31133: ण्वुल्तृचौ¶
Padacheda: ण्वुल्-तृचौ | S | 1 | 2 |
Sutrartha¶
Vasu English Summary¶
The affixes ण्वुल् (अक्) and तृच् (तृ) are placed after all verbal roots, expressing the agent.
Vasu English Translation¶
The affixes ण्वुल् (अक्) and तृच् (तृ) are placed after all verbal roots, expressing the agent. The word ‘root’ is understood in the above aphorism. Thus कृ ‘to do’ + ण्वुल् = कार + यु (VII.2. II5) = कार + अक (VII.I.I) = कारक nom. sing. कारकः ‘doer.’ कृ + तृच् = कर् + तृ (7.3.84) = कर्तृ nom. sing. कर्ता. So also हारकः and हर्ता.
The च् of तृच् is not indicatory, but distinguishes this affix from तृन्; the simple तृ includes both तृच् and तृन्, as in (5.3.59), and (VI.4. I54).
Bhashya¶
ण्वुल्तृचौ (750) (461 प्रत्ययविधिसूत्रम्॥ 3 । 1 । 6 आ. 24) (आक्षेपभाष्यम्) किमर्थश्चकारः। (समाधानभाष्यम्) स्वरार्थः। चितोन्त उदात्तो भवतीत्यन्तोदात्तत्वं यथा स्यात्। (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। एकाजयम्। तत्र नार्थः स्वरार्थेन चकारेणानुबन्धेन प्रत्ययस्वरेणैव सिद्धम्।. (समाधानान्तरभाष्यम्) विशेषणार्थस्तर्हि। क्व विशेषणार्थेनार्थः?। अप्तृन्तृच् - इति। तृ इत्युच्यमाने मातरौ मातरः पितरौ पितर इत्यत्रापि प्राप्नोति॥ (समाधानबाधकभाष्यम्) स्वसृनप्तृग्रहणं नियमार्थं भविष्यति। एतयोरेव योनिसंबन्धयोः, नान्येषां योनिसंबन्धानामिति॥ (समाधानान्तरभाष्यम्) सामान्यग्रहणाविघातार्थस्तर्हि। क्व सामान्यग्रहणाविघातार्थेनार्थः?॥ अत्रैव॥ यदेतत्तत्तृन्तृचोर्ग्रहणम्, एतत् तृ इति वक्ष्यामि॥ (समाधानसाधकभाष्यम्) स्वसृनप्तृग्रहणं नियमार्थं भविष्यति - -एतयोरेव योनिसंबन्धयोः, नान्येषां योनिसंबन्धानामिति॥ (सामान्यग्रहणाविधातभाष्यम्) तुश्छन्दसि तुरिष्ठेमेयः स्विति चोभयोर्ग्रहणं यथा स्यात्॥ (1983 धातुपरिसंख्यावार्तिकम्॥ 1 ॥) - ण्वुलि सकर्मकग्रहणम्- (भाष्यम्)ण्वुलि सकर्मकग्रहणं कर्तव्यम्। इह मा भूद् - आसिता शयिता इति॥ (1984 परिसंख्यानिराकरणवार्तिकम्॥ 2 ॥) - न वा धातुमात्राद्दर्शनाद्ण्वुलः- (भाष्यम्) न वा वक्तव्यः। किं कारणम्?। धातुमात्राद्दर्शनाद् ण्वुलः। धातुमात्राण्ण्वुल् दृश्यते। इमे अस्य आसकाः। इमे अस्य शायकाः। उत्थिता आसका वैश्रवणस्येति॥ (1985 कालपरिसंख्यावार्तिकम्॥ 3 ॥) - तृजादिषु वर्तमानकालोपादानमध्यापकवेदाध्यायाद्यर्थम्- (भाष्यम्) तृजादिषु वर्तमानकालोपादानं कर्तव्यम्। किं कारणम्?। अध्यापकवेदाध्यायाद्यर्थम्। अध्यापकः वेदाध्यायः। अधीतवत्यध्येष्यमाणे वा मा भूद् इति॥ (1986 परिसंख्यानिराकरणवार्तिकम्॥ 4 ॥) - न वा कालमात्रे दर्शनादन्येषाम्- (भाष्यम्) न वा वक्तव्यम्। किं कारणम्?। कालमात्रे दर्शनादन्येषाम्। कालमात्रे ह्यन्ये प्रत्यया दृश्यन्ते। चर्चापारः शमनीपारः॥ ण्वुल्तृचौ॥ 133 ॥
Kashika¶
धातोरिति वर्तते। सर्वधातुभ्यो ण्वुल्तृचौ प्रत्ययौ भवतः। कारकः। कर्ता। हारकः। हर्ता। चकारः सामान्यग्रहणार्थः। तुश्छन्दसि (५.३.५९), तुरिष्ठेमेयस्सु (६.४.१५४) इति॥
Siddhanta Kaumudi¶
धातोरेतौ स्तः । कर्तरि कृत् (SK2832) इति कर्त्रर्थे । युवोरनाकौ (SK1247) । कारकः । कर्ता । वोढुमर्हो वोढा । कारिका । कर्त्री । गाङ्कुटा - (SK2461) इति ङित्त्वम् । कुटिता । अञ्णिदित्युक्तेर्न ङित्त्वम् । कोटकः । विज इट् (SK2536) । विजिता । हनस्तोऽचिण्णलोः (SK2574) । घातकः । आतो युक् (SK2761) । दायकः । नोदात्तोपदेशस्य (SK2763) इति न वृद्धिः । शमकः । दमकः । अनिटस्तु नियामकः । जनिवध्योश्च (SK2512) । जनकः । वध हिंसायाम् । वधकः । रधिजभोरचि (SK2302) । रन्धकः । जम्भकः । नेट्यलिटि रधेः (SK2516) । रधिता । रद्धा । मस्जिनशोः (SK2517) इति नुम् । मङ्क्ता । नंष्टा । नशिता । रभेरशब्लिटोः (SK2581) । रम्भकः । रब्धा । लभेश्च (SK2582) । लम्भकः । लब्धा । तीषसह-(SK2340) इति वेट् । एषिता । एष्टा । सहिता । सोढा । दरिद्रातेरालोपः । दरिद्रिता । ण्वुलि न । दरिद्रायकः । कृत्यल्युट (SK2841) इत्येव सूत्रमस्तु । यत्र विहितास्ततोऽन्यत्रापि स्युरित्यर्थात् । एवं च बहुलग्रहणं योगविभागेन कृन्मात्रस्यार्थव्यभिचारार्थम् । पादाभ्यां ह्रियते पादहारकः । कर्मणि ण्वुल् ।<!क्रमेः कर्तर्यात्मनेपदविषयात्कृत इण्निषेधो वाच्यः !> (वार्तिकम्) ॥ प्रक्रन्ता ॥ कर्तरीति किम् । प्रक्रमितव्यम् । आत्मनेपदेति किम् । संक्रमिता । अनन्यभावे विषयशब्दः । तेन अनुपसर्गाद्वा (SK2716) इति विकल्पार्हस्य न निषेधः । क्रमिता । तदर्हत्वमेव तद्विषयत्वम् । तेन क्रन्तेत्यपीति केचित् । गमेरिट्-(SK2401)इत्यत्र परस्मैपदग्रहणं तङानयोरभावं लक्षयति । संजिगमिषिता । एवं न वृद्भ्यश्चतुर्भ्यः (SK2348) । विवृत्सिता । यङन्तात् ण्वुल् । अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । पापचकः । यङ्लुगन्तात्तु पापाचकः ॥
Laghu Siddhanta Kaumudi¶
धातोरेतौ स्तः। कर्तरि कृदिति कर्त्रर्थे॥
Balamanorama¶
ण्वुल्तृचौ - अथ कृदन्तप्रकरणं । ण्वुल्तृचौ । अनयोर्वर्तमानकालादन्यत्र न प्रयोग इति भाष्यम् । वोढुमर्ह इति ।अर्हे कृत्यतृचश्चे॑त्युक्तेरिति भावः । वोढेति । वहेस्तृच्यनुदात्तत्वादिडभावे ढत्वधत्वष्टुत्वढलोपेषुसहिवहो॑रित्योत्त्वम् । कुटितेत्यत्र लघूपधगुणमाशङ्क्याह — गाङिति । तर्हि ण्वुलि कोटक इत्यत्रापि गुणो न स्यादित्यत आह — अञ्णिदित्युक्तेरिति । विजितेत्यत्र लघूपधगुणमाशङ्क्याह — विज इडिति ।इति ङित्त्व॑मिति शेषः । विजितेति । ङित्त्वान्न गुणः अनिट्स्त्विति । तस्यानुदात्तोपदेशत्वादिति भावः । ‘जनक’ इत्यत्रोपधावृद्धिमाशङ्क्य वृद्धिनिषेधं स्मारयत — जनिवध्योश्चेति । वध हिंसायामिति,- धात्वन्तरं भौवादिकं,भ्वादेराकृतिगणत्वात् । नत्वयं हन्तेर्वधादेशः । तथा सतिजनिवध्योश्चे॑ति वृद्धिनिषेधसूत्रे वधिग्रहणवैयथ्र्यात्, वधादेशस्याऽदन्ततया अल्लोपस्य स्थानिवत्त्वादेव वृद्ध्यभावसिद्धेः । वधक इति ।जनिवध्योश्चे॑ति वृद्धिनिषेधः । रन्धकः जम्भक इत्यत्र इदित्त्वाऽभावादप्राप्ते नुमि तद्विधिं स्मारयति — रधिजभोरचीति । रधितेत्यत्ररधिजभो॑रिति नुममाशङ्क्याह — नेटलिटीति । रधिता रद्धेति ।रधादिभ्यश्चे॑ति वेट् । मस्ज् तृ इति स्थिते आह — मस्जिनशोरिति । नुम्विधिरयम् । मङ्क्तेति । मस्ज् तृ इति स्थितेमस्जेरन्त्यात् पूर्वो नुम् वाच्यः॑ इतिसकारादुपरि जकारात् प्राङ्नुम् । मस्न्ज् तृ इति स्थितेस्को॑रिति सलोपः, जस्य कुत्वेन गः, तस्य चर्त्वेन कः, अनुस्वारः, परसवर्णेन ङ इति भावः । नंष्टा नशितेति । रधादित्वाद्वेट् । इडभावपक्षेमस्जिनशो॑रिति नुमि, नन्श् तृ इति स्थितेव्रश्चे॑ति शस्य षः । नस्याऽनुस्वारः । ष्टुत्वम् । रमेरशब्लिटोरिति नुम्विधिरयम् । लब्धेति ।झषस्तथो॑रिति तस्य धः, जश्त्वेन भस्य बः । तीषसहेति । इड्विकल्पोऽयम् । सोढेति । ढत्वधत्वष्टुत्वढलोपाः ।सहिवहो॑रित्योत्त्वम् । दरिद्रातेरालोप इति ।दरिद्रातेरालोपो वक्तव्यः॑ इत्यनेनेति भावः । ण्वुलि नेति । दरिद्रातेर्ण्वुलि आलोपो नेत्यर्थः । ‘न दरिद्रायके लोपः’ इति वार्तिकादिति भावः । दरिद्रायक इति ।अतो यु॑गिति युगिति भावः । पादाभ्यां ह्यियते पादहारक इत्यत्र कर्मणि ण्वुलं साधयितुमाह — कृत्यल्युट इत्येवेति । ‘कृत्यल्युटः’ त्येतावतैव पुनर्वचबालद्येष्वर्थेषु ते कृत्यल्युटो विहितास्ततोऽन्यष्वप्यर्थेषु भवन्तीत्यर्थलाभाद्बहुलग्रहणं योगविभागार्थं — कृत्प्रत्यया येष्वर्थेषु विहितास्ततोऽन्यत्रापि क्वचिद्भवन्ती॑ति । एवं च कर्मण्यपि ण्वुल् सिध्यतीत्यर्थः ।कृतो बहुल॑मिति वार्तिकं तु एतद्योगविभागसिद्धकथनपरमिति भावः । क्रमेरिति । आत्मनेपदविषयात्क्रमेः परस्य कर्तरि कृतो नेडित्यर्थः ।स्नुक्रमो॑रिति सूत्रस्थमिदं वार्तिकम् । प्रक्रन्तेति ।प्रोपाभ्यां समर्थाभ्या॑मित्यात्मनेपदविषयोऽयम् । नन्वेवं सति क्रमितेत्यत्र कथमिडित्यत आह — अनन्यभावे विषयशब्द इति । ‘वर्तते’ इति शेषः । आत्मनेपदाऽविनाभाव इति यावत् ।क्रमेः कर्तर्यात्मनेपदिन॑ इत्येतावतैव सिद्धे विषयपदोपादानादयमर्थो लभ्यते इति भावः । तथा च नित्यमात्मनेपदिन इति फलितम् । तेनेति ।क्रमिते॑त्यत्र क्रमेः ‘अनुपसर्गाद्वे’ त्यात्मनेपदविकल्पविधानान्नित्यमात्मनेपदित्वाऽभावादिण्निषेधो नेत्यर्थः । मतान्तरमाह — तदर्हत्वमेवेति । आत्मनेपदार्हत्वमेवात्मनेपदविषयत्वम् । ततश्च आत्मनेपदपक्षे इण्निषेधे सति कर्न्तेति रूपम्, आत्मनेपदाऽभावपक्षे तु क्रमं इटि क्रमितेति रूपमिति केचिदाहुरित्यर्थः । अत्र पक्षे विषयपदस्य न प्रयोजनमित्यस्वरसः । ननु संजिगमिषितेत्यत्र सनः कथमिट्, कगमेरनिट्सु पाठात्, सनः परस्मैपदपरत्वाऽभावेनगमेरिट् परस्मैपदेषु॑ इत्यस्याऽप्रवृत्तेरित्यत आह — गमेरिडित्यत्रेति । एवमिति ।न वृद्ध्यश्चतुभ्र्यः॑ इत्यत्रापि परस्मैपदग्रहणमनुवृत्तं तङानयोरभावं लक्षयतीत्यर्थः । विवृत्सितेति । वृतेः सनि रूपम् ।हलन्ताच्चे॑ति कित्त्वान्न गुणः । यङन्तादिति । पचिधातोर्यङन्तात् पापच्येत्यस्माण्ण्वुलित्यर्थः । तस्य अकादेशे ‘यस्य हलः’ इति यकारलोपे अतो लोपे पापच् अक इति स्थिते उपधावृद्धिमाशङ्क्याह — स्थानिवत्त्वान्न वृद्धिरिति । यङ्लुगन्तात्त्विति । यङः सङ्घातस्य लुकोऽजादेशत्वाऽभावेन स्थानिवत्त्वाऽसंभवादुपधावृद्धिर्निर्बाधा । ‘न धातुलोपे’ इति निषेधस्तु न, यङ्लुकोऽनैमित्तिकत्वादुपधावृद्धेरिग्लक्षणत्वाऽभावाच्च ।
Tattvabodhini¶
ण्वुल्तृचौ - णकारो वृद्ध्यर्थः । लकारोलिती॑ति स्वरार्थः । तृचश्चकारस्तुतुरिष्ठेमेयस्सु॑,तुश्छन्दसि॑ इत्यादौ सामान्यग्रहणाऽविघातार्थः ।चितः॑ इत्यन्तोदात्तार्थस्तु न भवति,आद्युदात्तश्चे॑त्येनेनैव सिद्धेः । एवं चअप्तृन् इति सूत्रे तृन्तृचो पृथग्ग्रहणं विहायअप्तृस्वसृ॑ इत्येव सुवचमित्येके । अन्ये तुसामान्यग्रहणेऽपि क्वचिद्विशेषस्यैव ग्रहणं भवती॑ति ज्ञापनार्थम्अप्तृन्नि॑ति सूत्रे तृन्तृचोरुभयोग्र्रहणम् । तेनकोपधग्रहणे तद्धितवुग्रहण॑मित्येतत्सिद्धमित्याहुः । वोढेति ।अर्हे कृत्यतृचश्चे॑ति तृच्, ढत्वादयस्तु वोढव्य इत्यत्रेवात्राऽप्यूह्राः । रधितेति ।रधादिभ्यश्चे॑ति वेट् । रद्धेति । इहनेटलिटी॑ति निषेधाऽप्रवृत्तावपिरधी॑त्यनेन अच्परत्वाऽभावान्नुम्न । मङ्क्तेति ।टुमस्जो शुद्धौ॑ अस्मात्तृच् ।मस्जीट ति नुम्न्त्यात्पूर्वः ।स्को॑रिति सलोपः । जस्य कुत्वे चर्त्वम् । अनुस्वारपरसवर्णौ ।बहूनां समवाये द्वयोद्र्वयोः संयोगः॑ इति पक्षे तु नुमागमस्याऽच्परत्वेऽपिस्को॑रिति सलोपो भवत्येवेति ज्ञेयम् । नंष्टेति । रधादित्वादिडभावपक्षे नुम् ।लब्धेति ।झषस्तथो॑रिति धः भकारस्य जश्त्वम् ।लभेश्चे॑ति नुम् तु न भवति, अचीत्यनुवर्तनात् । ण्वुलि ल्युटि च ने॑ति वचनात् । योगविभागेनेति ।कृत्यकल्युटो बहुल॑मिति सूत्रेकृतो बहुल॑मित्येवाकरे स्थितम् । तथा च योगविभागं विनैव सर्वेष्टसिद्धिरित्याहुः । * क्रमेः कर्तर्यात्मनेपदविषयात्कृत इण्निषेधो वाच्चः । प्रक्रन्तेति ।प्रोपाभ्यां समर्थाभ्या॑मिति क्रमेरत्मनेपदविषयता । अनन्यभावे विषयशब्द इति । तदन्याऽविषयत्वे सति तद्विषयत्वमनन्यभावः । तथा च विकल्पार्हस्य क्रमेः परस्मैपदात्मनेपदोभयप्राप्तिविषयत्वान्निषेधो नेति भावः । संजिगमिषितेति । संपूर्वाद्गमेः सन् ।सन्यङो॑रिति द्वित्वे हलादिः शेषेसन्यतः॑ इत्यभ्यासस्येत्वम् ।आर्धधातुकस्ये॑ति सन इट्, षत्वं, सन्नन्तात्तृच् । पुनरिट् । अल्लोपस्येति । प्राचां तुन धातुलोपे॑ इति सूत्रेइक॑ इत्यनुवृत्तेर्वृद्धेरनिषेधः -पापाचक॑ इत्युक्तं, तन्न, यङन्ते अल्लोपस्य स्थानिवत्त्वेन वृद्धिः प्राप्त्यभावात् । ननु यङ्लुगन्तपापाचकरूपाभिप्रायेण तथोक्तम्, तत्र हि अकारविशिष्टस्यैव यङो लुगिति सर्वसंमतत्वेन स्थानिवत्त्वाऽभावादिति चेत् । मैवम् । एवंतर्हि आर्धधातुकस्य धात्ववयवलोपनिमित्तत्वाऽभावेन यङ्लुगन्तेन धातुलोपे॑ इति निषेधस्य प्रसक्तेरभावात् ।
Nyaas¶
चकारः सामान्यग्रहणार्थः इत्यादि। तृज्तृनोः सामान्यग्रहणं यथा स्यादिति। असति तु तस्मिन् निरनुबन्धकरणे न सानुबन्धकस्य (व्या।प।53) इति तृनो ग्रहणं न स्यात्। अथान्तोदात्तार्थः कस्मान्न भवति? तस्य प्रत्ययस्वरेणैव सिद्धत्वात्॥
Sutra Prayogas¶
कारकः (भट्टिकाव्यम्): ण्वुल्तृचौ इति ण्वुल्।