय्यो नाम ऋतुविशेषः क्वचिच्छाखायामन्वेषणीयः ।

Tattvabodhini

क्रतौ कुण्डपाय्यसंचाय्यौ - कुण्डपाय्य । कुण्डशब्दे तृतीयान्ते उपपदे पिबतेरधिकरणे यत्प्रत्ययो युगागमश्च निपात्यते । नन्वत्र ण्यदेव निपात्यतां प्रकृत्वात्, एवं चआतो युक् चिण्कृतो॑रितिसिद्धत्वद्युक् न निपातनीय इतिलाघवमस्तीति चेत् । मैवम् । तित्स्वरप्रसङ्गात् । इष्यते तुयतोऽनावः॑ इत्याद्युदात्तः कृदुत्तरपदप्रकृतिस्वरः ।तथा च प्रयुज्यतेप्रणाय्यात् कुण्डपाय्य॑ इति । संपूर्वाच्चिनोतेस्तु ण्यदायौ निपात्येते । क्रतौ किम् । कुण्डपानम् । संचेयम् ।

Padamanjari

क्रतौ कुण्यपाय्यसंचाय्यौ॥ण्यति प्रकृते यत्प्रत्ययान्तः कुण्डपाय्यशब्दो निपात्य इत्युक्तम्, तत्र प्रयोजनमाह - यतोऽनाव इतीति। यदुतरपदस्याद्यौदातत्वं कृदुतरपदप्रकृतिस्वरेण स एव स्वरः सिद्धो भवतीत्यर्थः। ण्यति तु स्वरितत्वं स्यात्॥

Nyaas

पिबतेः इति। पा पाने (धातुपाठः-925)। अधिकरमे यत्प्रत्ययः इति। ल्युटि प्राप्ते। किं पुनः कारणं ण्यतं त्यक्त्वा यत्प्रत्ययान्तः कुण्डपाय्यशब्दो निपात्यते? अत आह - यतोऽनाव इति स्वरः इति। यत्प्रत्ययान्तत्वे ह्रुत्तरपदाद्युदात्तत्वं भवति। ण्यत्प्रत्ययान्तत्वेऽन्तस्वरितत्वं स्यात्। कुण्डपानम् इति। क्रतोरन्यत्र ल्युडेव भवति॥

Prakriyasarvasvam

आद्यो यदन्तः ।

Sutra Prayogas

  • कुण्ड-पाय्य-वतां (भट्टिकाव्यम्): क्रतौ कुण्डपाय्यसंचाय्यौ इति निपातितम्।