31123: छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि¶
Padacheda: छन्दसि | S | 7 | 1 |
निष्टर्क्य-देवहूय-प्रणीय-उन्नीय-उच्छिष्य-मर्य-स्तर्या-ध्वर्य-खन्य-खान्य-देवयज्या-आपृच्छ्य-प्रतिषीव्य-ब्रह्मवाद्य-भाव्य-स्ताव्य-उपचाय्यपृडानि | S | 1 | 3 |
Sutrartha¶
Vasu English Summary¶
In the छन्दस् (Vedas) the following words are found, which are formed irregularly - निष्टर्क्य , देवहूय , प्रणीय , उन्नीय , उच्छिष्य , मर्य , स्तर्या , ध्वर्य , खन्य , खान्य , देवयज्या , आपृच्छ्य , प्रतिषीव्य , ब्रह्मवाद्य , भाव्य , स्ताव्य , and पचाय्यपृड।
Vasu English Translation¶
In the छन्दस् (Vedas) the following words are found, which are formed irregularly - निष्टर्क्य , देवहूय , प्रणीय , उन्नीय , उच्छिष्य , मर्य , स्तर्या , ध्वर्य , खन्य , खान्य , देवयज्या , आपृच्छ्य , प्रतिषीव्य , ब्रह्मवाद्य , भाव्य , स्ताव्य , and पचाय्यपृड। The formation of the above words are extremely irregular and they are all met with in the Vedic literature only. Thus the word निष्टर्क्य is derived from the root कृत् ‘to cut’, with the preposition निस्, and the affix ण्यत्, instead of क्यप् which is the regular affix, by 110; निः + कृत् + ण्वत् = निः + तृक् + य (the root कृत् transformed into तृक् by transposition) = निष्टर्क्य. As निष्टर्क्ये चिन्वीत् पशुकामः.
The above is apparently a guess-work etymology of grammarians.
So also देवहूय is formed by adding to the root हूयते ‘to call’ or हू ‘to invoke’, the affix क्यप् and the upapada देव; the vowel of the root is then lengthened and the augment त (VI.I.71), is not allowed, देव + है or हू + क्यप् = देवहूयः So also प्र + नी (to lead) + क्यप् = प्रणीयः; उत् + नी + क्यप् = उन्नीयः, उत् + शिष् (to leave) + क्यप् = उच्छिष्यम्; मृ (to die) + यत् = मर्यः; स्तृ (to cover) + यत् = स्तर्या; it is always feminine. ध्वृ (to bend) + यत् = ध्वर्यः; खन् (to dig) + यत् = खन्यः; खन् + ण्यत् = खान्यः; देव (God) + यज् (to sacrifice) + यत् = देवयज्या; always used as feminine. आ + पृच्छ् (to ask) + क्यप् = आपृच्छ्यः, प्रति + सीव (to sew) + क्यप् = प्रतिषीव्यः; ब्रह्मण् + वद् (to speak) + ण्यत् = ब्रह्मवाद्यः; भू (to be) + ण्यत् = भाव्यः; स्तु (to praise) + ण्यत् = स्ताव्यः; उप + चि (to collect) + ण्यत् + पृडं = उपचाय्यपृडम्. This last word is formed then only when the word पृड follows: and when the sense is that of ‘gold’. When it does not mean ‘gold’, the form is उपचेयपृडम् ।
Bhashya¶
छन्दसि निर्ष्टक्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि (740) (453 छान्दसनिपातनसूत्रम्॥ 3 । 1 । 6 आ. 16) (आक्षेपभाष्यम्) निर्ष्टक्य इति किं निपात्यते। (1934 निपातनप्रदर्शकवार्तिकम्॥ 1 ॥) - निर्ष्टक्ये कृतेराद्यन्तविपर्ययश्छन्दसि कृताद्यर्थः- (भाष्यम्) यथा कृतेस्तर्कः, कसेः सिकताः, हिंसेः सिंहः॥ (मतान्तरभाष्यम्) अपर आह - - (1965 मतान्तरवार्तिकम्॥ 2 ॥) - निर्ष्टक्ये व्यत्ययं विद्यान्निसः षत्वं निपातनात्। ण्यदायादेश इत्येतावुपचाय्ये निपातितौ- (भाष्यम्) निर्ष्टक्ये चिन्वीत पशुकामः। (1966 निपातनीयवार्तिकम्।) - ण्यदेकस्माच्चतुर्भ्यः क्यप् चतुर्भ्यश्च यतो विधिः। ण्यदेकस्माद्यशब्दश्च द्वौ क्यपौ ण्यद्विधिश्चतुः- (भाष्यम्) ण्यदेकस्मात् - निर्ष्टक्यः। चतुर्भ्यः क्यप् - -देवहूयः, प्रणीयः, उन्नीयः, उच्छिष्यः। चतुर्भ्यश्च यतो विधिः - मर्यः, स्तर्या, ध्वर्यः, खन्यः। ण्यदेकस्मात् - -खान्यः। यशब्दश्च - देवयज्या। द्वौ क्यपौ - आपृच्छ्यः, प्रतिषीव्यः। ण्यद्विधिश्चतुः - ब्रह्मवाद्यः, भाव्यः, स्ताव्यः उपचाय्यपृडम्। उपपूर्वाच्चिनोतेरायादेशोपि निपात्यते। नहि ण्यतैव सिध्यति। (1967 वार्तिकम्॥ 4 ॥) - हिरण्य इति च- (भाष्यम्) हिरण्य इति च वक्तव्यम्। उपचेयपृडमित्येवान्यत्र॥ छन्दसि निर्ष्टक्य॥ 123 ॥ (इति क्यप् प्रकरणम्)
Kashika¶
निष्टर्क्यादयः शब्दाश्छन्दसि विषये निपात्यन्ते। यदिह लक्षणेनानुपपन्नं तत् सर्वं निपातनात् सिद्धम्। निष्टर्क्य इति कृती छेदने इत्यस्माद् निस्पूर्वात् क्यपि प्राप्ते ण्यत्, आद्यन्तविपर्ययश्च, निसश्च षत्वं निपात्यते। निष्टर्क्यं (ऐ०आ० ५.१.३) चिन्वीत पशुकामः। देवशब्द उपपदे ह्वयतेर्जुहोतेर्वा क्यप्, दीर्घस्तुगभावश्च। देवहूयः (श०ब्रा० २.१.३.२)। प्रपूर्वादुत्पूर्वाच्च नयतेः क्यप्। प्रणीयः। उन्नीयः। उत्पूर्वाच्छिषेःक्यप्। उ॒च्िछष्यः॑(मै०सं० ३.९.२)। मृङ् प्राणत्यागे, स्तृञ् आच्छादने, ध्वृ हूर्छने, एतेभ्यो यत् प्रत्ययः। मर्यः॑ (तै०आ० १.३.२)। स्त॒र्या। स्त्रियामेव निपातनम्। ध्वर्यः। खनेर्यत्। खन्या॑ (तै०सं० ७.४.१३.१)। एतस्मादेव ण्यत्। खान्यः। देवशब्द उपपदे यजेर्यः। देवय॒ज्या (ऋ० १०.३०.१५)। स्त्रीलिङ्गनिपातनम्। आङ्पूर्वात् पृच्छेः क्यप्। आपृच्छ्यः॑ (ऋ० १.६०.२)। प्रतिपूर्वात् सीव्यतेः क्यप् षत्वं च। प्रतिषीव्यः। ब्रह्मण्युपपदे वदेर्ण्यत्। ब्रह्म॒वाद्य॑म् (तै०सं० २.५.८.३)। भवतेः स्तौतेश्च ण्यत्, आवादेशश्च भवति। भा॒व्य॑म् (शौ०सं० १३.१.५४), स्ताव्यः। उपपूर्वस्य चिनोतेर्ण्यदायादेशौ। उपचाय्यपृडम् (काठ०सं० ११.१)। पृडे चोत्तरपदे निपातनमेतत्॥ हिरण्य इति वक्तव्यम्॥ हिरण्यादन्यत्र उपचेयपृडमेव।
निष्टर्क्ये व्यत्ययं विद्यान्निसः षत्वं निपातनात्।
ण्यदायादेश इत्येता उपचाय्ये निपातितौ ॥ १॥
ण्यदेकस्माच्चतुर्भ्यः क्यप् चतुर्भ्यश्च यतो विधिः।
ण्यदेकस्माद्यशब्दश्च द्वौ क्यपौ ण्यद्विधिश्चतुः॥ २॥
Siddhanta Kaumudi¶
कृन्ततेर्निस्पूर्वात्क्यपि प्राप्ते ण्यत् । आद्यन्तयोर्विपर्यासो निसः षत्वं च । निष्टर्क्यं चिन्वीत पशुकामः । देवशब्दे उपपदे ह्वयतेर्जुहोतेर्वा क्यप् दीर्घश्च । स्पर्धन्ते वा उ देवहूये (स्पर्ध॑न्ते॒ वा उ॑ देव॒हूये॑) । प्र उत् आभ्यां नयतेः क्यप् । प्रणीयः । उन्नीयः । उत्पूर्वाच्छिषेः क्यप् । उच्छिष्यः । मृङ्स्तृञ्ध्वृभ्यो यत् । मर्यः । स्तर्या । स्त्रियामेवायम् । ध्वर्यः । खनेर्यण्ण्यतौ । खन्यः । खान्यः । यजेर्यः । शुन्धध्वं दैव्याय कर्मणे देवयज्यायै (शुन्ध॑ध्वं॒ दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑) । आङ्पूर्वात्पृच्छेः क्यप् । आपृच्छ्यं धरुणं वाज्यर्षति (आ॒पृच्छ्यं॑ ध॒रुणं॑ वा॒ज्य॑र्षति) । सीव्यतेः क्यप् षत्वं च । प्रतिषीव्यः । ब्रह्मणि वदेर्ण्यत् । ब्रह्मवाद्यम् । लोके तु वदः सुपि क्यप् च-(SK2854) इति क्यब्यतौ । भवतेः स्तौतेश्च ण्यत् । भाव्यः । स्ताव्यः । उपपूर्वाच्चिनोतेर्ण्यत् आयादेशश्च पृडे उत्तरपदे । उपचाय्यपृडम् ।<!हिरण्य इति वक्तव्यम् !> (वार्तिकम्) ॥ उपचेयपृडमन्यत् ॥ मृड सुखने पृड चेत्यस्मादि गुपधलक्षणः कः ॥
Padamanjari¶
च्छन्दसि निष्टर्क्यदेबहुयचप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छयप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृदानि॥ नुगभावश्चेति। यदा जुहोतेस्तदेति भावः। उपचाय्यपृडमिति।’मृड सुखे’ ‘पृड च’ इत्येतस्मात् ठिगुपधलक्षणः कः, उपचाय्यं च तत्पृडं चेति कर्मधारयः। हिरष्ये चेति वक्तव्यमिति। हिरण्येऽभिधेय इत्यर्थः। व्यत्ययमिति। आद्यन्तविपर्यास इत्यर्थः। ण्यदेकस्मादिति। एकस्माद्वातोर्ण्यत्प्रत्ययो निपात्यते, तदनन्तरेषु देवहूयादिषु चतुर्षु चतुर्भ्यो धातुभ्यः क्यब् निपात्यते, उपसर्गभेदान्नयतेर्भेदः। द्वौ क्यपाविति। द्वाभ्यां धातुभ्यां द्वौ क्यपौ निपात्येते इत्यर्थः। ण्यद्विधिश्चतुरिति। सुजन्तमेतत्, क्रियाभ्यावृत्तिवाचिचतुरो वा ण्यद्विधीयत इत्यर्थः॥
Nyaas¶
क्यपि प्राप्ते इति। ऋदुपधत्वात्। आद्यन्तविपर्ययः इति ककारस्यादेरन्तत्वं निपात्यते। तकारस्यान्तस्यादित्वम्। ह्वयतेः इत्यादि। यदा ह्वेञ् स्पद्र्धायाम् (धातुपाठः-1008) इत्यस्मात् क्यप् तदा यजादित्वात् (6.1.15) सम्प्रसारणम्, हलः (6.4.2) इति दीर्घः। यदा तु {हु दानादानयोः धातुपाठः-}हु दाने` (धातुपाठः-1083) इत्यसमात्, तदा तुगभावो निपात्यते दीर्घत्वं च। देवा हूयन्तेऽस्मिन्निति देवहूवः। {उच्छिष्यम् इति काशिका} अच्छिव्यः इति। शिष्लृ {विशेषणे-धातुपाठः-} विशरणे (धातुपाठः-1451)। शश्छोऽटि (8.4.63) इति छकारः, स्तोः श्चुना श्चुः (8.4.40) इति श्चुत्वम्। ` आभ्यां यत्प्रत्ययः` इति। ऋकारान्तत्वाण्ण्यति प्राप्ते। स्त्रियामव निपातनम्िति। अन्यथा स्तर्येति स्त्रीलिङ्गनिर्देशोऽपार्थकः स्यात्। `आपृच्छ्यः इति। ग्रह्रादिना (6.1.16) सम्प्रसारणम्। प्रतिषीव्यः इति। हलि च (8.2.77) इत दीर्घः` वदेण्र्यत् इति। वदः सुपि क्यप् च (3.1.106) इति क्यपि यति च प्राप्ते। भाव्यः, स्ताव्यः इति। भवतेः स्तौतेश्च यदपवादो ण्यत्।निष्टर्क्ये इत्यादि। सुखोपग्रहणार्थौ सङग्रहश्लोकौ। व्यत्ययम् इति। आद्यन्तविपर्ययमित्यर्थः। ण्यदेकस्मात इति। कर्मणि ल्यब्लोप एषा पञ्चमी। एकं निष्टर्क्यशब्दमुद्दिश्य ण्यद्भवति। एकं शब्दं साधयितुं ण्यद्भवतीति यावत्। चतुभ्र्यः क्यप् इति। तादथ्र्य एषा चतुर्थी। ये देवहूयादयोऽनन्तराश्चत्वारस्तदर्थ तत्सिद्ध्यर्थ क्यब् भवतीति। चततुभ्र्यश्च यतो विधिः इति। एषापि तादथ्र्यं एव चतुर्थी। तदनन्तरा ये चत्वारो मर्यादयः खान्यपर्यन्तास्तदर्थम् = तत्सिद्ध्यर्थं यतो विधिर्भवति। णय्देकस्मात् इति। एषामपि ल्यब्लोपे कर्मणि पञ्चमी। खान्यमेकं शब्दमुद्दिश्य ण्यद्भवति। खान्यशब्दं साधयितुमित्यर्थः। यशब्दश्च इति। एकस्मादित्यनुकर्षणार्थः। देवयज्याशब्दमुद्दिश्य यशब्दो भवति। द्वौ क्यपौ इति। आपृच्छ्यप्रतीषीव्यशब्दयोः सिद्ध्ये द्वौ क्यपौ भवतः। ण्यद्विधिश्चुतः इति। चतुरो वारान् ण्यद्भवतीत्यर्थः। स पुनः परिशिष्टेषु ब्राहृवाद्यादिषु।अथ वा - ण्यदेकस्मात् इत्येकस्माद्धातोरित्यर्थः। चतुभ्र्यः क्यप् इति। चतुर्भ्यो धातुभ्यः क्यब् भवतीति। ननु च नयतिरेकएव धातुः, तत्कथं चतुर्भ्यो धातुभ्य इत्युच्यते? उपसर्गभेदादेकस्यापि भेदो विवक्षित इत्यदोषः। चतुभ्र्यश्च यतो विधिः इति। तदनन्तरेभ्यश्चतुर्भ्यो धातुभ्यो यतो विधिरित्यर्थः। ण्यदेकस्मात् इति। खन एकस्माद्धातोण्र्यद्विधिः। यशब्दश्च इति। देवयज्याशब्द एकस्माद्धातोर्यशब्दो भवति। द्वौ क्यपौ इति। आपृच्छ्यप्रतिषीव्यशब्दयोः सिद्ध्य आप्रच्छिप्तिषिवशब्दाभ्यां द्वौ क्यपौ भवतः॥
Prakriyasarvasvam¶
एषु सप्तदशसु दृष्टं सर्वं निपात्यते । कृती छेदने । ण्यत् हलोर्व्यत्ययः ष्टुत्वं च । निष्टर्क्यं चिन्वीत पशुकामः । ह्वयतेर्जुहोतेर्वा क्यप् । स्पर्धन्ते वा उ देवहूये । णीञः क्यप् । प्रणीयः । उन्नीयः । क्षिपे क्यप् । उच्छिष्यः । मृजस्तृजोर्यत् । मर्यः । स्तर्येति स्त्रियाम् । ध्वृ हिंसाकौटिल्यार्थयोः । अस्माद्यत् यत् । ध्वर्यः । ध्वर्यः । खनेयप्ण्यतौ । खन्यः । खान्यः । यजेर्यत् भावे स्त्रियाम् । देवयज्या । प्रच्छसीव्योः क्यप् । आपृच्छ्यम् । प्रतिषीव्यः । वदभूस्तौतीनां ण्यत् । ब्रह्मवाद्यः । भाव्यः । स्ताव्यः । पृडं सुखकृत् । तस्मिन् परे चिञो ण्यत् । उपचेतव्यं च सुख- कृच्च उपचाय्यपृडं हिरण्यम् । हिरण्यादन्यत्र नेष्यते । अग्निचित्याशब्दोऽन्तोदात्तः । ‘अनुपसर्गाल्लि१म्प’ - (३-१-१३८) इति शः छन्दसि सोपसर्गादपि दृश्यते* । यः ककुभो निधारयः । ‘शीलिकामी’त्यादि णान्ते पूर्वपदप्रकृति स्वरत्वं वाच्यम् । मांसशीलः । ‘गापोष्टक् छन्दसि बहुलं वाच्यः । सुरापा । ‘आतोऽनुपसर्गे कः’ (३-२-३) ।
Vartika¶
हिरण्य इति वक्तव्यम् ।