24066: बह्वचः इञः प्राच्यभरतेषु¶
Padacheda: बहु-अचः | S | 5 | 1 |
इञः | S | 6 | 1 |
प्राच्य-भरतेषु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
And there is लुक् elision of the गोत्र affix इञ् – गोत्राद्यून्यस्त्रियाम् (4.1.95) after a word containing many vowels (a poly-syllabic word) which denotes the गोत्र of the people called प्राच्य and भरत when the word takes the plural.
Vasu English Translation¶
And there is लुक् elision of the गोत्र affix इञ् – गोत्राद्यून्यस्त्रियाम् (4.1.95) after a word containing many vowels (a poly-syllabic word) which denotes the गोत्र of the people called प्राच्य and भरत when the word takes the plural. The plural of पन्नागारिः is पन्नागारः, there being elision of इङ् : so also नंथरेषणाः plural of नान्थरैषणिः; so the plural of यौधिष्ठिरिः is युधिष्ठिरा ‘the descendents of Yudhishthira.’ But यैकिः and पौष्पिः not being polysyllabic, their plural will be यैक्यः and पौष्प्यः.
Why do we say ‘when denoting the Gotra of Prachyas and Bharatas’? Because when denoting the Gotra of any other people, these affixes will not be elided. Thus बालाकयः plural of बालाकिः, हस्तिदासयः plural of हस्तिदासिः.
Though the Bharatas are Prachyas, its specification here is to indicate that, wherever ‘Prachyas’ will be used, it will not include Bharatas as in (5.4.60). Here the Yuvan affix of Bharatas will not be elided. Thus आर्जुनिः father, आर्जुनायनः son.
Bhashya¶
बह्वच इञ्ञः प्राच्यभरतेषु (597) (368 लुक्सूत्रम् ॥ 2.4.2 आ.3) (प्राच्यभरतानां समुच्चयाधिकरणम्) (आक्षेपभाष्यम्) किमयं समुच्चयः प्राक्षु च भरतेषु चेति। आहोस्विद्भरतविशेषणं प्राग्ग्रहणं प्राञ्ञ्चो ये भरता इति ॥ (जिज्ञासाभाष्यम्) किं चातः? (विशेषप्रदर्शनभाष्यम्) यदि समुच्चयः। भरतग्रहणमनर्थकम्। न ह्यन्यत्र भरताः सन्ति ॥ अथ प्राग्ग्रहणं भरतविशेषणम्। प्राग्ग्रहणमनर्थकम्। नह्यप्राञ्ञ्चो भरताः सन्ति ॥ (प्रथमपक्षाभ्युपगमभाष्यम्) एवं तर्हि समुच्चयः ॥ (दोषस्मरणभाष्यम्) ननु चोक्तम् - भरतग्रहणमनर्थकं नह्यन्यत्र भरताः सन्तीति ॥ (समाधानभाष्यम्) नानर्थकम्। ज्ञापकार्थम् ॥ किं ज्ञाप्यते? एतज्ज्ञापयत्याचार्यः - अन्यत्र प्राग्ग्रहणे भरतग्रहणं न भवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम्? इञ्ञः प्राचाम् भरतग्रहणं न भवति। औद्दालकिः पिता। औद्दालकायनः पुत्र इति ॥ बह्वचः ॥ 66 ॥
Kashika¶
बह्वचः प्रातिपदिकाद् य इञ् विहितः प्राच्यगोत्रे भरतगोत्रे च वर्तते, तस्य बहुषु लुग् भवति। पन्नागाराः। मन्थरैषणाः। भरतेषु खल्वपि — युधिष्ठिराः। अर्जुनाः। बह्वच इति किम्? बैकयः। पौष्पयः। प्राच्यभरतेष्विति किम्? बालाकयः। हास्तिदासयः। भरताः प्राच्या एव, तेषां पुनर्गर्हणं ज्ञापनार्थम् — अन्यत्र प्राग्ग्रहणे भरतग्रहणं न भवतीति। तेन इञः प्राचाम् (२.४.६०) इति भरतानां युवप्रत्ययस्य लुग् न भवति। आर्जुनिः पिता। आर्जुनायनः पुत्रः॥
Siddhanta Kaumudi¶
बह्वचः परो य इञ्प्राच्यगोत्रे भरतगोत्रे च वर्तमानस्तस्य लुक्स्यात् । पन्नागाराः । युधिष्ठिराः ॥
Balamanorama¶
बह्वचः इञः प्राच्यभरतेषु - बह्वच इञः । प्राच्ये उदाहरति — पन्नागारा इति । पन्नागारस्यापत्यानीति विग्रहः । अत इञो लुक् । भरतगोत्रे उदाहरति — युधिष्ठिरा इति । युधिष्ठिरस्यापत्यानीति विग्रहः । कुरुलक्षणं ण्यं बाधित्वा बाह्वादित्वादिञ् । तस्य लुक् । बहुत्वे तु यौधिष्ठिरिः ।
Tattvabodhini¶
बह्वचः इञः प्राच्यभरतेषु - युधिष्ठिरा इति । बहुष्वेव लुक् । नेह — यौधिष्ठिरिः । कुरुलक्षणं ण्यं बाधित्वा बाह्वादित्वादिञ् ।
Padamanjari¶
बह्वच इञः प्राच्यभरतेषु॥ भरतापत्येषु भरतशब्दाऽभेदोपचाराद्वर्तते, यथा - रघूणामन्वयं वक्ष्येऽ इति। युधिष्ठिरार्जुनशब्दाभ्यां कुर्वाणोऽपवादो बाह्वादिलक्षण इञ्। बलाकाशब्देऽपि बाह्वादिः। भरताः प्राच्या एवेति।’प्राच्यभरतेषु’ इति द्वन्द्वस्तु सामान्यविशेषवाचिनोर्गोबलीवर्दन्यायेनेति भावः॥
Nyaas¶
भरताः इति। येषां भरत आद्यः संज्ञाकारी ते भरताः। पन्नागाराः इत्यादिषूहाहरणेषु अत इञ् (4.1.95) , तस्य लुक्। बालाकयः इति। बाह्वादित्वादिञ्। हास्तिदासयः इति। अत इञ् (4.1.95) । आर्जुनायनः इति। यञियोश्च (4.1.101) इति फक्॥
Prakriyasarvasvam¶
प्राच्यगोत्रे भरतगोत्रे च वर्तमानस्य बह्वचः शब्दात् परस्य इञो बहुत्वे लुक् स्यात् । प्राच्ये-पान्नागारिः पन्नागाराः । भरते-आर्जुनिः अर्जुनाः । भरतानां प्राच्यत्वेऽपि पृथगुक्तिः अन्यत्र प्राच्यग्रहे भरतानामग्रहार्थ ।