24079: तनादिभ्यस्तथासोः¶
Padacheda: तन्-आदिभ्यः | S | 5 | 3 |
त-थासोः | S | 7 | 2 |
Sutrartha¶
Vasu English Summary¶
After the verbs तन् ‘to expand’ and others there is optionally the लुक् elision of सिच् when the आत्मनेपद affixes त and थास् of the 2nd Person follow.
Vasu English Translation¶
After the verbs तन् ‘to expand’ and others there is optionally the लुक् elision of सिच् when the आत्मनेपद affixes त and थास् of the 2nd Person follow. Thus अतत (6.4.37) or अतनिष्ठ ‘he expanded,’ अतथाः or अतनिष्ठाः ‘thou didst expand.’ Similarly असात or असनिष्ट ‘he gave.’ असाथाः or असनिष्टाः ‘thou didst give.’
The roots तन् and सन् must both belong to the Atmanepada, and not to Parasmaipada. Hence in the Parasmaipada there is no elision of सिव्. Thus, अतनिष्ट यूयम् ‘you did expand.’
Bhashya¶
तनादिभ्यस्तथासोः (610) (374 सिज्लुक्सूत्रम् ॥ 2.4.2 आ.9) (तप्रत्ययनिर्णयाधिकरणम्) (1646 वार्तिकम् ॥ 1 ॥) - तथासोरात्मनेपदवचनम् - (भाष्यम्) तथासोरात्मनेपदस्य ग्रहणं कर्तव्यम्। आत्मनेपदं यौ तथासाविति वक्तव्यम् ॥ (1647 वार्तिकम् ॥ 2 ॥) - एकवचनग्रहणं वा - (भाष्यम्) अथ वा एकवचनं ये तथासी इति वक्तव्यम् ॥ तच्चावश्यमन्यतरत्कर्तव्यम् ॥ (1648 वार्तिकम् ॥ 3 ॥) - अवचने ह्यनिष्टप्रसङ्गः - (भाष्यम्) अनुच्यमाने ह्येतस्मिन्ननिष्टं प्रसज्येत - अतनिष्टं यूयमसनिष्ट यूयमिति। (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? (समाधानभाष्यम्) न वक्तव्यम्। यद्यपि तावदयं तशब्दो दृष्टापचारोस्त्यात्मनेपदम्, अस्ति च परस्मैपदम्, अस्त्येकवचनम्, अस्ति बहुवचनमयं तु खलु थास्शब्दोऽदृष्टापचार आत्मनेपदमेकवचनं च। तस्यास्य कोन्यः सहायो भवितुमर्हति अन्यदत आत्मनेपदादेकवचनाच्च। तद्यथा - अस्य गोर्द्वितीयेनार्थ इति गौरेवानीयते नाश्वो न गर्दभ इति। तनादि ॥ 79 ॥
Kashika¶
तनादिभ्य उत्तरस्य सिचस्तथासोः परतो विभाषा लुग् भवति। अतत। अतथाः। अतनिष्ट। अतनिष्ठाः। असात। असाथाः। असनिष्ट। असनिष्ठाः। **जनसनखनाम्०**(६.४.४२) इत्यात्वम्। थासा साहचर्यादात्मनेपदस्य तशब्दस्य ग्रहणम्, परस्मैपदे न भवति — अतनिष्ट यूयम्॥
Siddhanta Kaumudi¶
अथ सप्त स्वरितेतः ।{$ {!1463 तनु!} विस्तारे$} । तनादिकृञ्भ्य उः (SK2466) । तनोति । तन्वः-तनुवः । तनुते । ततान । तेने । तनु । अतनीत्-अतानीत् ॥ तनादेः सिचो वा लुक् स्यात्तथासोः परतः । थासा साहचर्यादेकवचनं तशब्दो गृह्यते । तेनेह न । यूयमतनिष्ट । अनुदात्तोपदेश - (SK2428) इत्यनुनासिकलोपः । तङि । अतत । अतनिष्ट । अतथाः । अतनिष्ठाः ।{$ {!1464 षणु!} दाने$} । सनोति । सनुते । ये विभाषा (SK2319) । सायात् । सन्यात् । जनसन - (SK2504)इत्यात्वम् । असात । असनिष्ट । असाथाः । असनिष्ठाः ।{$ {!1465 क्षणु!} हिंसायाम्$} । क्षणोति । क्षणुते । ह्मयन्त - (SK2299) इति न वृद्धिः । अक्षणीत् । अक्षत । अक्षणिष्ट । अक्षथाः । अक्षणिष्ठाः ।{$ {!1466 क्षिणु!} च$} । उप्रत्ययनिमित्तो लघूपधगुणः । [(परिभाषा - ) संज्ञापूर्वको विधिरनित्यः] इति न भवतीत्यात्रेयादयः । भवत्येवेत्यन्ये । क्षिणोति । क्षेणोति । क्षेणितासि । क्षेणितासे । अक्षेणीत् । अक्षित । अक्षेणिष्ट ।{$ {!1467 ऋणु!} गतौ ऋणोति$} । अर्णोति । अर्णुतः । अर्ण्वन्ति । आनर्ण । आनृणे । अर्णितासे । आर्णीत् । आर्त । आर्णिष्ट । आर्थाः । आर्णिष्ठाः ।{$ {!1468 तृणु!} अदने$} । तृणोति । तर्णोति । तृणुते ।{$ {!1469 घृणु!} दीप्तौ$} । जघर्ण । जघृणे ॥ अथ द्वावनुदात्तेतौ ॥{$ {!1470 वनु!} याचने$} । वनुते । ववने । चान्द्रमते परस्मैपदी । वनोति । ववान ।{$ {!1471 मनु!} अवबोधने$} । मनुते । मेने ।{$ {!1472 डुकृञ्!} करणे$} । करोति । अत उत्सार्वधातुके (SK2467) कुरुतः । यण् । न भकुर्छुराम् (SK1629) इति न दीर्घः । कुर्वन्ति ॥
Laghu Siddhanta Kaumudi¶
{$ {! 1 तनु !} विस्तारे $} (धातुपाठे (08.0001)) ॥ तनादिकृञ्भ्यः उः (LSK570) । तनोति, तनुते । ततान, तेने । तनितासि, तनितासे । तनिष्यति, तनिष्यते । तनोतु । तनुताम् । अतनोत्, अतनुत, तनुयात्, तन्वीत । तन्यात्, तनिषीष्ट । अतानीत्, अतनीत् ॥ तनादिभ्यस्तथासोः । तनादेः सिचो वा लुक् स्यात्तथासोः। अतत, अतनिष्ट। अतथाः, अतनिष्टाः। अतनिष्यत्, अतनिष्यत॥ {$ {! 2 षणु !} दाने $} (धातुपाठे (08.0002)) ॥ सनोति, सनुते॥
Balamanorama¶
तनादिभ्यस्तथासोः - तनादिभ्यस्तथासोः ।गातिस्ते॑त्यतः सिचेति, ‘ण्यक्षत्रियार्षे’ त्यतो लुगिति,विभाषा घ्राधे॑डित्यतो विभाषेति चानुवर्तते । तदाह - तनादेरित्यादिना । एकवचनशब्दो गृह्रत इति । नतु लुङादेशपरस्मैपदमध्यमपुरुषबहुवचनतादेशोऽपीत्यर्थः । यूयमिति । लुङि मध्यमपुरुषबुहवचने सिचि वृद्धिविकल्पे सति अतनिष्ट अतानिष्टेत्यत्र सिचो नायं लुग्विकल्प इत्यर्थः । तदेवं प्रत्युदाहरममुक्त्तवा सूत्रस्योदाहरणं वक्ष्यन्प्रक्रियां दर्शयति — अनुदात्तोदेशेत्यनुसाकिलोपस्तङीति । तङि प्रथमैकवचने, तशब्दे मध्यमपुरुषैकवचने, तशब्दे मध्यमपुरुषैकवचने थासि च सिचो लुकिअनुदात्तोपदेसे॑ति नकारस्य लोप इत्यर्थः । तदाह — अतत अतनिष्टेति । अतथाः अतनिष्ठा इति च । अतनिषातामित्यादि सुगमम् । षणु दाने । षोपदेशोऽयम् । तनुवद्रूपाणि । असातेति । सिचो लुक्पक्षे रूपम् । असनिष्टेति । इट् । झलादिपरकत्वाऽभावादात्त्वं नेति भावः । क्षणुधातुरदुपधः ।वज्रेऽध्वर्युः क्षण्वीते॑ति तैत्तिरीये । क्षिणु चेति । इदुपधः । अयमपि हिंसायमित्यर्थः ।वज्रेऽध्वर्युः क्षिण्वीते॑ति शाखान्तरं शाबरभाष्ये उदाहृतम् । ननु क्षिणोतीत्यत्र उप्रत्ययमाश्रित्य इकारस्य लघूपधगुणः कस्मान्नेत्यत आह — उप्रत्ययनिमित्त इति । ऋणु गतौ । अत्रापि क्षिणुवन्मतभेदाल्लघूपधगुणतदभावौ । तदाह — ऋणोति अर्मोतीति.एवमग्रेऽपि । अर्ण्वन्तीति ।इको यणची॑ति यणिति भावः । डु कृञ् करणे । करोतीति । उप्रत्यमाश्रित्य ऋकारस्य गुणः । रपरत्वम् । उकारस्य तु तिपमाश्रित्यगुणः । कुरुत इति । तसो ङित्त्वादुकारस्य न गुणः । रकुरु अन्तीति स्थिते आह — यणिति ।इको यणचीत्यनेने॑ति शेषः । उकारस्य यणि कुर्व् अन्तीति स्थितेहलि चे॑ति दीर्घमाशङ्क्याह — नभेति । वसि मसि चलोपस्चास्यान्यतरस्या॑मित्युकारलोपविकल्पे प्राप्ते — नित्यं करोतेः ।उतश्च प्रत्यया॑दित्यनुवर्तते,लोपश्चास्यान्यतरस्या॑मित्यतो लोपः, म्वोरिति च । तदाह- - करोतेरिति । चकर्थेति ।कृसृभृवृ॑इति नेडिति भावः । अजन्तत्वेऽपि ऋदन्तत्वाद्भारद्वाजमतेऽपि नेट् । करिष्यतीति । करोतु- कुरुतात् । कुरु । करवाणि । कुरुताम् । कुर्वाताम् । करवै करवावहै करवामहै । अकरोत् अकुरुताम् । अकुरुत अकुर्वाताम् । विधिलिङि कुरु यात् इति स्थिते — ये च ।लोपश्चास्यान्यतरस्या॑मित्यतो लोप इति, अस्येति चानुवर्तते । अस्येत्यनेन पूर्वसूत्रे उत इत्युपात्त उत्परामृस्यते ।नित्यं करोते॑रित्यतः करोतेरित्यनुवर्तते । अङ्गाक्षिप्तः प्रत्ययो यकारेण विशेष्यते, तदादिविधिः । तदाह - कृञ उलोप इति । आशिषि क्रियादिति । ‘रिङ् शयग्लिङ्क्षु’ इति रिङिति भावः । कृषीष्टेति ।उश्चे॑ति कित्त्वान्न गुण इति भावः । अकार्षीदिति । सिचि वृद्धौ रपरत्वमिति भावः । ननु लुङ्स्तङि अकृ स् त इति स्थितेतनादिभ्यस्तथासो॑रिति सिचो लुकि अकृतेतीष्टं सिद्ध्यति । सिचो लुगभावे तु सकारः श्रूयेतेत्यत आह - तनादिभ्य इत्यादि ।
Tattvabodhini¶
तनादिभ्यस्तथासोः - अतनिष्ट अतानिष्टेति ।तस्थस्थमिपा॑मिति तादेशः ।अतो हलादे॑रिति वा वृद्धिः । अततेति ।तनादिभ्यस्तथासो॑रिति सिज्लुक्यनुनासिकलोपः । अतनिष्टेति । लुगभावपक्षे इट् । षणु दाने । नान्तोऽयम् । णकारस्तु लाक्षणिकः ।तेन यङ्लुकिसंसन्ति संसन्त॑ इत्यादावनुस्वारपरसवर्णौ । क्षणु हिंसायाम् । क्षिणु च । इमावपि लाक्षिकणकारौ । तेन चङ्क्षन्ति,चेक्षेति इत्यत्रानुस्वारपरसवर्णौ ।
Padamanjari¶
तनादिभ्यस्तथासोः॥ उदाहरणेषु स्वरितेत्वादात्मनेपदम्। थासा साहचर्यादिति। यद्यपि तावदयं तशब्दो द्दष्टापचारः - अस्त्यात्मनेपदमस्ति च परस्मैपदम्, अस्ति चैकवचनमस्ति च बहुवचनम्। अयं तु खलु थाः शब्दोऽद्दष्टापचार - आत्मनेपदमेकवचनं च, तस्यास्य कोऽन्यः सहायो भवितुमर्हति, अन्यदत आत्मनेपदादेकवचनाच्चेति भावः। आत्मनेपदस्येति। उपलक्षणमेतत्। एकवचनस्येत्यपि द्रष्टव्यम्॥
Nyaas¶
अतत इति। स्वरितञितः (1.3.72) इत्यात्मनेपदम्। अनुदात्तोपदेश ( (6.4.37) इत्यादिनाऽनुनासिकलोपः। अतनिष्ट ययम् इति। मध्यमपुरुषबहुवचनान्तमेतत्॥
Prakriyasarvasvam¶
तनादेस्तथासोः परयोः सिचो वा लुक् स्यात् । सिजलोपे तथासोर्धातोः परत्वात् तयोश्चापित्सार्वधातुकत्वेन ङित्त्वाद् ‘अनुदात्तोपदेश-’ (६-४-३७) इत्यनुनासिकलोपः । अतत, अतनिष्ट । अतनिषाताम् । अतनिषत । अतथाः, अतनिष्ठाः । अतनिध्वम्, अतनिध्वम् । अतनिषि । अतनिष्वहि । लिटि ततान । तेनतुः । तेनिथ । तेनिव, तेने । तेनिषे । तेनिध्वे । तन्यात् । तनिषीष्ट । तनिता । तनिष्यति, तनिष्यते । षणु दाने । इह पकारजं णत्वमिति धात्वादेः षः स कृते णत्वनिवृत्तिः । सनोति । सनुते । यकि,
Sutra Prayogas¶
उपस्कृथाः (भट्टिकाव्यम्): तनादि- भ्यस्त-थासोः इति सिचो लुक्।
कृथास्तथा (भट्टिकाव्यम्): तनादिभ्यस्त- थासोः इति सिचो लुक्।