Sutras 61 - 80¶
- 24061: न तौल्वलिभ्यः
- 24062: तद्राजस्य बहुषु तेनैवास्त्रियाम्
- 24063: यस्कादिभ्यो गोत्रे
- 24064: यञञोश्च
- 24065: अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च
- 24066: बह्वचः इञः प्राच्यभरतेषु
- 24067: न गोपवनादिभ्यः
- 24068: तिककितवादिभ्यो द्वन्द्वे
- 24069: उपकादिभ्योऽन्यतरस्यामद्वन्द्वे
- 24070: आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्
- 24071: सुपो धातुप्रातिपदिकयोः
- 24072: अदिप्रभृतिभ्यः शपः
- 24073: बहुलं छन्दसि
- 24074: यङोऽचि च
- 24075: जुहोत्यादिभ्यः श्लुः
- 24076: बहुलं छन्दसि
- 24077: गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु
- 24078: विभाषा घ्राधेट्शाच्छासः
- 24079: तनादिभ्यस्तथासोः
- 24080: मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः