24072: अदिप्रभृतिभ्यः शपः

Padacheda: अदि-प्रभृतिभ्यः | S | 5 | 3 |

शपः | S | 6 | 1 |

Sutrartha

अदादिगणस्य धातुभ्यः विहितस्य शप्-प्रत्ययस्य लुक् भवति ।

सर्वेभ्यः धातुभ्यः कर्तरि शप् (3.1.68) इति सूत्रेण सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकतया ‘शप्’ इति विकरणप्रत्ययः विधीयते । अदादिगणस्य धातुभ्यः विहितस्य शप्-प्रत्ययस्य वर्तमानसूत्रेण ‘लुक्’ भवति (लोपः भवति) । कानिचन उदाहरणानि एतादृशानि - 1) अदँ (भक्षणे) धातोः लट्लकारस्य प्रथमपुरुष-एकवचनस्य रूपम् - अद् + लट् [ वर्तमाने लट् (3.2.123) इति लट् ] → अद् + तिप् [ तिप्तस्झि.. (3.4.78) इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् ‘तिप्’ प्रत्ययः ] → अद् + शप् + ति [ कर्तरि शप् (3.1.68) इति सार्वधातुके कर्तरि प्रत्यये परे औत्सर्गिकः ‘शप्’ विकरणप्रत्ययः ] → अद् + ति [ अदिप्रभृतिभ्यः शपः (2.4.72) इति शप्-प्रत्ययस्य लुक् ] → अत्ति [ खरि च (8.4.55) इति चर्त्वम् ] 2) अदँ (भक्षणे ) धातोः लङ्-लकारस्य मध्यमपुरुष-एकवचनस्य रूपम् - अद् + लङ् [ अनद्यतने लङ् (3.2.111) इति लङ् ] → आट् + अद् + लङ् [ आडजादीनाम् (6.4.72) इति लङ्-लकारे परे अजादेः अङ्गस्य आडागमः ] → आ + अद् + सिप् [तिप्तस्झि… (3.4.78) इति मध्यमपुरुष-एकवचनस्य विवक्षायाम् ‘सिप्’ प्रत्ययः ] → आ + अद् + शप् + सिप् [कर्तरि शप् (3.1.68) इति सार्वधातुके कर्तरि प्रत्यये परे औत्सर्गिकः ‘शप्’ विकरणप्रत्ययः ] → आ + अद् + सिप् [ अदिप्रभृतिभ्यः शपः (2.4.72) इति शप्-प्रत्ययस्य लुक् ] → आ + अद् + स् [ इतश्च (3.4.100) इति इकारलोपः, पकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा ] → आ + अद् + अट् + स् [ अदः सर्वेषाम् (7.3.100) इति अपृक्त-स्-प्रत्ययस्य अट्-आगमः ] → आ + अद् + अ + स् [ हलन्त्यम् (1.3.3) इति टकारस्य इत्संज्ञा, तस्य लोपः (1.3.9) इति तस्य लोपः ] → आदस् [ आटश्च (6.1.90) इति वृद्धि-एकादेशः , वर्णमेलनम् ] → आदरुँ [ ससजुषो रुः (8.2.66) इति रुँत्वम् ] → आदः [ खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गनिर्माणम् ] 3) द्विषँ (अप्रीतौ) इति अदादिगणस्य धातोः लट्-लकारस्य प्रथमपुरुष-एकवचनस्य रूपम्- द्विष् + लट् [ वर्तमाने लट् (3.2.123) इति लट् ] → द्विष् + तिप् [ तिप्तस्झि.. (3.4.78) इति प्रथमपुरुष-एकवचनस्यविवक्षायाम् ‘तिप्’ प्रत्ययः ] → द्विष् + शप् + ति [ कर्तरि शप् (3.1.68) इति सार्वधातुके कर्तरि प्रत्यये परे औत्सर्गिकः ‘शप्’ विकरणप्रत्ययः ] → द्विष् + ति [ अदिप्रभृतिभ्यः शपः (2.4.72) इति शप्-प्रत्ययस्य लुक् ] → द्वेष् + ति [ पुगन्तलघूपधस्य च (7.3.86) इति सार्वधातुके ‘तिप्’ प्रत्यये परे लघूपध-अङ्गस्य इक्-वर्णस्य गुणः , इति इकारस्य एकारः ] → द्वेष्टि [ ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम् ] ज्ञातव्यम् - 1. तिङ्शित्सार्वधातुकम् (3.4.113) इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । 2. ‘लुक्’ इति प्रत्ययलोपस्य किञ्चन विशिष्टं नाम । अस्मिन् विषये प्रत्ययस्य लुक्श्लुलुपः (1.1.61) इत्यत्र विस्तारेण उक्तमस्ति । शास्त्रविषयः - 1. गरुडपुराणे ‘न विश्वसेत् अविश्वस्तम्’ इति कश्चन प्रयोगः दृश्यते । अत्र ‘वि + श्वस्’ इत्यस्य अदादिगणस्य धातोः विधिलिङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ‘विश्वसेत्’ इति प्रयुक्तमस्ति । वस्तुतस्तु ‘वि + श्वस्’ धातोः विधिलिङ्लकारस्य साधु रूपम् ‘विश्वस्यात्’ इति अस्ति, यतः प्रक्रियायां अदिप्रभृतिभ्यः शपः (2.4.72) इत्यनेन शप्-विकरणस्य लोपः क्रियते चेत् ‘यासुट्’ इत्यस्य यकारस्य ‘इय्’ आदेशः एव न भवति (यतः अतो येयः (7.2.80) इत्यस्य प्रसक्तिः तत्र न वर्तते) । यदि प्रक्रियायाम् शप्-विकरणस्य लोपः न भवति, तदा एव अतो येयः (7.2.80) इत्यनेन ‘यासुट्’ इत्यस्य ‘इय्’ इति आदेशं कृत्वा ततः ‘विश्वसेत्’ इति रूपं साधयितुम् शक्यते । अतः अस्य प्रयोगस्य समर्थनार्थमनेके वैयाकरणाः ‘गणकार्यमनित्यमस्ति’ इति वदन्ति । इत्युक्ते, तेषां मतेन विकरणविधानम् तस्य लोपः च ‘अनित्यः’ अस्ति, प्रक्रियायां कुत्रचित् नैव भवितुमर्हति - इति । अयं पक्षः स्वीक्रियते चेत् ‘वि + श्वस्’ इत्यस्य विधिलिङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् ‘शप्’ विकरणस्य लोपं अकृत्वा ‘विश्वसेत्’ इत्यस्य साधुत्वं प्रदर्शयितुम् शक्यते । एतम् पक्षम् मनसि निधाय नागेशः परिभाषेन्दुशेखरे गणकार्यमनित्यम् इति काञ्चन परिभाषां पाठयति (परिभाषेन्दुशेखरः 96) । अनया परिभाषया गणकार्यस्य अनित्यत्वं संज्ञाप्य ‘विश्वसेत्’ सदृशाः प्रयोगाः सिद्ध्यन्ति । परन्तु इयं परिभाषा भाष्यकारेण कुत्रापि न पाठिता लभ्यते, अतः नागेशः अपि इमां परिभाषां न स्वीकरोति (प्रत्याचष्टे इत्याशयः । Mentions the paribhasha and then rejects its correctness) । इत्युक्ते, भाष्यकारस्य नागेशस्य च मतेन ‘विश्वसेत्’ तथा तत्सदृशाः अन्ये प्रयोगाः अपाणिनीयाः / आर्षप्रयोगाः एव ज्ञातव्याः । 2. (प्रश्नः) - कर्तरि शप् (3.1.68) इत्यनेन अदिप्रभृतिभ्यो शपः विधानं कृत्वा पुनः तस्य लुकः किं प्रयोजनम् ? मूलरूपेणैव शपः विधानं नैव क्रियेत (इत्युक्ते -‘कर्तरि शप्, अदिप्रभृतिभ्यो न’ इत्येव उच्यते) चेत् कः दोषः ? उत्तरम् - यदा शप्-प्रत्ययस्य विधानं कृत्वा ततः तस्य लोपः क्रियते, तदा अदादिगणस्य धातवः ‘लुग्विकरणत्वम्’ प्राप्नुवन्ति । (येभ्यो विहितस्य विकरणप्रत्ययस्य लुक् भवति ते लुग्विकरणाः) । अतएव लुग्विकरणालुग्विकरणयोः अलुग्विकरणस्य इति परिभाषया गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु (2.4.77) इत्यत्र केवलं भ्वादिगणस्य ‘पा’ धातोः एव ग्रहणं भवति, अदादिगणस्य ‘पा’ धातोः न । अनेनैव अदादिगणस्य ‘पा’ धातो’ लुङि ‘अपासीत्’ इति इष्टरूपं सिद्ध्यति । यदि अदिप्रभृतिभ्यः शप्-प्रत्ययः नैव उक्त्वा तस्य लोपोऽपि न क्रियेत, तर्हि अदादिगणस्य धातवः ‘लुग्विकरणत्वम्’ न प्राप्नुयुः । अस्या स्थितौ पा-धातोः विषये गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु (2.4.77) इत्यस्य प्राप्तिः स्यात् । अनेन ‘अपात्’ इति अनिष्टं रूपं सिद्ध्येत । अतएव अदादिगणस्य धातूनां विषये शपः विधानं कृत्वा तस्य लुक् अपि क्रियते ।

Vasu English Summary

After the verb अद् ‘to eat’ and the rest there is लुक् elision of the विकरण शप् – कर्तरि शप् (3.1.68).

Vasu English Translation

After the verb अद् ‘to eat’ and the rest there is लुक् elision of the विकरण शप् – कर्तरि शप् (3.1.68). Thus अद् + शप् + ति = अत्ति ‘he eats’; हन्ति ‘he kills;’ द्वेष्टि ‘he envies.’ The Adadi verbs belong to the second conjugation. In this class of verbs, therefore, the terminations are added direct to the root.

Kashika

अदिप्रभृतिभ्य उत्तरस्य शपो लुग् भवति। अत्ति। हन्ति। द्वेष्टि॥

Siddhanta Kaumudi

{$ {!1011 अद!} भक्षणे$} । द्वौ परस्मैपदिनौ ॥ लुक्स्यात् । अत्ति । अत्तः । अदन्ति ॥

Laghu Siddhanta Kaumudi

॥ {$ {! 1 अद !} भक्षणे $} (धातुपाठे (02.0001)) ॥ लुक् स्यात्। अत्ति। अत्तः। अदन्ति। अत्सि। अत्थः। अत्थ। अद्मि। अद्वः। अद्मः॥

Balamanorama

अदिप्रभृतिभ्यः शपः - अदिप्रभृतिभ्यः ।ण्यक्षत्रियार्षञितः॑ इत्यतो लुगित्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — लुक् स्यादिति । अदिप्रभृतिभ्यः परस्य शपो लुगिति फलितम् । अत्तीति । शपो लुकि दस्य चर्त्वेन तकारः । एवमत्त इत्यपि । अदन्तीति । तदर्थमेव ‘झोऽन्तः’ इत्यत्र अकारादिरादेश आश्रितः । अत्सि अत्थः अत्थ । अद्मि अद्वः अद्मः ।

Padamanjari

अदिप्रभृतिभ्य शपः॥ कथम्’ न विश्वसेदविश्वस्ते विश्वस्ते’ पि न विश्वसेद्ऽ इति, तथा भट्टिकाव्ये - ठाश्वसेयुर्निशाचराःऽ इति, तथा’न विश्वसेत्पूर्वविरोधितस्य’ इति? निरङ्गशाः कवयः। अपर आह -‘क्षमूष् सहने’ घटादिः; तत्र’घटादयः षितः’ इति सिद्धे षित्करणं ज्ञापकम् - अनित्यं गणकार्थमिति, तेनैवमादिप्रयोगोपपतिरिति नात्र किञ्टचिदपभाषितमस्ति॥

Prakriyasarvasvam

अदादिभ्यो धातुभ्यः परस्य शपो लुक् स्यात् । इति शबपाये खशः शित्त्वेन ङित्त्वाद्गुणः । वहः स्कन्धः, वहंलिहो गौः । अभ्रंलिहस्तरुः । बाहुंलिहश्च कौमुद्याम् ।